सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 108, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 108

१८ युक्तिकल्पतरौ—
तत्रध्वज-युक्तिः ।
सेना-चिह्नं क्षितीशानां दण्डोध्वज इति स्मृतः ।
सपताको निष्पताकः स ज्ञेयो द्विविधो बुधैः ॥ ४६२ ॥
स पातक-ध्व[ज]स्याग्रे यथा हस्तं परिन्यसेत् ।
जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४६३ ॥
वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा ।
नैपो नेषो(१)थवा दण्डस्तथा वैराज-वारणः ॥ ४६४ ॥
अज्ञानादिक-(२) संज्ञानां वर्ण-रूपः प्रकाशितः ।
सर्वेषां चैव वंशस्तु दण्डः सम्पत्ति-कारकः ॥ ४६५ ॥
अकचटतप यशाः ।
पताका सार्द्ध-दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् ।
प्रता पाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४६६ ॥
पञ्चहस्तायता(यथा) हस्त-परिणाहा जयाभिधाः ।
जया च विजया भीमा चपला वैजयन्तिका ॥ ४६७ ॥
दीर्घा विलासा लोला च ज्ञेया हस्तैक वृद्धितः ।
परिणाहे पादवृद्धि रथ वर्गस्य निर्णयः ॥ ४६८ ॥
रक्तः श्वेतोऽरुणः पीतो चित्रो नीलोऽथ कर्बुरः ।
कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः ।
अवर्णा(ज्ञा)दिकसंज्ञानां अष्टाना्राष्टक-चयम् ॥ ४६९ ॥
कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् ।
ब्रह्म-क्षत्रिय-विट्शूद्र-जातीनां संप्रकाशितः ॥ ५०० ॥
( १ ) नैषा निम्बो इति (ख) पुस्तक पाठः ।
( २ ) अवर्णादिक इति (ख) पुस्तक पाठः ।