याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
आचाराध्यायः २१
समानप्रवरा निषेधः । तथा च 'असपिण्डाम्' इत्येतत्सार्ववर्णिकम् ; सर्वत्र
सापिण्ड्यसद्भावात् । 'असमानार्षगोत्रजाम्' इत्येतत्त्रैवर्णिकविषयम् । यद्यपि
राजन्यविशां प्रातिस्विकगोत्राभावात्प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदि-
तव्यौ । तथा च 'यजमानस्यार्षेयान्प्रवृणीते' इत्युक्त्वा 'पौरोहित्यान्राजन्यविशां
प्रवृणीते' इत्याहाश्वलायनः ( श्रौ. सू. अ. ६ खं. १५ ) । सपिण्डासु समान-
गोत्रासु समानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि
²दृष्टविरोध एव ॥-
भाषा—असाध्य रोग से अछूती हो, भाई वाली हो, और समान गोत्र
एवं प्रवर की न हो ।
असपिण्डाम्' इत्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापि-
ण्ड्यमुक्तं, तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत
आह-
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ ५३ ॥
मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितुः संताने सप्तमादूर्ध्वं,
सापिण्ड्यं निवर्तते' इति शेषः । अतश्चायं 'सपिण्ड' शब्दो³ऽवयवशक्त्या⁴ सर्वत्र
प्रवर्तमानोऽपि निर्मन्ध्य-पङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः
षट् सपिण्डाः, पुत्रादयश्च षट्, आत्मा च सप्तमः, संतानभेदेऽपि यतः संतानभेद-
स्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृ-
पितामहादिगणनायां पञ्चमं⁵संतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितर-
मारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथा च
'भगिन्योर्भगिनीभ्रात्रोर्भ्रातृपुत्रीपितृव्ययोः। विवाहे द्वयोर्बिभूतत्वाच्छाखाभेदोऽवं⁷-
गण्यते ॥ यद्यपि वसिष्ठेनोक्तं 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा' इति,
'त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना, तदप्यर्वाङ्निषेधार्थं
न पुनस्तत्प्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः । एतच्च समानजातीये द्रष्ट-
व्यम् विजातीये तु विशेषः । यथा शङ्खः- 'यद्येकजाता बहवः पृथक्क्षेत्राः
पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्व्वावर्तते त्रिषु ॥' एकस्माद्ब्राह्मणादे-
र्जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीषु जाताः । पृथग्जनाः
समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः, सपिण्डाः किंतु पृथक्-
१. गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्रा-
भावस्तथापि । २. दृष्टदोषविरोधः । ३. शब्दो योगेऽवयव । ४. वयव-
शक्त्या प्रवर्त्तं । ५. पञ्चमपुरुषवर्तिनी । ६. ऽव्यादि । ७. वगण्यते ।
८. एकपिण्डाः सपिण्डाः ।
शौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । 'पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव
सापिण्ड्यमिति ॥ ५३ ॥
भाषा—तथा माता के कुल में पाँच पीढ़ी से ऊपर एवं पिता के कुल
में सात पीढ़ी से ऊपर हो ॥ ५३ ॥
'दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
पुरुषा एव पूरुषाः, दशभिः पुरुषैर्मातुतः पञ्चभिः पितुतः पञ्चभिर्विख्यातं
यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् अध्ययनमुपलक्षणं श्रुताध्ययन-
संपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मा-
त्कन्यका ग्राहर्तव्येति नियम्यते ॥
भाषा—जिस उच्च कुल के पुरुष दस पीढ़ियों से प्रख्यात वेद पाठी हों
उस कुल की कन्या ग्रहण करे;
एवं सर्वतः प्राप्तौ सत्यामपवादमाह—
स्फीतादपि नसंचारिरोगदोषसमन्वितात् ॥ ५४ ॥
स्फीतादिति । संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणित-
द्वारेणानुप्रविशन्तो दोषाः पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः । एतैः
समन्वितात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्त्तव्या ॥ ५४ ॥
भाषा—किन्तु यदि महान् कुल में भी संसर्गज रोग हों तो उससे कन्या
न ले ॥ ५४ ॥
एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह—
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः ॥ ५५ ॥
एतैरेव पूर्वोक्तैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः-
सवर्ण उत्कृष्टो वा, न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात्
प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते
बीजं ह्लादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ।
युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः २स्मित-
पूर्वमृद्गभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥
भाषा—वर भी इन्हीं पूर्वोक्त गुणों से युक्त, सवर्ण और विद्वान् होना
चाहिए, उसके पुरुषत्व की यत्नपूर्वक परीक्षा की गई हो और वह युवक,
विवेकशील और प्रिय होवे ॥ ५५ ॥
१. पौरुष । २. स्मितमृदुपूर्वाभिभाषण ।
आचाराध्यायः २३
रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः-नित्यः,
काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ ( आचार. ५५ ) इत्यनेन
सवर्णा मुख्या दर्शिताः । इदानीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्यत
आह—
यदुच्यते द्विजातीनां १शूद्राहारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ ५६ ॥
यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः
स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य-ब्राह्मणस्य चतस्रो भार्याः, क्षत्रियस्य तिस्रः,
वैश्यस्य द्वे इति द्विजातीनां शूद्रावेदनमिति नैतद्याज्ञवल्क्यस्य मतम् ।
यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते
पुनः’ इति श्रुतेः । अत्र च ‘तत्रायं जायते स्वयम्’ इति हेतुं वदता नित्यकपुत्रो-
त्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नित्यक-
पुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये, क्षत्रियस्य च
वैश्यौ३ भार्यानुज्ञाता भवति ॥ ५६ ॥
भाषा—द्विजातियों को शूद्रवर्ण से स्त्री ग्रहण करने की जो बात कही
गई है वह मुझे मान्य नहीं है; कारण, स्त्री में स्वयं ( पुरुष का आत्मा ) ही
जन्म लेता है ॥ ५६ ॥
इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रममात्रानधिकारिणो
गृहस्थाश्रमावस्थामात्रभिकाङ्क्षिणः परिणयनक्रममाह—
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ ५७ ॥
वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्यस्यैका । शूद्रस्य
तु स्वैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या
अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नित्यकानुकल्पे काम्ये च पुत्रोत्पा-
दनविधौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा
‘विप्रान्मूर्धावसिक्तो हि’ इत्युपक्रम्य विन्नास्वेष विधिः स्मृतः’ इति च तत्
रतिकामस्याश्रममात्रामिकाङ्क्षिणो वा नान्तरीयकत्या४ऽपत्यस्य ॥ ५७ ॥
भाषा—वर्ण की अनुलोमता से ब्राह्मण क्षत्रिय और वैश्य की क्रमशः
१. शूद्रादारोप । २ तत्रात्मा जायते । ३. वैश्याभ्यनुज्ञा ।
४. अन्योद्देशकव्यापारनिर्वर्त्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्त्वं वा नान्त-
रीयकत्वम् ।
तीन, दो और एक पत्नियां होती हैं । शूद्र की अपनी ही ( जाति की ) एक
भार्या होती है ॥ ५७ ॥
विवाहानाह—
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृतः ।
तज्जः पुनात्युभयतः पुरुषानैकविंशतिम् ॥ ५८ ॥
स ब्राह्माभिधानो विवाहः यस्मिन्नुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता
कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दश,
आत्मानं चैकविंशं पुनाति सद्वृत्तश्चेत् ॥ ५८ ॥
भाषा—ब्राह्मविवाह वह होता है जिसमें ( वर को ) बुलाकर (उसे)
यथाशक्ति आभूषणादि से अलंकृत कन्या प्रदान की जाती है; ऐसे विवाह
से उत्पन्न पुत्र ( अपने पूर्वकी दस; आगे आने वालो दस तथा अपनी पीढ़ी
को मिलाकर ) इक्कीस पीढ़ियों को पवित्र करता है ॥ ५८ ॥
दैवार्षविवाहौ—
यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः, पुनात्युत्तरजश्च षट् ॥ ५९ ॥
स दैवो विवाहो यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे यथाशक्त्यलंकृता कन्या
दीयते । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाह-
जश्चतुर्दश पुनाति सप्तावरान् सप्त परान् । उत्तरज आर्षविवाहजः षट् पुनाति
त्रीन्पूर्वान् त्रीन्परान् ॥ ५९ ॥
भाषा—यज्ञानुष्ठान के समय ऋत्विज को (यथाशक्ति अलंकृत करके)
कन्या दी जाय तो वह दैव विवाह होता है; जब दो गायें लेकर कन्या दी
जाती है तब वह आर्षविवाह होता है । इनमें दैवविवाह से उत्पन्न पुत्र ( सात
पहले की और सात बाद की इस प्रकार ) चौदह पीढ़ियों को और आर्ष
विवाह से उत्पन्न पुत्र ( तीन पहले और तीन बाद की ) छः पीढ़ियों को पवित्र
करता है ॥ ५९ ॥
प्राजापत्यविवाहलक्षणम्—
इत्युक्त्वा चरतां १धर्मं सह या दीयतेर्थिने ।
स कायः पावयेत्तज्जः षंट् षड्वंश्यान्सहात्मना३ ॥ ६० ॥
सह धर्मं चरताम्' इति परिभाष्य कन्यादानं स प्राजापत्यः । तज्जः षट्
पूर्वान्षट् परान् आत्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥
१. सहोभौ । २. धर्ममित्युक्त्वा । ३. सह चात्मनः ।
आचाराध्यायः २५
भाषा—साथ रहकर धर्म का आचरण करो, ऐसा कहकर जब कन्या
विवाहेच्छु पुरुष को प्रदान की जाती है तब कायविवाह होता है; इससे
उत्पन्न पुत्र अपनी पीढ़ी को और छः पहले एवं छः बाद की पीढ़ियों को पवित्र
करता है ॥ ६० ॥
आसुरगान्धर्वादि विवाहलक्षणानि—
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः १कन्यकाछलात् ॥ ६१ ॥
आसुरः पुनर्द्रविणादानात् । गान्धर्वस्तु परस्परातुरागेण भवति । राक्षसो
युद्धेनापहरणात् । पैशाचस्तु कन्यकाछलात् छलेन छलना स्वापाद्यवस्थास्व-
२पहरणात् ॥ ६१ ॥
भाषा—अधिक धन लेकर कन्या प्रदान की जाय तो वह आसुर विवाह
होता है, परस्पर प्रेम होने पर जो विवाह होता है वह गान्धर्व कहलाता है।
युद्ध में हरी गई कन्या से विवाह राक्षसविवाह होता है और कन्या को
छलपूर्वक फुसलाकर किया गया विवाह पैशांच होता है ॥ ६१ ॥
सवर्णादिपरिणयेन विशेषमाह—
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने ३त्वग्रजन्मनः ॥ ६२ ॥
सवर्णासु विवाहे स्वगृहोक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु
शरं गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य
दशाम् । यथाह मनुः (३।४४)—'वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने
इति ॥ ६२ ॥
भाषा—अपनी जाति की कन्या से विवाह करते समय उसका हाथ
पकड़ना चाहिए; ब्राह्मण क्षत्रिया से विवाह करे तो क्षत्रिया बाण पकड़े, वैश्या
प्रतोद या पैना पकडे ॥ ६२ ॥
कन्यादातृक्रममाह—
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ ६३ ॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ ६४ ॥
१. कन्यकां छुलात् । २. द्यवस्थासु हरणात् । ३. त्वग्रयजन्मनः ।
२६ याज्ञवल्क्यस्मृतिः
एतेषां पित्रादीनां पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चेत् यद्युन्मादादि-
दोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृतावाप्नोति ।
एतच्चोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा कन्यैव गच्छं-
तमनाईमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३-६४ ॥
भाषा—पिता, पितामह, भाई, कुल का कोई पुरुष और माता—इनमें
क्रमशः पहले वाले के अभाव में आगे वाला यदि प्रकृतिस्थ अर्थात् उन्मादादि
रोग से मुक्त हो तो कन्यादान दे । ( यदि कन्यादान का अधिकारी व्यक्ति )
कन्यादान नहीं करता तो कन्या के प्रत्येक ऋतुकाल में उसे भ्रूणहत्या का
पाप लगता है । यदि कन्यादान देने वाला कोई भी न हो तो कन्या योग्य
वर का स्वयं वरण कर लेना चाहिए ॥ ६३-६४ ॥
कन्याहरणे दण्डः—
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
सकृदेव कन्या प्रदीयते इति शास्त्रनियमः । अतस्तां दत्त्वा अपहरन् कन्यां
चोरवद्दण्ड्यः ॥
भाषा—कन्या एक ही बार (विवाह में) दी जाती है; अतः ( उसे
देकर पुनः ) उसका अपहरण करने वाला चोर के समान दण्ड का भागी
होता है ।
एवं सर्वत्र प्रतिषेध प्राप्तेऽपवादमाह--
दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ ६५ ॥
यदि पूर्वस्माद्वराच्छ्रेयान्विद्याभिजनाद्यतिशययुक्तो वर आगच्छति, पूर्वस्य
च पातक्योगो दुर्वृत्तत्वं वा, तदा दत्तामपि हरेत् । एतच्च सप्तमपदा-
त्प्राग्द्रष्टव्यम् ॥ ६५ ॥
भाषा—किन्तु यदि पहले वर स अच्छा कोई दूसरा वर मिल जाय तो
दी हुई कन्या का भी हरण कर ले ॥ ६५ ॥
अनाख्याय दद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु १ त्यजन् दण्ड्यो दूषयंस्तु मृषा शतम् ॥ ६६ ॥
यः पुनश्चक्षुर्ग्राह्यं दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः ।
उत्तमसाहसं च ( आचा० ३६६ ) वक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन् उत्तम-
१. च त्यजन् ।
आचाराध्यायः २७
साहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोग्यादिभिः
कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥
भाषा—जो व्यक्ति ( दिखाई पड़ने वाले ) दोषों को बिना बताए ही
कन्या का दान करता है उसे उत्तमसाहस का दण्ड मिलना चाहिए । निर्दोष
कन्या का ग्रहण करके पुनः उसका त्याग करने वाले को भी यही दण्ड
मिलना चाहिए और ( विवाह के पूर्व ) कन्या में मिथ्या दोष बताने वाले को
सौ पर्णों का दण्ड देना चाहिए ॥ ६६ ॥
'अनन्यपूर्व्विकाम्' ( श्लो. ५२ ) इत्यत्रानन्यपूर्वा परिणेयोक्ता, तत्रान्यपूर्वा
कीदृशीत्याह—
अक्षता च क्षता चैव पुनर्भूः, संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ ६७ ॥
अन्यपूर्वा द्विविधा—पुनर्भूः, स्वैरिणी चेति । पुनर्भरपि द्विविधा—क्षता
चाक्षता च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः
संस्कारदूषिता । या पुनः कौमारं पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा
स्वैरिणीति ॥ ६७ ॥
भाषा—कन्या का किसी पुरुष से शरीरसंबन्ध हुआ हो चाहे न हुआ हो
दूसरी बार विवाह होने पर वह पुनर्भू कहलाती है। जो स्त्री पति को छोड़ कर
अपनी इच्छा से अपनी जाति के किसी दूसरे पुरुष को स्वीकार करती है वह
स्वैरिणी होती है ॥ ६७ ॥
एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषमाह—
अपुत्रां गुर्व्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतामियात् ॥ ६८ ॥
आ गर्भसंभवाद्गच्छेदूत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥
अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवशे भर्तुः कनीयान् भ्राता
सपिण्डो वा उक्तलक्षणः सगोत्रो वा, एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त-
सर्वाङ्गः, ऋतावेव वक्ष्यमाणलक्षणे द्वयाद्गच्छेत् आ गर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन्
अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः
क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः, 'यस्या म्रियेत कन्याया
वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥' इति
( ९।६९ ) मनुस्मरणात् ॥ ६८-६९ ॥
१. क्षेत्रजः स भवेत् ।
भाषा—जिस स्त्री के (अपने पति से) पुत्र न हुआ हो उसके पास
पिता इत्यादि गुरुजनों की आज्ञा से ऋतुकाल में सभी अंगों में घृत का लेप
करके देवर, सपिण्ड या समान गोत्र का पुरुष पुत्र प्राप्ति की इच्छा से गर्भ
स्थिति के समय तक ही जाय, अन्यथा (उसके उपरान्त भी गमन करने
पर) वह पतित हो जाता है। इस विधि से उत्पन्न पुत्र क्षेत्रज कहलाता
है ॥ ६७-६९ ॥
व्यभिचारिणीं प्रत्याह—
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ७० ॥
व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां
अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्यां पिण्डमात्रोपजीविनीं प्राणयात्रामान्रभोजनाम् ।
धिक्कारादिभिः परिभूतां; भूतलाशायिनीं स्ववेश्मन्येव वासयेत् वैराग्यजननार्थं,
न पुनः शुद्ध्यर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्' (मनु. ११।१७६)
इति पृथक्प्रायश्चित्तोपदेशात् ॥ ७० ॥
भाषा—व्यभिचारिणी स्त्री को सभी (भरणपोषण आदि) अधिकारों
से वंचित करके, (अंजन, शुभ्रवस्त्र न देकर) मलिन बनाकर, केवल जीवन
धारण योग्य भोजन देकर, तिरस्कारपूर्वक भूमि पर सुलावे ॥ ७० ॥
तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह—
सोमः शौचं १ददावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१ ॥
परिणयनात्पूर्वं सोम-गन्धर्व-वह्वयः २स्त्रीर्भुक्त्वा यथाक्रमं तासां शौचमधुर-
वचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात् स्त्रियः सर्वत्र स्पर्शािलङ्गनादिषु मेध्याः
शुद्धाः स्मृताः ॥ ७१ ॥
भाषा—सोम देवता ने (नारी को) पवित्रता दी, गन्धर्व ने मधुर
वाणी दी, अग्नि ने सब प्रकार से पवित्र होने की शक्ति दी; अतएव स्त्रियां
(सर्वत्र) पवित्र होती हैं ॥ ७१ ॥
न च तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह—
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ ७२ ॥
१. ददौ स्त्रीणां । २. स्त्रियो भुक्त्वा ।
आचाराध्यायः २६
अप्रकाशितान्मनोऽव्यभिचारात्पुरुषान्तरसंभोगसङ्कल्पाद्यदपुण्यं तस्य ऋतौ
रजोदर्शने शुद्धिः, शूद्रकृते तु गर्भे त्यागः। मनुः (९।१५५) 'ब्राह्मणक्षत्रिय-
विशां भार्याः शूद्रेण सङ्गताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः॥'
इति स्मरणात् । तथा गर्भबधे भर्तृबधे महापातके च, ब्रह्महत्यादौ आदिग्रहणा-
च्छिष्यादिगमने च त्यागः। 'चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' (वसिष्ठ. २१।१०) इति
व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्चोपभोगधर्मकार्ययोः,
न तु निष्कासनं गृहात्तस्याः । 'निरुन्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥
भाषा-ऋतुकाल होने पर व्यभिचार (अर्थात् पर पुरुषगमन) के
दोष की शुद्धि होती है; दूसरे का गर्भ रह जाने पर स्त्री के त्याग का विधान
है गर्भ की हत्या, पतिवध आदि में और (ब्रह्महत्यादि) महापातक करने पर
स्त्री का त्याग विहित है ॥ ७२ ॥
द्वितीयपरिणयने हेतूनाह-
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ ॥
सुरां पिबतीति सुरापी शूद्राऽपि । 'पतत्यर्धं शरीरस्य यस्य भार्या सुरां
पिबेत्' इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी ।
वन्ध्या निष्फला । अर्थघ्नी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः
स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारिणी । 'अधिवेत्तव्या' इति १प्रत्येकमभि-
संबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥
भाषा-सुरापान करने वाली, दीर्घ रोग से ग्रस्त, धूर्त, बांझ, धन का
नाश करने वाली, कठोर वचन बोलने वाली, पुत्रियों को ही जन्म देने वाली
और पति का अहित करने वाली पत्नी के रहते हुए भी दूसरा विवाह
कर लेना चाहिए ॥ ७३ ॥
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ ७४ ॥
किञ्च, सा अधिविन्ना पूर्ववदेव दानमानसत्कारैर्भर्तव्या। अन्यथाऽभरणे
महदपुण्यं वक्ष्यमाणो दण्डश्च । न च भरणे सति केवलमपुण्यपरिहारः । यतः यत्र
दंपत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥
१. सर्वत्र संबध्यते ।
भाषा—किन्तु उक्त दोषों वाली प्रथम विवाहिता पत्नी का भी पालन-
पोषण करना चाहिए, अन्यथा घोर पाप होता है। जहां स्त्री पुरुष दोनों
परस्पर अनुकूल होते हैं वहां धर्म, अर्थ और काम तीनों की प्रतिदिन वृद्धि
होती है ॥ ७४ ॥
स्त्रियं प्रत्याह—
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ ७५ ॥
भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं १नोपगच्छति सेह लोके
विपुलां कीर्तिमवाप्नोति । उमया च सह क्रीडते, पुण्यप्रभावात् ॥ ७५ ॥
भाषा—पति के जीवन काल में या मर जाने पर भी जो स्त्री किसी दूसरे
पुरुष के समीप नहीं जाती वह इस संसार में कीर्ति तो पाती है और (मृत्यु के
बाद पुण्य के प्रभाव से) उमा के साथ सुखपूर्वक निवास करती है ॥ ७५ ॥
अधिवेदनाकारणाभावे अधिवेतारं प्रत्याह—
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ७६ ॥
२आज्ञासंपादिनीमादेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्,
प्रियवादिनीं मधुरभाषिणीं यस्त्यजति अधिविन्दति, स राज्ञा स्वधनस्य तृतीयांशं
दाप्यः । निर्धनस्तु भरणं ग्रासाच्छादनानि दाप्यः ॥ ७६ ॥
भाषा—जो आज्ञाकारिणी, कुशल, वीर पुत्रों को जन्म देने वाली और
मधुरभाषिणी पत्नी का त्याग करता है (अथवा उसके जीवित रहते दूसरी
पत्नी ग्रहण करता है) तो (राजा) उससे धन का तृतीयांश दिलावे और
यदि निर्धन हो तो और भोजन वस्त्र दिलवाये ॥ ७६ ॥
स्त्रीधर्मानाह—
स्त्रीभिर्भर्तुर्वचः कार्यमेष धर्मः परः स्त्रियाः ।
आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ ७७ ॥
स्त्रीभिः सदा भर्तुर्वचनं कार्यम् । यस्मादयमेव पर उत्कृष्टो धर्मः, स्त्रीणां
स्वर्गहेतुत्वात् । यदा तु महापातकदूषितस्तदा आ शुद्धेः संप्रतीक्ष्यः, न
तत्पारतन्त्र्यम् । उत्तरकालं तु पूर्ववदेव तत्पारतन्त्र्यम् ॥ ७७ ॥
भाषा--स्त्रियों का यह कर्तव्य है कि पति की आज्ञा का पालन करे,
१. नैवोपगच्छति । २. आदेशसंपादिनीं । ३. सर्वथा ।
आचाराध्यायः ३१
वही स्त्रियों का परम धर्म है। यदि (पति को) महापातक का दोष लगा हो
तो (स्त्री को) उसकी शुद्धि तक प्रतीक्षा करनी चाहिए ॥ ७७ ॥
शास्त्रीयदारसंग्रहस्य फलमाह—
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ ७८ ॥
लोके आनन्त्यं वंशस्याविच्छेदः लोकानन्त्यं, दिवः प्राप्तिश्च, दारसंग्रहस्य
प्रयोजनम् । कथमित्याह—पुत्र-पौत्र-प्रपौत्रकैर्लोकानन्त्यम्, अग्निहोत्रा-
दिभिश्च स्वर्गप्राप्तिरित्यन्वयः। यस्मात् स्त्रीभ्य एतद्द्वयं भवति तस्मात् स्त्रियः
सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश्च धर्मार्थम् । तथा चापस्तम्बेन 'धर्म-
प्रजासपत्तिः प्रयोजनं दारसंग्रहस्योक्तं धर्मप्रजासंपन्नेषु दारेषु नान्यां कुर्वीत'
इति वदता। रतिफलं तु लौकिकमेव ॥ ७८ ॥
भाषा—पुत्र, पौत्र और प्रपौत्र से इस लोक में वंश अविच्छिन्न बना
रहता है और स्वर्ग की प्राप्ति होती है। चूंकि ये दोनों कार्य स्त्रियों से सिद्ध
होते हैं अतः वे उपभोग्य होती हैं और (धर्म के लिये) उनकी रक्षा करनी
चाहिए ॥ ७८ ॥
'पुत्रोत्पत्त्यर्थं स्त्रियः सेव्याः' (श्लो० ७८) इत्युक्तं, तत्र विशेष-
माह—
षोडशर्तुनिशाः स्त्रीणां तस्मिन्चुग्मासु संविशेत् ।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु^१ वर्जयेत् ॥ ७९ ॥
स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । स च रजोदर्शनदिवसा-
दारभ्य षोडशाहोरात्रस्तस्मिन् ऋतौ युग्मासु समासु रात्रिषु । 'रात्रि'ग्रहणाद्दि-
वसप्रतिषेधः । संविशेत् गच्छेत्पुत्रार्थम् । 'युग्मासु' इति बहुवचनं समुच्चयार्थम् ।
अतश्चैकस्मिन्नपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एव
गच्छन् ब्रह्मचार्येव भवति । अतो यन्न ब्रह्मचर्यं श्रौद्धादौ^२ चोदितं तन्न गच्छतोऽपि
न ब्रह्मचर्यस्खलनदोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । 'पर्वाणि' इति
बहुवचनादाद्यर्थावगमादष्टमीचतुर्दश्योर्ग्रहणम् । यथाह मनुः (४।१५५)—
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ
स्नातको द्विजः ॥' इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रो
रात्रींश्च वर्जयेत् ॥ ७९ ॥
१. चतस्रश्च । २. श्राद्धादिषु .
३२ याज्ञवल्क्यस्मृतिः
भाषा—स्त्रियों के (गर्भधारण योग्य) ऋतुकाल को सोलह रात्रियां
होती हैं; इनमें से (पुत्र के लिये) युग्म रात्रियों में संभोग करना चाहिए। इस
प्रकार स्त्रीगमन करने वाला ब्रह्मचारी ही होता है, किन्तु (अमावश्या, अष्टमी,
पौर्णमासी और चतुर्दशी) चार रात्रियों में गमन न करे ॥ ७९ ॥
एव गच्छन् स्त्रियं क्षामां मघां $^१$मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥
. किंच, एवमुक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मि-
न्काले रजस्वलाव्रतेनैव भवति। अथ चेन्न भवति तदा कर्तव्या क्षामता पुत्रोत्प-
त्त्यर्थमल्पाऽस्निग्धभोजनादिना । ‘पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः’
इति वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा स्त्र्येव भवति
पुरुषाकृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति स्त्र्याकृतिः, कालस्य
निमित्तत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा
कर्तव्या । माघा-मूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुं-
नक्षत्रे शुभयोगलग्नादिसंपत्तौ सकृदेकस्यां रात्रौ न द्वित्रिर्वा । ततो लक्षणैर्युक्तं
पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८० ॥
भाषा—मघा और मूल नक्षत्र को छोड़कर चन्द्रमा (ग्यारहवें आदि)
शुभ स्थान में स्थित होने पर जो दुबली स्त्री के निकट एकवार गमन करता
·है वह पुरुष शुभ लक्षणों से युक्त पुत्र उत्पन्न करता है ॥ ८० ॥
एवमृत्तौ नियममुक्त्वा इदानीमनृतौ नियममाह—
यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यत स्मृताः ॥ ८१ ॥
भार्याया इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । ‘वा’
शब्दो नियमान्तरपरिग्रहार्थः, न पूर्वनियमनिवृत्त्यर्थः । स्त्रीणांवरमिन्द्रदत्तमनु-
स्मरन् ‘भवतीनां कामविहन्ता पातकी स्यात्’ इति । यथा ‘ता अब्रुवन् वरं
वृणीमँहा ऋत्वियात्प्रजां विन्दामहै काममा विजनितोः संभवामेति तस्मादृत्त्वियात्
स्त्रियः प्रजां विन्दन्ते काममा विजनतोः संभवन्ति वँारे वृत $^४$ह्यासां’ इति ।
अपि च स्वदारेष्वेव निरतः नितरां रतस्तन्मनस्कः, ‘भवेत्’ इत्यनुषज्यते । एव-
कारेण स्त्र्यन्तरगमनं निवर्तयति; प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजन-
माह—स्त्रियो रक्ष्या यतः स्मृता इति । यस्मात्स्त्रियो रक्ष्याः स्मृता उक्ताः
१. पौष्णं च। २. कालस्यानियतत्वात् । ३. वृणीमहै । ४. वरं वृतं
तासां । ५. उक्ताः पूर्वं १६ श्लोके ।
आचाराध्यायः ३३
'कर्तव्याश्च सुरक्षिताः'-( आचार. ७८ ) इति । तच्च सुरक्षणं यथाकामित्वेन
स्त्र्यन्तरागमनेन च भवतीति । अत्राह-तस्मिन्युग्मासु संविशेत्' ( आचार.
७९ ) इति, किमयं विधिनिर्यमः परिसंख्या वा ? उच्यते,-न तावद्विधिः
प्राप्तार्थत्वात् । नापि परिसंख्या, दोषत्रयसमासक्तेः । अतो नियमं प्रतिपेदिरे
न्यायविदः । कः पुनरेषां भेदः ? अत्यन्ताप्राप्तप्रापणं विधिः, यथा 'अग्निहोत्रं
जुहुयात्' 'अष्टकाः कर्तव्याः' इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः,
यथा 'समे देशे यजेत' 'दर्शपूर्णमासाभ्यां यजेत' इति यागः कर्तव्यतया
विहितः । स च देशमन्तरेण कर्तुमशक्य इत्यर्थाद्देशः प्राप्तः । स च समो
विषमश्चेति द्विविधः । यदा यजमानः समे यियक्षते तदा 'समे यजेते'ति वचन-
मुदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा 'समे यजेते'ति
स्वार्थं विधत्ते, स्वार्थस्य तदानीमप्राप्तत्वात् विषमदेशनिवृत्तिस्त्वाथिकी⁴ ।
चोदितदेशेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः
स्यादिति । तथा 'प्राङ्मुखोऽन्नानि भुञ्जीत' इति । इदमपि स्मार्तमुदाहरणं
पूर्वेण व्याख्यातम् ॥ एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं
परिसंख्या । तद्यथा-'इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्ययं
मन्त्रः स्वसामर्थ्यादश्वाभिधान्याः गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः,
पुनरश्वाभिधानीमादत्त इत्यनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्या
निवर्तते । तथा 'पञ्च पञ्चनखा भक्ष्याः' इत्यत्र हि बह्वङ्ग्या शशादिषु श्वादिषु च
भक्षणे प्राप्तं पुनः शशादिषु श्रूयमाणं निवर्तत⁵ इति ॥ किं पुनरत्र युक्तम् ? परि-
संख्या इत्याह । तथा हि-कृतदारसंग्रहस्य स्वेच्छयैवर्तौ गमनं प्राप्तमिति न विधे-
रयं विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति गृह्य-
काराः-'दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति
तत्र द्वादशरात्रात्संवत्सराद्वा पूर्वमेवर्तुसंभवे ऋतौ गच्छेद्वेवेति नियमाद्ब्रह्मचर्य-
स्मरणं बाध्येत । अपि च प्राप्ते आवार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चर्तौ
भार्यागमनमिच्छुबैर्ध⁶, अतो यदि गच्छेदृताववेति वचनव्यक्तिर्युक्ता । किं च नैय-
मिकात्पुत्रोत्पत्तिविधेरेव ऋतौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेद्वेति नियमो-
नर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किं च ऋतौ गन्तव्यमेवेति नियमे
असन्निहितस्य व्याध्यादिना असमर्थस्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् ।
विध्यनुवादविरोधश्च नियमे । तथा हि-एकः शब्दः सकृदुच्चरितस्तमेवार्थं
१. विध्याद्ययश्च-'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र
वा प्राप्तौ परिसंख्या निगद्यते' इति । २. दोषत्रयासक्तेः । ३. प्राप्तार्थत्वात् ।
४. स्वरार्थात्सिद्धा । ५. निवर्तयति । ६. भार्येषुद्वयेव ।
३ या०
३४. याज्ञवल्क्यस्मृतिः
पक्षेऽनुवदति पक्षे तु विधत्ते चेति । तस्मादृतावेव गच्छेद्वान्यत्रेति परिसंख्यैव
युक्ता । तदिदं १भारुचिविश्वरूपपादयो नानुमन्यन्ते । अतो नियम एव युक्तः, पक्षे
स्वार्थविधिसंभवात्, आगमने दोषश्रवणाच्च । ऋतुस्नातां तु यो भार्यां
सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' (पराशरः)
इति । न च विध्यनुवादविरोधः, अनुवादाभावाद्द्व्यर्थत्वाच्च वचनस्य । तत्र
हि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यं, अप्राप्ततयोन्यो-
द्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे 'वाजपेयेन स्वाराज्यकामो
यजेत' इति वाजपेयलक्षणगुणविधानावधित्त्वेन यागोऽनुवदितव्यः, स एव स्वा-
राज्यलक्षणफलोद्देशेन विधातव्यश्चेति । न चानुवादेनेह कृत्यमस्ति । यत्तु—
नियमेऽदृष्टं कल्प्यमित्युक्तं, तत्परिसंख्यायामपि समानम् ; अनृतौ गच्छतो दोष-
कल्पनात् । यत्तु नैयमिकपुत्रोत्पादनविद्ध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम
इति,—३तदसत् ; स एवायं नैयमिकपुत्रोत्पादनविधिः स्यान्मतम् । 'एवं गच्छन्
स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्' इति स्मृत्यभिगमनातिरिक्तः पुत्रोत्पादनविधि-
रिति,—तन्न; ४गमनकरणिकाया भावनाया लव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं
गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्गं भावयेदिति । न
चासंनिहितादेशकार्य्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् 'ऋतुस्नातां तु
यो भार्यां सन्निधौ नोपगच्छति' । 'यः स्वदारानृतुस्नातां स्वस्थः सन्नोपगच्छति'
(देवल.) इति विशेषोपादानात् । अनिच्छानिवृत्तिस्तु नियमविधानादेव । न
च विशेषणपरतापि । पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव-
त्सरात्पूर्वमेवर्तुदर्शने संविशतो न ब्रह्मचर्य्यस्खलनदोषो यथा श्राद्धादिषु । तस्मा-
त्स्वार्थहानिपराथंकल्पना-प्राप्तबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं
'पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्तेर्नियमः
शशादिषु, श्वादिषु च प्राप्तेः परिसंख्येत्युभयसंभवः, तथापि नियमपक्षे शशाद्य-
भक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन ५प्रायश्चित्तस्मृतिविरोध इति परि-
संख्यैवाश्रिता । एतेन 'सायंप्रातर्द्विजातीनामशनं ६स्मृतिनोदितम्' इत्यत्रापि
नियमो व्याख्यातः । 'नान्तरा भोजनं कुर्यात्' इति च पुनरुक्तं स्यात्परिसंख्या-
याम् । एवं च नियमे सति ऋतावृताविति वीप्सा लभ्यते, 'निमित्तावृतौ नैमि-
त्तिकमप्यावर्तते' इति न्यायात् । 'यथाकामी भवेत्' इत्ययमपि नियम एव ।
अनृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति । 'ऋतावुपेयात्सर्वत्र वा
प्रतिषिद्धवर्जम्' इत्येतत्पि गौतमीय (५। १-२) सूत्रद्वयं नियमपरमेव । ऋता-
१. भागुरि । २. तथा फलोद्देशेन । ३. तदसदिति । नास्ति ।
४. यतस्तच्च गमनं । ५. प्रायश्चित्तविरोधः । ६. श्रुतिचोदितं ।
७. परिसंख्यायां तस्मानियमपक्षमेवेति ।
त्युपेयादेव¹ । अनृतावपि स्त्रीकामानायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमत्ति-
प्रसङ्गेनेति ॥ ८१ ॥
भाषा—स्त्रियों के ( इन्द्र द्वारा दिये 'तुम्हारे काम को तृप्त न करने वाला
पातकी होवे' इस ) वर का स्मरण करते हुए उसकी इच्छा देख कर संभोग
करे और अपनी ही स्त्री में रत रहे; क्योंकि स्त्रियों की रक्षा का विधान किया
गया है ॥ ८१ ॥
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ ८२ ॥
किञ्च, भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियो यथाशक्त्यलङ्कारवसनभोजन-
पुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥
भाषा—पति, भाई, पिता, जाति के लोग, सास, ससुर, देवर और
बन्धुवर्ग द्वारा स्त्रियां आभूषण, वस्त्र एवं भोजनादि से सम्मान करने योग्य
होती हैं ॥ ८२ ॥
तथा पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह—
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ ८३ ॥
संयतः स्वस्थाननिवेशित, उपस्करो गृहोपकरणवर्गो यथा सा तथोक्ता ।
यथोलूखलमुसलशूर्पादेः कण्डनस्थाने, दृषदुपलयोर्वियोगेन पेषणस्थान इत्यादि ।
दक्षा गृहव्यापारकुशला, हृष्टा सदैव प्रहसितानना, व्ययपराङ्मुखी न
व्ययशीला, 'स्यात्' इति सर्वत्र शेषः । किञ्च, श्वश्रूश्च श्वशुरश्च श्वशुरौ । 'श्वशुरः
श्वश्रू वा' ( पा० १।२।७१ ) इत्येकशेषः, तयोः पादवन्दनं नित्यं कुर्यात् ।
'श्वशुर' ग्रहणं मान्यान्तरोपलक्षणार्थम् । भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं
कुर्यात् ॥ ८३ ॥
भाषा—घर की वस्तुओं को यथास्थान संभाल कर रखने ( गृहकार्य में )
कुशल हो, सदैव प्रसन्न रहे, अधिक व्यय न करे, सास-श्वसुर को चरण छूकर
प्रणाम करे एवं पति के वश में रहे ॥ ८३ ॥
भर्तृसन्निधावुक्तम, प्रोषितभर्तरि तया किं कर्तव्यमित्यत आह—
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ ८४ ॥
देशान्तरगतभर्तृका क्रीडां कन्दुकादिभिः शरीरसंस्कारमुद्वर्तनादिभिः,
१. त्युपेयादेवानृतावपि ।
३६ याज्ञवल्क्यस्मृतिः
समाजो जनसमूहः । उत्सवो विवाहादिः । तयोर्दर्शनं हास्यं विजृम्भणं परगृहे
गमनम् । त्यजेत्' इति प्रत्येकं संबध्यते ॥ ८४ ॥
भाषा—जिस स्त्री का पति विदेश गया हो वह खेलना, श्रृङ्गार करना,
जनसमूह ( मेले आदि ) में और उत्सव में जाना, हँसी-मजाक और दूसरे के
घर जाना-इन सब से परहेज रखे ॥ ८४ ॥
रक्षेत्कन्यां पिता विन्नां¹ पतिः पुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥ ८५ ॥
किञ्च, पाणिग्रहणात्प्राक् पिता कन्यामकार्यकरणाद्रक्षेत् । तत ऊर्ध्वं भर्ता ।
तदभावे पुत्राः वृद्धाभावे च तेषामुक्तानामभावे ज्ञातयः, ज्ञातीनामभावे राजा;
'पक्षद्वयावसाने तु राजा भर्ता ²प्रभुः स्त्रियाः इति वचनात् । अतः क्वचिदपि
स्त्रीणां नैव स्वातन्त्र्यम् ॥ ८५ ॥
भाषा—कुमारी की रक्षा पिता करे विवाहिता होने पर पति और
वृद्धावस्था में ( पति के न होने पर ) पुत्र रक्षा करें । इन सबके न होने पर
जाति के लोग उसकी रक्षा करें । स्त्रियों को कभी भी स्वतन्त्र नहीं रहने देना
चाहिए ॥ ८५ ॥
पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयाऽन्यथा भवेत् ॥ ८६ ॥
किञ्च भर्त्रा विना भर्तूरहिता पित्रादिरहिता वा न स्यात् । यस्मात्तद्रहिता³
गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे ।—'भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं
वा' (२५।१४) इति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदयः । तथा च
व्यासः कपोतिकाख्यानव्याजेन दर्शितवान्—'पतिव्रता संप्रदीप्तं प्रविवेश
हुताशनम् । तत्र चित्राङ्गदधरं भर्त्तारं सान्वपश्यत ॥ ततः स्वर्ग गतः पक्षी भार्यया
सह सङ्गतः । कर्मणा पूजितस्तत्र रेमे च सह भार्यया ॥' इति । तथा च
शङ्खाङ्गिरसौ-तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानुषे । तावत्कालं
वसेत्स्वर्गे भर्त्तारं याऽनुगच्छति ॥' इति प्रतिपाद्य तयोरवियोगं दर्शयतः—
'व्यालग्राही यथा सर्पं बलादुद्धरते बिलात् । तद्वदुद्धृत्य सा नारी सह तेनैव
मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणैः । क्रीडते पतिना सार्धं यावदिन्द्रा-
श्चतुर्दश ॥' इति । तथा-'ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत्पतिः ।
पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी समारोहेद्धुता-
१. विन्नां = परिणीताम् । २. पतिः स्त्रियाः । ३. तद्रहिता पित्रादिरहिता ।
४. वाथ मित्रघ्नः कृतघ्नो वा ब्रह्मघ्नो वा सुरापो वा ।
आचाराध्यायः ३७
शनम्। सारुन्धतीसमाचारा स्वर्गलोके महीयते। यावच्चाग्नौ मृते पत्यौ स्त्री
नात्मानं प्रदाहयेत्। तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥' इति
हारीतोऽपि-'मातृकं पैतृकं वापि यत्र चैव प्रदीयते। कुलत्रयं पुनात्येषा भर्तारं
यानुगच्छति ॥' इति, तथा-'आर्त्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति। अयं च सकल एव
सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानामाचण्डालं साधारणो धर्मः, 'भर्तारं
याऽनुगच्छति' इत्यविशेषोपादानात्। यानि च ब्राह्मण्यनुगमननिषेधपराणि
वाक्यानि-'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात्। इतरेषु तु वर्णेषु तपः
परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी। या स्त्री ब्राह्मणजातीया
मृतं पतिमनुव्रजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥
इत्येवमादीनि, तानि पृथक्चित्यधिरोहणविषयाणि, 'पृथक्चितिं समासाद्य न
विप्रा गन्तुमर्हति' इति विशेषस्मरणात्। अनेन क्षत्रियादिस्त्रीणां पृथक्चित्यभ्य-
नुज्ञा गम्यते। यत्तु कैश्चिदुक्तं-पुरुषाणामिव स्त्रीणामप्यात्महननस्य प्रतिषिद्धत्वा-
दतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रमतिक्रामन्त्या अयमनुगमनोपदेशः श्येन-
वत्। यथा 'श्येनेनाभिचरन्यजेत' इति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्त्र-
मतिक्रामतः श्येनोपदेश इति,-तदयुक्तम्। ये तावत् श्येनकरणिकायां भावनायां
भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात्फलद्वारेण श्येनस्यानर्थतां
वर्णयन्ति, तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनशास्त्रेण विधीयमानत्वा-
त्प्रतिषेधसंस्पर्शाभावादग्नीषोमीयवत्स्पष्टमेवानुगमनस्य श्येनवैषम्यम्। यत्तु मतं-
हिंसा नाम मरणानुकूलो व्यापारः, श्येनश्च परमारणानुकूलव्यापाररूपत्वाद्विद्वेष,
कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात्। रागप्रयुक्त-
हिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशास्त्रेण
मरणस्यैव स्वर्गसाधनतया विधानान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि
मरणानुकूले व्यापारेऽग्निप्रवेशादावितिकर्तव्यतारूपे विहित एव प्रवृत्तिरिति न
निषेधस्यावकाशः 'वायव्यं श्वेतालभेत भूतिकामः' इतिवत्; तस्मात्स्पष्टमेवानु-
गमनस्य श्येनवैषम्यम्। यत्तु-'तस्मादुह न पुरायुषः स्वःकामी प्रेयात्' इति
श्रुतिविरोधादनुगमनमयुक्तमिति, यच्च 'तदुह न स्वःकामी आयुषः प्राङ् न प्रेयात्'
इति स्वर्गफलोद्देशेनायुषः प्रागायुर्व्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः
१. अयं सर्वासां। २. माचाण्डालानां। ३. चित्यन्वारोहण।
४. विशेषोपादानात्। ५. प्रतिषिद्धशास्त्र। ६. कर्तव्यतारूपं।
७. स्वर्गकामः। ८. प्रेयादिति।
३८ याज्ञवल्क्यस्मृतिः
ज्ञेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षैपितान्तःकरणकलङ्कस्य श्रवणमनननिदिध्या-
सनसंपत्तौ सत्यामात्मज्ञानेन नित्यनिरतिशयानन्दब्रह्मप्राप्तिलक्षणमोक्षप्राप्तिलक्षण-
मोक्षसंभवः। तस्मादनित्याल्पसुखरूपस्वर्गार्थमायुर्व्ययो न कर्तव्य इत्यर्थः। अतश्च
मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनुगमनं युक्तम्, इतरकाम्या-
नुष्ठानवदिति सर्वमनवद्यम् ॥ ८६ ॥
भाषा—पति न हो तो पिता, माता, पुत्र, भाई, सास, ससुर से दूर न रहे
अन्यथा वह (स्त्री) निन्दनीय होती है ॥ ८६ ॥
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ८७ ॥
किञ्च, प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छ्रेयस्करं तद्धितम्,
प्रियं च तद्धितं च प्रियहितम्। पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता
निरता। स्वाचारा शोभन आचारो यस्याः सा तथोक्ता। शोभनश्चाचारो
दर्शितः शङ्खेन—'नानुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया न त्वरितं व्रजेन्न परपुरुषमभि-
भाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यः, न नाभिं दर्शयेत्, आगुल्फाद्वासः
परिदध्यात्, न स्तनौ विवृतौ कुर्यात्, न हसेदप्रावृता भर्तारं तद्वन्धून्वा न
द्विष्यान्न गणिकाधूर्त्ताभिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीला-
दिभिः सहैकत्र तिष्ठेत्, संसर्गेण हि कुलस्त्रीणां चोरित्रं दुष्यति' इति।
विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनः-
सहितानि यया सौ इह लोके कीर्तिं प्रख्यातिं परलोके चोत्तमां गतिं प्राप्नोति।
अयं च सकल एव स्त्रीधर्मो विवाहादूर्ध्वं वेदितव्यः। 'प्रागुपनयनात्कामचार-
कामवादकामभक्षाः' इति स्मरणात्। 'वैवाहिको विधिः स्त्रीणामौपनायनिकः
स्मृतः' इति च ॥ ८७ ॥
भाषा—पति के अनुकूल एवं श्रेयस्कर कार्य में तत्पर, सुन्दर आचरण
करने वाली तथा यत्नपूर्वक इन्द्रियों को वश में रखने वाली स्त्री इस संसार में
कीर्ति पाती है और परलोक में उत्तम गति ॥ ८७ ॥
अनेकभार्यं प्रत्याह—
सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ ८८ ॥
सवर्णायां सत्यामन्यामसवणां नैव धर्मकार्ये कारयेत्। सवर्णास्वपि
१. क्षालितान्तःकरणं । २. हि चरित्रं । ३. सा तथोक्ता इह ।
आचाराध्यायः ३६
बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठा विना ज्येष्ठां मुक्त्वा इतरा मध्यमा
कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥
भाषा-सवर्ण ( अपनी जाति की ) पत्नी के जीवित रहते दूसरी पत्नी से
धर्मकार्य न करावे । यदि सवर्णा पत्नियाँ अनेक हों तो ज्येष्ठा पत्नी को छोड़
दूसरी से (धर्मकार्य) न करावे ॥ ८८ ॥
प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्यं प्रत्याह-
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ ८९ ॥
पूर्वोक्तवृत्तवतीं आचारवतीं विपन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे
स्मार्तेन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्वनधि-
कृतो वा स्त्र्यन्तराभावे पुनर्दारान् अग्नींश्च विधिवदाहरेत् । अविलम्बयन्
शीघ्रमेव । - 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षस्मरणात् ।
एतच्चाधानेन सहाधिकृताया एव, नान्यस्याः । यत्तु - द्वितीयां चैव
यो भार्यां दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि
तत् ॥' इति, तथा - 'मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मघ्नं
तं विजानीयाद्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया
अग्निदाने वेदितव्यम् ॥ ८९ ॥
भाषा-यदि उत्तम आचार वाली पत्नी की मृत्यु हो जाय तो पति
अग्निहोत्र की अग्नि से उसका दाहसंस्कार करके यथाशीघ्र विधि-पूर्वक दूसरी पत्नी
ग्रहण करे और पुनः अग्निहोत्राग्नि का आधान करे ॥ ८९ ॥
इति विवाहप्रकरणम् ।
अथ वर्णजातिविवेकप्रकरणम्
ब्राह्मणस्य चतस्रो भार्या भवन्ति, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैका,
इत्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः
पुत्रो भवतीति विवेकंमाह-
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ ९० ॥
सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान-
जातीयाः पुत्रा भवन्ति । 'विन्नास्वेष विधिः स्मृतः' ( २९ ) इति सर्वशेषत्वे
१. विवक्तुमाह ।
नोपसंहारात् विज्ञासु, 'सवर्णासु इति संबध्यते । 'विन्न'शब्दस्य संबन्धिशब्द-
त्वाद्बोतृभ्यः$^१$ सवर्णेभ्य इति लभ्यते । एकः 'सवर्ण'शब्दः स्पष्टार्थः । अतश्चायमर्थः
संवृत्तः—उक्तेन विधिनाढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समान-
जातीया भवन्ति । अतश्च कुण्डगोलककानीनसहोढेजादीनामसवर्णत्वमुक्तं$^२$
भवति । ते च सवर्णेभ्योऽनुलोमप्रतिलोमेभ्यश्च भिद्यमानाः साधारणधर्मैर्हिंसादि-
भिरधिक्रियन्ते ।—'शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः' इति स्मरणात् ।
अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैरपि द्विजशुश्रूषादिभिरधिक्रियन्ते ।
ननु कुण्डगोलकयोरब्राह्मणत्वात्$^३$ श्राद्धे प्रतिषेधोऽनुपपन्नः न्यायविरोधश्च । यो
यज्जातीयाद्यज्जातीयायामुत्पन्नः स तज्जातीय एव भवति,—यथा गोर्गवि गौः,
अश्वादश्वायामश्वः। तस्माद्ब्राह्मणाद्ब्राह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् ।
तथा कानीनपौनर्भवादीननुक्रम्य-'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः'
(व्य. १३३) $^४$इति वक्ष्यमाणवचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन
ब्राह्मण्यामुत्पन्नो ब्राह्मण इति अमनिवृत्त्यर्थः श्राद्धे प्रतिषेधः। यथाऽत्यन्तम-
ग्राह्यस्य पतितस्य श्राद्धे प्रतिषेधः। न च न्यायविरोधः। यत्र प्रत्यक्षगम्या
जातिर्भवति तत्र तथा। ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति।
यथा समानेऽपि ब्राह्मव्ये कुण्डिनो वैसिष्ठोऽत्रिर्गौतम$^५$ इति स्मरणलक्षणं गोत्रम्,
तथा मनुष्यत्वे समानेऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश्चैतदेव
जातिलक्षणम् । न चानवस्था। अनादित्वात्संसारस्य शब्दार्थव्यवहारवत् ।
'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः (व्य. १३३) इति चोक्तानुवाद-
त्वाद्यथासंभव व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयः, नियोगस्मरणात्,
शिष्टसमाचाराच्च। यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया
इत्यलमप्रसङ्गेन। किञ्च अनिन्द्येषु ब्राह्मादिविवाहेषु पुत्राः सन्तानवर्धना
अरोगिणो दीर्घायुषो धर्मप्रजासंपन्ना भवन्ति ॥ ९० ॥
भाषा—शुद्ध वर्ण के पुरुषों द्वारा सवर्णा स्त्रियों से उत्तम विवाह के उपरान्त
उत्पन्न पुत्र सवर्ण अर्थात् माता पिता की शुद्ध जाति के होते हैं । और वे सन्तान
की वृद्धि करते हैं ॥ ९० ॥
सवर्णानुक्त्वा इदानीमनुलोमानाह—
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ ९१ ॥
१. वोढृभ्यः । २. सहोढादीनां । ३. अब्राह्मणत्वे । ४. इति वचन ।
५. वसिष्ठो गोतम ।