सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

अथाशौचप्रकरणम्

प्रायश्चित्ताध्यायः
अथाशौचप्रकरणम्
गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य
गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौच-
प्रतिपादनमुखेन तेषामपवादाः प्रतिपाद्यन्ते । 'आशौच'शब्देन च कालस्नाना-
द्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुष-
गतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः
सर्वे' ( मनुः ५।५८ ) इत्यादावशुद्धत्वाभिधानात् । 'अशुद्ध'शब्दस्य च वृद्ध-
व्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहार-
व्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेध-
दर्शनात्तदययोग्यत्वमाशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात्
तद्योग्यत्वमप्याशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणी-
योऽयं पक्षः ॥
तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाह—
ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ १ ॥
यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना ।
स दग्धव्य उपेतश्चेदाहिताग्न्यावृत्तार्थवत् ॥ २ ॥
ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा
निदध्यान्न पुनर्द्दहेदित्यर्थः । न च 'सकृत्प्रसिञ्चन्त्युदकम्' ( प्रा. ४ ) इत्यादिभिः
प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुप-
लेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिसंचयरहितायां बहिर्ग्रामा-
न्न्निखननीयः । यथाऽऽह मनुः ( ५।६८-६९ )—'ऊनद्विवार्षिकं प्रेतं निदध्यु-
र्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योंऽग्नि-
संस्कारो नापि कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षिपेयुस्त्रयहमेव तु ॥'
इति । 'अरण्ये काष्ठवत्त्यक्त्वा' इत्यस्यायमर्थः-यथाऽरण्ये काष्ठं त्यक्त्वो-
दासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य
तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽ-
नेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर्निधातव्यः ।
१. अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि । २. आश्मशानमनु-
ब्राज्य । ३. म्र्तः । ४. नास्य । ५. शवश्च । ६. गायद्भिः ।

'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुविः । यमगाथा गायमानो यमसूक्त-
मनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्षिकादितरपूर्णद्विवर्षो
यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठः पुरः-
सरैरनुव्रज्येोऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियमिति
गम्यते । अनुगम्य च 'परेयिवांसम्' (ऋ० ७, अ० ६, । १४, ५, ६ )
इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपद्भिर्लौकिकेनासंस्कृतेनाग्निना
दग्धव्यो यदि जातारणिर्नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न
लौकिकेन । तस्याग्निसंपादककार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादि-
व्यतिरिक्तो ग्राह्यः; 'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हिचित् । पतिता-
ग्निश्चित्ताग्निश्च न शिष्टग्रहणाचिताः ॥' इति देवलस्मरणात् ॥ लौगाक्षिणा चात्र
विशेष उक्तः- 'तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च । सर्वेषां कृतचूड़ानाम-
न्यत्रापीच्छया द्वयम् ॥' इति अयमर्थः- 'चौलकर्मानन्तरकाले नियमेनाग्न्युद-
कदानं कार्यम् । अन्यत्रापि नामकरणादूर्ध्वं अकृतचूडेऽपीच्छया प्रेताभ्युदयकाम-
नया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं, न नियमेनेति विकल्पः । मनुनाप्यत्र
विशेषो दर्शितः ( ५।७० )- 'नाग्निवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातद-
न्तस्य वा कुर्यान्नाम्नि वाऽपि कृते सति ॥' इति । 'उदकग्रहणं' साहचर्यादग्निसं-
स्कारस्याप्युपलक्षणार्थम् । 'नाग्निवर्षस्य' इति वचनात् । कुलधर्मापेक्षया चूड़ो-
त्कर्षेऽपि वर्षत्रयादूर्ध्वमग्न्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रया-
त्प्रागपि कृतचूडस्य तयोर्नियम इति विवेचनीयम् । उपेतश्चेद्यद्युपनीतस्तर्हि
आहिताग्न्यावृता २ आहिताग्नेर्दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनेव
दग्धव्यः । अर्थवत्प्रयोजनवत् । अयमर्थः- यद्यस्य क्लृप्तं दाहद्वारं कार्यरूपं
प्रयोजनं सम्भवति । भूमिजोषणाप्रोक्षणादि तदुपादेयम् । यत्पुनलुंप्तप्रयोजनं
पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्ने-
गृ॑ह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वादहवनीयाद्रेरपि निवृत्तिरिति ॥
अन्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम्- 'आहिताग्निर्यथान्यायं दग्धव्यस्त्रि-
भिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः ॥' इति । न च शूद्रेण
श्मशानं प्रति अग्निकाष्ठादिनयनं कार्यम् ; 'यस्यानयति शूद्रोऽग्निं तृणं काष्ठं
हवींषि च । प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥' इति यमस्मरणात् ॥
तथा दाहश्च स्नपनाद्यनन्तरं कार्यः- 'प्रेतं दहेच्छुभैर्गन्धैः स्नापितं स्त्रग्विभूषि-
तम्' इति स्मरणात् । प्रचेतसाऽप्युक्तम्-स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं

१. उदकदानात्मकं । २. आहिताग्नेर्दानप्रक्रियया । ३. आहि-
ताग्नेः स्वगृह्याग्निना ।

३६४ याज्ञवल्क्यस्मृतिः
तथा । नग्नं दहेन्नैव किंचिद्देयं परित्यजेत् ॥' इति; किंचिद्देयमिति शववस्त्रैक-
देशं श्मशानवास्यर्थं देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिर्हरणेऽपि मनुना विशेषो
दर्शितः (५।१०४) - 'न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वर्ग्या
ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् ।
अस्वर्ग्यत्वादिदोषश्रवणात् ॥ - 'दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् । पश्चिमो-
त्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि- 'न ग्रामाभिमुखं प्रेतं
हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा
तेषामप्यलाभे पर्णशरैः शौनकादिगृहोक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः ।
आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा
शववदाशौचम्' (४।३७) इति वसिष्ठस्मरणात् । अनाहिताग्निस्तु त्रिरात्रम् ;
'सुपिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स
बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चा-
यमर्थः- 'नामकरणादर्वाङ्निखननमेव, न चोदकदानादि । तत ऊर्ध्वं यावत्त्रिवर्षं
वैकल्पिकमग्न्युदकदानम् । ततः परं यावदुपयनं तूष्णीमेवाग्न्युदकदानं निय-
तम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूर्ध्वं पुनराहिताग्न्यावृता दाहं
कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयं तु विशेषः- उपनीतस्य लौकिकाग्निना दाहः
कार्यः । अनाहिताग्नेर्गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१-२॥
भाषा-दो वर्ष से कम आयु वाले बालक के मरने पर उसे भूमि में
गाड़ देना चाहिए और उसके लिए उदकदान (प्रेत को उद्दिष्ट कर दी जाने
वाली उदकांजलि) नहीं करना चाहिए। उससे अधिक आयु वाले के मरने
पर जाति वालों (सपिण्डों) के साथ श्मशान तक (शव के पीछे-पीछे)
जावें। यमसूक्त और गाथा का पाठ करते हुए (यदि मृत व्यक्ति अग्निहोत्री
न रहा हो तो) लौकिक अग्नि से उसका दाह करे; यदि उसका यज्ञोपवीत
हुआ हो तो अपने गृह्य में बताई गई लौकिक अग्नि से प्रयोजन के अनुसार
दाह करे ॥ १-२ ॥
संस्कारानन्तरं किं कर्तव्यमित्यत आह-
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः ।
अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३ ॥
सप्तमाद्दिवसादर्वाग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समा-
नोदकाश्च 'अप नः शोशुचदघम्' (ऋ. सं. १।७।५) इत्यनेन मन्त्रेण दक्षिणा-
मुखाः अपः अभ्युपयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युप-
गमनं लक्ष्यते; 'एवं मातामहाचार्य-' (प्रा० ४) इत्यनन्तरमुदकदानस्यातिदेश-

दर्शनात् । एतच्चायुग्मासु तिथिषु कार्यम् । 'प्रथमतृतीयपञ्चमसप्तमनवमेषूदक-
क्रिया' (१४।४०) इति गौतमस्मरणात् ॥ एतच्च स्नानानन्तरं कार्यम् ;
'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति' इति शातातपस्मरणात् ॥ तथा
प्रचेतसाप्यत्र विशेषो दर्शितः—'प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्ष-
येयुरुदकान्ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योद-
ङ्मुखाः प्रत्यङ्मुखाश्च राजन्यवैश्ययोः' इति । स्मृत्यन्तरे तु यावन्त्याशौचदिनानि
तावदुदकदानस्यावृत्तिरुक्ता । यथाऽऽह विष्णुः (१९।१३) - 'यावदाशौचं ताव-
त्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम्—'दिने दिनेऽञ्ज-
लीन्पूर्णान्प्रदद्यात्प्रेतकारणात् । तावद्वृद्धिश्च कर्तव्या यावत्पिण्डः समाप्यते ॥'
इति । प्रतिदिनमञ्जलीनां वृद्धिः कार्या, यावद्दशमः पिण्डः समाप्यत इत्यर्थः ॥
यद्यप्यनयोर्गुरु लघुकल्पयोरन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस्तथापि बहुक्लेशाव-
हस्त्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनी-
यम् । अन्यथा गुरुतरकल्पाऽऽम्नायस्यानर्थक्यप्रसङ्गात् ॥ वसिष्ठेनापि विशेषोऽभि-
हितः । (४।१२) - 'सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्' इति ॥ ३ ॥
भाषा—सातवें या दसवें दिन से पहले समान गोत्रवाले या सपिण्ड
पुरुष जल के समीप जाकर 'अप नः शोशुचदघम्' इस मन्त्र से पितरों की दिशा
दक्षिण की ओर मुख करके उदकदान करें ॥ ३ ॥
वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्यासमान-
गोत्रेषु मातामहादिष्वतिदेशमाह—
एवं मातामहाचार्यप्रेतानामुदकक्रिया ।
कामोदकं सखिप्रेतास्वस्त्रीयश्वशुरर्त्विजाम् ॥ ४ ॥
यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामाचार्याणां
च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगि-
न्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः, एतेषां
सख्यादीनां प्रेतानां कामोदकं कार्यम् । काम इच्छा, कामेनोदकदानं कामोदकं,
प्रेताभ्युदयकामनायां सत्यामुदकं देयम् ; असत्यां न देयमिति अकरणे,
प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥
भाषा—इसी विधि से मातामह (नाना) और आचार्य के लिए भी
उदकदान किया जाता है । इच्छानुसार मित्र, विवाहिता पुत्री या बहन,
भागिनेय, श्वशुर और ऋत्विज् के लिए भी उदकदान करे ॥ ४ ॥

१. प्राङ्मुखाश्च । २. कल्पनीयस्या । ३. स्य समान । ३. प्रेतानां
चोदकक्रिया । ४. प्रत्तस्वस्त्रीय ।

३६६ याज्ञवल्क्यस्मृतिः
उदकदाने गुणविधिमाह—
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
तच्चोदकदानमित्थं कर्तव्यम्—सपिण्डाः समानोदकाश्च मौनिनो भूत्वा
प्रेतस्य नामगोत्रे उच्चार्य 'अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यतु' इति सकृदेवोदकं
प्रसिञ्चेयुः त्रिर्वा; १'त्रिः प्रसेकं कुर्युः प्रेतस्तृप्यतु'इति प्रचेतःस्मरणात् ॥ प्रतिदि-
नमञ्जलिवृद्धिस्तु प्रतिपादितेव । तथा अयमपि विशेषस्तेनैवोक्तः—'नदीकूलं
ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥
सचैलस्तु ततः स्नात्वा शुचिः प्रयतमानसः । पाषाणं तत आधाय विप्रे दद्याद्द-
शाञ्जलीन् ॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्या-
स्ततः संप्रविशेद् गृहम् । ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥' इति ॥
सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह—
न ब्रह्मचारिणः कुर्यु रुदकं पतितास्तथा ॥ ५ ॥
ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं, पतिताश्च प्रच्युतद्विजातिक-
र्माधिकाराः, उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डा-
दीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः (५।८८)—'आदिष्टौ नोदकं
कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥' इति ।
आदिष्टी 'ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' ( आश्व० १।२२।
२ ) इत्यादिव्रतादेशयोगाद् ब्रह्मचार्युच्यते । एतच्च पित्रादिव्यतिरेकेणेति
वक्ष्यति । 'आचार्यपितृपाध्यायान्' ( प्रा० १५ ) इति । अत्राचार्यः पुनरेवं
मन्यते—आदिष्ट्रीति प्रक्रान्तप्रायश्चित्तः कथ्यते, तस्यैवायमुदकदानादिनिषेधः
प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालमुदकदानाशौचविधिरिति । तथा क्लीबादीनां
चोदकदायित्वं निषिद्धम् ; 'क्लीबाश्च नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।
गर्भभर्तृद्रुहश्चैव सुराप्यश्चैव योषितः ॥' इति वृद्धमनुस्मरणात् ॥ ५ ॥
भाषा—( सपिण्ड लोग ) मौन होकर गोत्रसहित प्रेत ( मृत व्यक्ति )
का नाम लेकर एक बार ( या तीन बार ) उदकाञ्जलि दें । ब्रह्मचारी और
पतित व्यक्ति उदकदान न करें ॥ ५ ॥
एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाह—
पाँषण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य ५आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ६ ॥
१. प्रत्येकं कुर्युः । २. आदाय । ३. त्रिरात्रेणैव शुद्ध्यति । ४. पाष-
ण्डाना । ५. आत्मघातिन्यो ।

प्रायश्चित्ताध्यायः ३६७
नरशिरःकपालादिश्रुतिबाह्यलिङ्गधारणं पाखण्डम्, तद्विद्यते येषां ते
पाखण्डिनः; अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः
सुवर्णाद्युत्तमद्रव्यहारिणः, भर्तृघ्न्यः प्रतिघातिन्यः, कामगाः कुलटाः, 'आदि'ग्रहणात्
स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः ।
आत्मत्यागिन्यः विषाम्युदकोद्वन्धनाद्यैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः
'त्रिरात्रं दशरात्रं वा' ( प्रा० १८ ) वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदै-
हिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः; सपिण्डादीनामाशी-
चादिनिमित्तभूता न भवन्ति; अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्ये-
तत्प्रतिपादनपरं वचनम् । अत्र 'सुराप्य' इत्यादिषु लिङ्गमविवक्षितम् १।-'लिङ्गं
च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेय-
पञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् ; यथाह गौतमः
( १४।१२ )—'प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति ।
प्रायो महाप्रस्थानम् , अनाशकमनशनम् , गिरिशिखरादवपातः प्रपतनम् ।
अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृते दोषो नास्तीत्यवगन्तव्यम् ; 'अथ
कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदक-
क्रिया' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः—
'चाण्डालादुदकात्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मि-
णाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विन-
श्यति ॥' इति । एतदपीच्छापूर्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवो-
दकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चाण्डालादुदकात्सर्पात्' इति
तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चाण्डालादीन्हन्तुं
गतो यस्तैर्मारितस्तस्यायं 'सर्वत एवात्मानं गोपायेत्' इति विध्यतिक्रमानिमित्तः
पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रायुक्तव्यादिग्रहणार्थनाभिमुख्येन दर्पाद्गच्छतो
मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकाला-
वच्छिन्नस्य; 'हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्' ( प्रा० २१ ) इति
सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम् ; 'नाशौचं
नोदकं नाश्रु न दाहान्यत्कर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधा-
रणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधने
खट्वादि 'कट'शब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत्
श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् । अयं स्मार्तो दाहादिनिषेधो
विप्रादिहिताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह-
१. विवक्षितम् । एतच्च बुद्धिपूर्वविषयम् ।

Here is the complete line-by-line transcription of the Sanskrit text from the page:

[Header]
३६८ याज्ञवल्क्यस्मृतिः

ताहिताग्निसंबन्धिनामग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते-
'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदग्नौ यजमाने वृथा
मृते ॥' (जमदग्निः) इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्; 'आत्मन-
स्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं
हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेधः । अतः
स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्; 'कृत्वाऽग्निमुदकं स्नानं स्पर्शनं
वहनं कथाम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुद्धयति ॥' इति स्मरणात् ।
एतच्च प्रत्येकं बुद्धिपूर्वंके वेदितव्यम् । अबुद्धिपूर्वकमरणे तु 'एषामन्यतमं प्रेतं
यो वहेत दहेत वा । कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति संव-
र्तोक्तं द्रष्टव्यम् ॥ यः पुनः 'तच्छ्रवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्ता-
नामकारी चेदेकरात्रमभोजनम् ॥' इति स्पर्शाश्रुपातयोरुपवास उक्तः ॥ असौ
कृच्छ्रेष्वशक्तश्च तथा बन्धनच्छेदने दहने वा मासं भैक्षाहारस्त्रिषवणं च' इति
सुमन्तुना भैक्षाशित्वमुक्तं, -तदप्यशक्तस्यैव । एवमन्यान्यपि तद्विषयाणि स्मृति-
वाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थ-
जीर्णवानप्रस्थादिव्यतिरिक्तविषयः; तेषामभ्यनुज्ञादर्शनात् । 'वृद्धः शौचस्मृतेर्लुप्तः
प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ तस्य
त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्'॥
इति स्मरणात् ॥
एवं येन येनोपायिना आत्महननं शास्त्रतोऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गे-
णात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धया-
ज्ञवल्क्यच्छागलेयाभ्यामुक्तम्- 'नारायणबलिः कार्यो लोकगर्हाभयान्नरैः ।
तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । तस्मात्तेभ्योऽपि दातव्यमन्नमेव
सदक्षिणम् ॥' इति । व्यासेनाप्युक्तम्- 'नारायणं समुद्दिश्य शिवं वा
यत्प्रदीयते । तस्याशुद्धिकरं कर्म तद्भवेद्धैतदन्यथा ॥' एवं इति । एवं नारायणबलिः
प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वयोग्यतां जनयतीति और्ध्वदैहिकम-
पि सर्वं कार्यमेव । अत एव षट्त्रिंशन्मतेऽपि और्ध्वदैहिकस्याभ्यनुज्ञा दृश्यते-
'गोब्राह्मणहतानां च पतितानां तथैव च । ऊर्ध्वं संवत्सरात्कुर्यात्सर्वमेवौर्ध्वदैहि-
कम् ॥' इति । एवं संवत्सरादूर्ध्वमेव नारायणबलिं कृत्वौर्ध्वदैहिकं कार्यम् ॥
नारायणबलेश्चेत्थं कार्यः- कस्यांचिच्छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च
यथावदभ्यर्च्य तत्समीपे मधुघृतप्लुतांस्तिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेत-
मनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धा-

[Footnote]
१. पूर्वैव वेदितव्यम् ।

प्रायश्चित्ताध्यायः ३६६
दिग्भिरभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् , न पत्न्यादिभ्यो दद्यात् ॥
ततस्तस्यामेव रात्र्यामयुग्मान्ब्राह्मणानमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वारा-
धनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृ-
यज्ञावृतोल्लेखनावनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च
परिवारसहिताय चतुरः पिण्डान्दत्त्वा नामगोत्रसहितं तं प्रेतं संस्मृत्य विष्णोर्नाम
संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तोषयित्वा तन्म-
ध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य ततः
पवित्रपाणिभिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ॥
सर्पहते त्वयं विशेषः-संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपूजां
विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात्, गां च प्रत्यक्षात् ।
ततः सर्वमौर्ध्वदेहिकं कुर्यात् ॥
नारायणबलिस्वरूपं च वैष्णवेऽभिहितं यथा-‘एकादशीं समासाद्य शुक्ल-
पक्षस्य वै तिथिम् । १विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दश पिण्डान्
घृताभ्यक्तान्दर्भेषु मधुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥
विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैराभ्यर्चनं
तथा ॥ धूपदीपप्रदानं च अद्यं भोज्यं तथा परम् । निमन्त्रयेत विप्रान्वै पञ्च
सप्त नवापि वा ॥ विद्यातपःसमृद्धांन्वैकलोत्पन्नान्समाहितान् । अपरेऽहनि सं-
प्राप्ते मध्याह्ने समुषोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रांस्तानुपवेशयेत् ।
उदङ्मुखान्याथज्येष्ठं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्वं कुर्याद-
तन्द्रितः । आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् ॥ तृप्तान्ज्ञात्वा ततो विप्रांस्तृप्तिं
पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान्प्रदद्याच्च
दैवं २रूपमनुस्मरन् । प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥ यमाय
३सानुचराय चतुर्थं पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्वमतः परम् ॥
विष्णोर्नाम गृहीत्वैवं पञ्चमं पूर्ववत्क्षिपेत् । ४विप्रानाचम्य विधिवद्दक्षिणाभिः
समर्चयेत ॥ एकं ५विद्वत्तमं विप्रं हिरण्येन समर्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं
तं मनसा स्मरन् ॥ ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्वं तु
नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्य-
जनैः सार्धं पश्चाद्भुञ्जीत वाग्यतः ॥ एवं विष्णुमते स्थित्वा यो दद्यादात्मघातिने ।
समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥' सर्पदंशनिमित्तं सौवर्णनागदानं
प्रतिकृतिरूपेण भविष्यपुराणे सुमन्तुनाभिहितम्-‘सुवर्णभारनिष्पन्नं नागं
कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत्पितॄणानृण्यमाप्नुयात् ॥' इति ॥६॥
१. अर्चयेद् देवेशं । २. देवरूपं । ३. सानुचाराय । ४. विप्रेणाचम्य ।
५. बुद्धतमं ।