याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 83, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः २७
साहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोग्यादिभिः
कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥
भाषा—जो व्यक्ति ( दिखाई पड़ने वाले ) दोषों को बिना बताए ही
कन्या का दान करता है उसे उत्तमसाहस का दण्ड मिलना चाहिए । निर्दोष
कन्या का ग्रहण करके पुनः उसका त्याग करने वाले को भी यही दण्ड
मिलना चाहिए और ( विवाह के पूर्व ) कन्या में मिथ्या दोष बताने वाले को
सौ पर्णों का दण्ड देना चाहिए ॥ ६६ ॥
'अनन्यपूर्व्विकाम्' ( श्लो. ५२ ) इत्यत्रानन्यपूर्वा परिणेयोक्ता, तत्रान्यपूर्वा
कीदृशीत्याह—
अक्षता च क्षता चैव पुनर्भूः, संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ ६७ ॥
अन्यपूर्वा द्विविधा—पुनर्भूः, स्वैरिणी चेति । पुनर्भरपि द्विविधा—क्षता
चाक्षता च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः
संस्कारदूषिता । या पुनः कौमारं पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा
स्वैरिणीति ॥ ६७ ॥
भाषा—कन्या का किसी पुरुष से शरीरसंबन्ध हुआ हो चाहे न हुआ हो
दूसरी बार विवाह होने पर वह पुनर्भू कहलाती है। जो स्त्री पति को छोड़ कर
अपनी इच्छा से अपनी जाति के किसी दूसरे पुरुष को स्वीकार करती है वह
स्वैरिणी होती है ॥ ६७ ॥
एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषमाह—
अपुत्रां गुर्व्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतामियात् ॥ ६८ ॥
आ गर्भसंभवाद्गच्छेदूत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥
अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवशे भर्तुः कनीयान् भ्राता
सपिण्डो वा उक्तलक्षणः सगोत्रो वा, एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त-
सर्वाङ्गः, ऋतावेव वक्ष्यमाणलक्षणे द्वयाद्गच्छेत् आ गर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन्
अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः
क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः, 'यस्या म्रियेत कन्याया
वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥' इति
( ९।६९ ) मनुस्मरणात् ॥ ६८-६९ ॥
१. क्षेत्रजः स भवेत् ।