सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 94, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 94

३८ याज्ञवल्क्यस्मृतिः
ज्ञेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षैपितान्तःकरणकलङ्कस्य श्रवणमनननिदिध्या-
सनसंपत्तौ सत्यामात्मज्ञानेन नित्यनिरतिशयानन्दब्रह्मप्राप्तिलक्षणमोक्षप्राप्तिलक्षण-
मोक्षसंभवः। तस्मादनित्याल्पसुखरूपस्वर्गार्थमायुर्व्ययो न कर्तव्य इत्यर्थः। अतश्च
मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वर्गार्थिन्या अनुगमनं युक्तम्, इतरकाम्या-
नुष्ठानवदिति सर्वमनवद्यम् ॥ ८६ ॥
भाषा—पति न हो तो पिता, माता, पुत्र, भाई, सास, ससुर से दूर न रहे
अन्यथा वह (स्त्री) निन्दनीय होती है ॥ ८६ ॥
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ८७ ॥
किञ्च, प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छ्रेयस्करं तद्धितम्,
प्रियं च तद्धितं च प्रियहितम्। पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता
निरता। स्वाचारा शोभन आचारो यस्याः सा तथोक्ता। शोभनश्चाचारो
दर्शितः शङ्खेन—'नानुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया न त्वरितं व्रजेन्न परपुरुषमभि-
भाषेत‍ान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यः, न नाभिं दर्शयेत्, आगुल्फाद्वासः
परिदध्यात्, न स्तनौ विवृतौ कुर्यात्, न हसेदप्रावृता भर्तारं तद्वन्धून्वा न
द्विष्यान्न गणिकाधूर्त्ताभिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीला-
दिभिः सहैकत्र तिष्ठेत्, संसर्गेण हि कुलस्त्रीणां चोरित्रं दुष्यति' इति।
विजितेन्द्रिया विजितानि संयमितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनः-
सहितानि यया सौ इह लोके कीर्तिं प्रख्यातिं परलोके चोत्तमां गतिं प्राप्नोति।
अयं च सकल एव स्त्रीधर्मो विवाहादूर्ध्वं वेदितव्यः। 'प्रागुपनयनात्कामचार-
कामवादकामभक्षाः' इति स्मरणात्। 'वैवाहिको विधिः स्त्रीणामौपनायनिकः
स्मृतः' इति च ॥ ८७ ॥
भाषा—पति के अनुकूल एवं श्रेयस्कर कार्य में तत्पर, सुन्दर आचरण
करने वाली तथा यत्नपूर्वक इन्द्रियों को वश में रखने वाली स्त्री इस संसार में
कीर्ति पाती है और परलोक में उत्तम गति ॥ ८७ ॥
अनेकभार्यं प्रत्याह—
सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ ८८ ॥
सवर्णायां सत्यामन्यामसवणां नैव धर्मकार्ये कारयेत्। सवर्णास्वपि
१. क्षालितान्तःकरणं । २. हि चरित्रं । ३. सा तथोक्ता इह ।