याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 95, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ३६
बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठा विना ज्येष्ठां मुक्त्वा इतरा मध्यमा
कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥
भाषा-सवर्ण ( अपनी जाति की ) पत्नी के जीवित रहते दूसरी पत्नी से
धर्मकार्य न करावे । यदि सवर्णा पत्नियाँ अनेक हों तो ज्येष्ठा पत्नी को छोड़
दूसरी से (धर्मकार्य) न करावे ॥ ८८ ॥
प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्यं प्रत्याह-
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ ८९ ॥
पूर्वोक्तवृत्तवतीं आचारवतीं विपन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे
स्मार्तेन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्वनधि-
कृतो वा स्त्र्यन्तराभावे पुनर्दारान् अग्नींश्च विधिवदाहरेत् । अविलम्बयन्
शीघ्रमेव । - 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षस्मरणात् ।
एतच्चाधानेन सहाधिकृताया एव, नान्यस्याः । यत्तु - द्वितीयां चैव
यो भार्यां दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि
तत् ॥' इति, तथा - 'मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मघ्नं
तं विजानीयाद्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया
अग्निदाने वेदितव्यम् ॥ ८९ ॥
भाषा-यदि उत्तम आचार वाली पत्नी की मृत्यु हो जाय तो पति
अग्निहोत्र की अग्नि से उसका दाहसंस्कार करके यथाशीघ्र विधि-पूर्वक दूसरी पत्नी
ग्रहण करे और पुनः अग्निहोत्राग्नि का आधान करे ॥ ८९ ॥
इति विवाहप्रकरणम् ।
अथ वर्णजातिविवेकप्रकरणम्
ब्राह्मणस्य चतस्रो भार्या भवन्ति, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैका,
इत्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः
पुत्रो भवतीति विवेकंमाह-
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ ९० ॥
सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान-
जातीयाः पुत्रा भवन्ति । 'विन्नास्वेष विधिः स्मृतः' ( २९ ) इति सर्वशेषत्वे
१. विवक्तुमाह ।