सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥

३७२ याज्ञवल्क्यस्मृतिः
भाषा—बलपूर्वक बन्दी को छुड़ाने वाले, घोड़ा और हाथी चुराने वाले
और किसी का बलपूर्वक घात करने वाले पुरुषों को शूली पर चढ़ावे ॥२७३॥
उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥
किंच, वस्त्राद्युत्क्षिपत्यापहरतीत्युत्क्षेपकः, वस्त्रादिबद्धं स्वर्णादिकं विस्रम्भोत्कृत्य
वा योऽपहरत्यसौ ग्रन्थिभेदकः, तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याऽङ्गुष्ठेन
च हीनौ कार्यौ । द्वितीयापराधे पुनः करश्च पादश्च करपादं, तच्च तदेकं च
करपादैकं, तद्धीनं ययोस्तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयो-
रेकमेकं करं पादं च छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्यविषयम् ।
‘तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः’ ( १४।८ ) इति नारदवचनात् ॥
तृतीयापराधे तु वध एव । तथा च मनुः ( ९।२७७ )—‘अङ्गुलीग्रन्थिभेदस्य
छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥’ इति । जातिद्रव्य-
परिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ॥
भाषा—उत्क्षेपक (वस्त्र आदि चुराने वाले उचक्का) और ग्रन्थिभेद
(गिरहकट के क्रमशः हाथ और संदंश ( तर्जनी एवं अंगूठा ) काट
लेना चाहिए। दुबारा अपराध में उसका एक हाथ और एक पैर भी काट
देना चाहिए ॥ २७४ ॥
जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघु-
भावकारणानामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायमाह—
क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २७५ ॥
क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो
दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् । ( १४।१४-१६ )
‘मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च क्षुद्रं द्रव्य-
मुदाहृतम् ॥ वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस्तथा । हिरण्यवर्ज्यं लोहं च
मध्यं व्रीहियवा अपि ॥ • हिरण्यरत्नकौशेयस्त्रीपुङ्भोगजवाजिनः । देवब्राह्मणराज्ञां
च द्रव्यं विज्ञेयमुत्तमम् ॥’ त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तम-
साहसरूपो दण्डनियमस्तेनैव दर्शितः ( १४।२१ )—‘साहसेषु य एवोक्तस्त्रिषु
दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥’ इति ॥
मृन्मयेषु मणिकमल्लिकादिषु गोर्वाजिंव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मण-
संबन्धिषु च कनकधान्यादिषु तारतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां
१. हस्तपादौ तु । २. गोव्यतिरिक्तेषु । ३. तारतम्यभावोऽस्तीति ।

व्यवहाराध्यायः ३७३
मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं
देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातिद्रव्यपरिमाणपरिग्रहा-
दीनामुपलक्षणम् । तथा हि-'अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां
प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम्' इति । अयमर्थः-'किल्बिष'शब्देनात्र
दण्डो लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण
आपादनीयः । इतरेषां पुनर्विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि
किल्बिषाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः । यस्माद्विद्वच्छू-
द्रादिककर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुनाप्ययमेवार्थो दर्शितः ( ८।३३७-
३३८)-'अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्विषम् । षोडशैव तु वैश्यस्य
द्वात्रिंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । द्विगुणा
वा चतुःषष्टिस्तद्दोषगुणवेदिनः ॥' इति ॥ तथा परिमाणकृतमपि दण्डगुरुत्वं
दृश्यते । तथाह मनुः ( ८।३२०)-'धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं
वधः । शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति ॥ विंशतिद्रोणकः
कुम्भः । हर्तुर्ह्रियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया वा ताडना-
ङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषादपि दण्डविशेषो रत्नादिषु ।
( मनुः ८।३२१।३२२)-'सुवर्णरजतादीनामुत्तमानां च वाससाम् । रत्नानां
चैव सर्वेषां शतादभ्यधिके वधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥' इति ॥ तथा द्रव्यविशेषादपि
( ८।३२३)-'पुरुषाणां कुलीनानां नारीणां वा विशेषतः । रत्नानां चैव
सर्वेषां हरणे वधमर्हति ॥' अकुलीनानां तु दण्डान्तरम् - 'पुरुषं हरतो दण्डः
प्रोक्त उत्तमसाहसः । स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥' इति ॥
क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां दमः; 'काष्ठभाण्डतृणादीनां मृन्मयानां
तथैव च ॥ वेणुवैणवभाण्डानां तथा स्नाव्वस्थिचर्मणाम् ॥ शाकानामार्द्रमूलानां
हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ पक्वान्नानां
कृतान्नानां मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्यानां मूल्यादष्टगुणो दमः ॥'
( २२।४ ) इति नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः
पञ्चाशत्पर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीयः ॥
यत्तु पुनर्मानवं क्षुद्रद्रव्यगोचरवचनं-'तन्मूल्याद् द्विगुणो दमः' इति, तदल्पप्रयो-
जनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डगुरुत्वम् । यथा-'संधि भित्त्वा
तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले
निवेशयेत् ॥' ( ८।३७६ ) इत्येवं सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्येऽति-


१. मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्यानां ।

[Page Header: ३७४ याज्ञवल्क्यस्मृतिः]

परिमाणादिभिः कारणैर्दण्डगुरुलघुभावः कल्पनीयः। पथिकादीनां पुनरल्पा-
पहारे न दण्डः। यथाह मनुः (८।३४१)-'द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू
द्वे च मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥', तथा-'चणकव्रीहि-
गोधूमयवानां मुद्गमाषयोः। अनिषिद्धैर्ग्रहीतव्यो मुष्टिरेकः पथि स्थितैः ॥
तथैव सप्तमे भक्तं भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥'
इति ॥ २७५ ॥
भाषा-छोटी, मध्यम आकार या मूल्य की और बड़ी वस्तु की चोरी
में देश, काल, आयु और शक्ति को ध्यान में रखते हुए चोरी की वस्तु के
मूल्य के अनुसार दण्ड निर्धारित करे ॥ २७५ ॥
अचौरस्यापि चौरोपकारिणो दण्डमाह-
भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।
दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ॥ २७६ ॥
भक्तमशनम्, अवकाशो निवासस्थानम्, अग्निश्चौरस्य शीतापनोदार्थः,
उदकं तृषितस्य, मन्त्रश्चौर्यप्रकारोपदेशः, उपकरणं चौर्यसाधनम्, व्ययः अपहा-
रार्थम् देशान्तरं गच्छतः पाथेयम्, एतानि चौरस्य, हन्तुर्वा दुष्टत्वं जानन्नपि
यः प्रयच्छति तस्योत्तमसाहसो दण्डः। चौरोपेक्षिणामपि दोषः-'शक्ताश्च य
उपेक्षन्ते तेऽपि तद्दोषभागिनः ।' (१४।१९) इति नारदस्मरणात् ॥ २७६ ॥
भाषा-जो व्यक्ति चोर या हत्यारे को उसका पापकर्म जानते हुए भी
भोजन, निवासस्थान, अग्नि, पीने के लिए जल, (चोरी की विधि की)
सलाह, चोरी के साधनभूत उपकरण और चोरी के लिये कहीं जाते समय
मार्ग-व्यय देता है उसे उत्तम साहस का दण्ड होता है ॥ २७६ ॥
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः।
उत्तमो वाऽधमो वापि पुरुषस्त्रीप्रमापणे ॥ २७७ ॥
किंच परगात्रेषु शस्त्रास्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य
पातने चोत्तमो दमो दण्डः। दासीगर्भनिपातने तु 'दासीगर्भविनाशकृत्'
(व्य. २३६) इत्यादिना शतदण्डोऽभिहितः। ब्राह्मणगर्भविनाशे तु 'हत्वा
गर्भमविज्ञातम्' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यति। पुरुषस्य प्रमापणे स्त्रियाश्च
शीलवृत्ताद्यपेक्षयोत्तमो वाऽधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥
भाषा-किसी के शरीर पर शस्त्र चलाने और गर्भपात करने में उत्तम
दण्ड होता है। पुरुष और स्त्री को मारने पर (शील एवं वृत्ति के अनुसार)
उत्तम अथवा अधम दण्ड देना चाहिए ॥ २७७ ॥

१. ग्रहीतव्या मुष्टिरेका । २. द्व्ययम् । ३. वक्ष्यते ।

व्यवहाराध्यायः ३७५
विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २७८ ॥
अपि च, विशेषेण प्रदुष्टा विप्रदुष्टा, भ्रूणघ्नी स्वगर्भपातिनी च । या च
पुरुषस्य हन्त्री सेतूनां भेत्त्री च,-एता गर्भरहिताः स्त्रीर्गले शिलां बध्वा
भप्सु प्रवेशयेत् यथा न प्लवन्ते ॥ २७८ ॥
भाषा-(गर्भपात करने आदि के कारण) जो स्त्री अत्यन्त दुष्टा हो,
और पुरुष की हत्या करने वाली हो, जिसने सेतु (पुल या बांध) तोड़ा
हो उसके गर्भवती न होने पर उसके गले में शिला बांधकर पानी में डाल
देवे ॥ २७८ ॥
विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २७९ ॥
किंच, 'अगर्भिणीम्' इत्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं
ददाति क्षिपति । या च दाहार्थं ग्रामादिष्वग्निं ददाति, तथा या च निजपति-
गुरुंपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा भदान्तैर्दुष्टबलीवर्दैः
प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति
मन्तव्यम् ॥ २७९ ॥
भाषा-जिस स्त्री ने दूसरे को मारने के लिये अन्न में विष दिया हो,
घर जलाने के लिए अग्नि दिया हो, जिसने पति, गुरु या अपनी सन्तान का
वध किया हो (यदि वह गर्भिणी न हो तो) उसके कान, हाथ, नाक और
ओठ काटकर उसे बैलों से मरवा डाले ॥ २७९ ॥
अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह-
अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २८० ॥
३अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः, सुताः प्रत्यासन्नबान्ध-
वाश्च 'केनास्य कलहो जातः' इति कलहमाशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्त्यो
योषितो याश्च परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥
भाषा-जिस व्यक्ति के हत्यारे का पता न हो उसके पुत्रों और बान्धवों
से उसके कलह के विषय में पूछना चाहिए (अर्थात् इस प्रकार पूछना चाहिए
कि इस मृत व्यक्ति का किसके साथ बैर था); उसकी व्यभिचारिणी स्त्रियों से
भी अलग-अलग पूछना चाहिए ॥ २८० ॥
१. भ्रूणपुरुष । २. प्रवासयेत् । ३. अविज्ञातपुरुषेण ।

३७६ याज्ञवल्क्यस्मृति
कथं प्रष्टव्या इत्यत आह—
स्त्रीद्रव्यवृत्तिकामो वा केन वाऽयं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ॥ २८१ ॥
'किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा?' तथा 'कस्यां किंवा संबन्धिन्यां वा
स्त्रियामस्य रतिरासीत् ?', 'कस्मिन् वा द्रव्ये प्रीतिः ?', 'कुतो वा वृत्तिकामः?',
'केन वा सह देशान्तरं गतः?' इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथ-
क्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये
जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर्हन्तारं निश्चित्य
तदुचितो दण्डो विधातव्यः ॥ २८१ ॥
भाषा—यह स्त्री, धन, या वृत्ति किस की अभिलाषा रखता था अथवा
किस के साथ गया था, इस प्रकार मृत्यु स्थान के निकटवर्ती मनुष्यों से
विश्वास दिलाकर पूछना चाहिए ॥ २८१ ॥
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८२ ॥
किंच, क्षेत्रं पक्वफलसस्योपेतम् , वेश्म गृहम् , वनमटवीं क्रीडावनं वा,
ग्रामम्, विवीतमुक्तलक्षणम् , खलं वा ये दहन्ति, ये च राजपत्नीमभिगच्छन्ति
तान्सर्वान्न कटैर्वैरणैर्गमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्ड-
विधानम् ॥ २८२ ॥
भाषा—किसी दूसरे के खेत, (पकी फसल), घर, वन, (वाटिका)
गाँव, बाड़ा और खलिहान को जलाने वाले तथा राजपत्नी के साथ व्यभिचार
करने वाले को कट (सरहरी) में लपेटवाकर जला देना चाहिए ॥ २८२ ॥
इति स्तेयप्रकरणम् ।
अथ स्त्रीसंग्रहणप्रकरणम् २४
स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिवण्डप्राप्त्यर्थं त्रेधा
तत्स्वरूपं व्यासेन विवृतम् — 'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदे-
शकालभाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम्॥
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चान्नपानैर्मध्यमं साहसं
स्मृतम् ॥ सहासनं विविक्ते तु परस्परमुपाश्रयः केशाकेशिग्रहश्चैव सम्यक्
संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोर्मिथुनीभावः संग्रहणाम् ॥
१. तत्प्रदेश । २. संभावा निर्जने । ३. समुदाहृतम् । ४. मपाश्रयः ।

व्यवहाराध्यायः ३७७
संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानस्य तज्ज्ञानोपायं तावदाह—
पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश्चिह्नः प्रतिपत्तौ द्वयोस्तथा ॥ २८३ ॥
संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः । परस्पर-
केशग्रहणपूर्विका क्रीडा केशाकेशि । 'तत्र तेनेदम्' (पा. २।२।२७) इति सरूपे'
इति बहुव्रीहौ सति—'इच् कर्मव्यतिहारे' (पा. ५।४।१२७) इति समासान्त
इच् प्रत्ययः । अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्थः—परभार्यया सह
केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयोः संप्रतिपत्त्या
वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । 'परस्त्री'ग्रहणं नियुक्तावरुद्धादिब्युदा-
सार्थम् ॥ २८३ ॥
भाषा—पराई स्त्री का केश पकड़ कर क्रीडा करने से, तत्काल काम-
क्रीडा द्वारा बनाये गये (नखक्षत आदि) चिह्नों से अथवा दोनों की परस्पर
प्रकट प्रीति देखकर (व्यभिचार में) प्रवृत्त पुरुष को पकड़े ॥ २८३ ॥
नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनमेव च ॥ २८४ ॥
किंच, यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं
साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वाऽन्धकाराकुले अकाले
संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः,
सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्यमानदोषपुरुषविषयम्, इतरस्य तु न
दोषः । यथाऽऽह मनुः (८।३५५)—'यस्त्वेवमनावारितः पूर्वमभिभाषेत कार-
णात् । न दोषं प्राप्नुयात्किञ्चिन्नहि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः
क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् (८।३५८)—स्त्रियं स्पृशेददेशे यः स्पृष्टो
वा मर्षयेत्तथा । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं
विदग्धाऽसकृद्रमितचरीति श्लाघया भुजंगजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति
तेनैवोक्तम् । 'दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । पूर्वं मयेयं
भुक्तेति तच्च संग्रहणं स्मृतम् ॥' (ना० १२।६९) इति ॥ २८४ ॥
भाषा—(पराई स्त्री का) नीवी, चोली या आँचल, जाँघ और केश
कामुकता पूर्वक छूने, अनुचित स्थान (एकान्त, भीड़ या अँधेरे) में और
अयुक्त समय पर (जैसे रात्रि को) भाषण करने और एक साथ एक आसन
पर बैठने वाले पुरुष को पकड़े ॥ २८४ ॥
१. परस्त्रियाः । २. सहैकस्थानमेव ।