सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 96, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 96

नोपसंहारात् विज्ञासु, 'सवर्णासु इति संबध्यते । 'विन्न'शब्दस्य संबन्धिशब्द-
त्वाद्बोतृभ्यः$^१$ सवर्णेभ्य इति लभ्यते । एकः 'सवर्ण'शब्दः स्पष्टार्थः । अतश्चायमर्थः
संवृत्तः—उक्तेन विधिनाढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समान-
जातीया भवन्ति । अतश्च कुण्डगोलककानीनसहोढेजादीनामसवर्णत्वमुक्तं$^२$
भवति । ते च सवर्णेभ्योऽनुलोमप्रतिलोमेभ्यश्च भिद्यमानाः साधारणधर्मैर्हिंसादि-
भिरधिक्रियन्ते ।—'शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः' इति स्मरणात् ।
अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैरपि द्विजशुश्रूषादिभिरधिक्रियन्ते ।
ननु कुण्डगोलकयोरब्राह्मणत्वात्$^३$ श्राद्धे प्रतिषेधोऽनुपपन्नः न्यायविरोधश्च । यो
यज्जातीयाद्यज्जातीयायामुत्पन्नः स तज्जातीय एव भवति,—यथा गोर्गवि गौः,
अश्वादश्वायामश्वः। तस्माद्ब्राह्मणाद्ब्राह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् ।
तथा कानीनपौनर्भवादीननुक्रम्य-'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः'
(व्य. १३३) $^४$इति वक्ष्यमाणवचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन
ब्राह्मण्यामुत्पन्नो ब्राह्मण इति अमनिवृत्त्यर्थः श्राद्धे प्रतिषेधः। यथाऽत्यन्तम-
ग्राह्यस्य पतितस्य श्राद्धे प्रतिषेधः। न च न्यायविरोधः। यत्र प्रत्यक्षगम्या
जातिर्भवति तत्र तथा। ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति।
यथा समानेऽपि ब्राह्मव्ये कुण्डिनो वैसिष्ठोऽत्रिर्गौतम$^५$ इति स्मरणलक्षणं गोत्रम्,
तथा मनुष्यत्वे समानेऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश्चैतदेव
जातिलक्षणम् । न चानवस्था। अनादित्वात्संसारस्य शब्दार्थव्यवहारवत् ।
'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः (व्य. १३३) इति चोक्तानुवाद-
त्वाद्यथासंभव व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयः, नियोगस्मरणात्,
शिष्टसमाचाराच्च। यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया
इत्यलमप्रसङ्गेन। किञ्च अनिन्द्येषु ब्राह्मादिविवाहेषु पुत्राः सन्तानवर्धना
अरोगिणो दीर्घायुषो धर्मप्रजासंपन्ना भवन्ति ॥ ९० ॥
भाषा—शुद्ध वर्ण के पुरुषों द्वारा सवर्णा स्त्रियों से उत्तम विवाह के उपरान्त
उत्पन्न पुत्र सवर्ण अर्थात् माता पिता की शुद्ध जाति के होते हैं । और वे सन्तान
की वृद्धि करते हैं ॥ ९० ॥

सवर्णानुक्त्वा इदानीमनुलोमानाह—
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ ९१ ॥


१. वोढृभ्यः । २. सहोढादीनां । ३. अब्राह्मणत्वे । ४. इति वचन ।
५. वसिष्ठो गोतम ।