सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

प्रायश्चित्ताध्यायः ६३६
वासत्रयम् । पुनश्चान्त्यत्र्यहे चोपवासत्रयमिति युक्तं षडुपवासतुल्यत्वम् । ऋषभै-
कादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास्ता-
वत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्य-
द्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्र-
त्रयं चरेत् । 'सान्तपनस्य वाध्यर्धमशक्तौ व्रतमाचरेत्' इति षट्त्रिंशन्मतेऽ-
भिधानात् , चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादश-
वार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास्तु धेन्वाद-
यस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः । तत्समेषु पुनः पात-
कपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः ।
त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणा-
दित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्या-
म्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण
प्राजापत्यं पादादिक्लृप्त्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एत-
द्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्बृहस्पतिनोक्तम्—'जन्मप्रभृति
यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रं यावत्षष्ठिगुणं भवेत् ॥'
इति । तत् 'द्वे परदारे' इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिका-
दिविषयभूतोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने
द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्रान्दविधानात्तदभ्यासे द्विवर्षतुल्यषष्टि-
कृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्—'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमघं
महत् । तच्छुध्यत्यब्दकृच्छ्रेण महतः पातकादृते ॥' इति,—तदुप्युपपातकाद्या-
वृत्तिविषयम् । तथा 'अज्ञानादैन्दवद्वयमि'ति यमोक्तैन्दवद्वयविषयभूतपातका-
वृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छादिव्रतानि द्विजा-
ग्रयभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्—कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुण-
महरहस्त्रिंशदेवं तृतीये, चत्वारिंशच्च तप्ते त्रिगुणितगुणिता विंशतिः स्यात्पराके ।
कृच्छ्रे सान्तापनाव्ये भवति षडधिका विंशतिः सैव हीना, द्वाभ्यां चान्द्रायणे
स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ॥' इति । अहररिति सर्वत्र संबन्ध-
नीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विप्रद्विप्राणां
षष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽभिहितम्—'विप्रा द्वादश वा भोज्याः
पावकेष्टितथैव च । अन्यो वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति
प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं,—तन्निर्धनविषयम् । यच्चा-
१. ततश्चान्त्यत्र्यहे । २. स्नानादीतिकर्तव्यता । ३. अन्यद्वा पावनं
किंचित्सममाहुर्मनीषिणः ।

६४० याज्ञवल्क्यस्मृतिः

न्द्रायणस्यापि तत्रैव प्रत्याम्नायाद्युक्तम्- 'चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस्तथैव
च । मित्रविन्दापशुश्चैव कृच्छ्रं मासत्रयं तथा ॥ नित्यनैमित्तिकानां च काम्यानां
चैव कर्मणाम् । इष्टीनां पशुबन्धानामभावे चरवः स्मृताः ॥' इति, -तदपि
चान्द्रायणाशक्तस्य। यत्तु 'कृच्छ्रं मासत्रयं तथा' इति कृच्छ्राष्टकं प्रत्याम्नातं, —
तदपि जरठमूर्खविषयम् । चान्द्रायणं त्रिभिः कृच्छ्रैरिति दर्शितत्वादित्यलं
प्रपञ्चेन। प्रकृतमनुसरामः — यस्त्वभ्युदयकामो धर्मार्थकाम्यनियोगनिष्पत्त्यर्थ-
मेतच्चान्द्रायणमनुतिष्ठति न पुनः प्रायश्चित्तार्थमसौ चन्द्रसालोक्यं स्वर्गविशेषं
प्राप्नोति । एतच्च संवत्सरावृत्त्यभिप्रायेण । 'एकमाप्त्वा विपापो विपाप्मा
सर्वमेनो हन्ति, द्वितीयमाप्त्वा दशपूर्वान्दशापरानात्मानं चैकविंशं पङ्किं
च पुनाति, संवत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोती'ति गौतमस्मर-
णात् ॥ ३२६ ॥
भाषा—जिन पापों के प्रायश्चित्त का विधान नहीं किया गया है
उनकी शुद्धि चान्द्रायणव्रत से होती है। जो धर्म के लिये यह व्रत करता है
वह चन्द्रलोक को जाता है ॥ ३२६ ॥
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् ।
यथा गुरुकतुफलं प्राप्नोति सुसमाहितः ॥ ३२७ ॥
किंच, यस्त्वभ्युदयकामः प्राजापत्यादिकृच्छ्राननुतिष्ठति स महतीं राज्या-
दिलक्षणां श्रियं विभूतिमनुभवति । यथा गुरुकतूनां राजसूयादीनां कर्ता तत्फलं
स्वाराज्यादिलक्षणं महत्फलं लभते, तथायमपि सुसमाहितः सकलाङ्गकलाप-
मविकलमनुतिष्ठन्निति फलमहिमप्रकाशनार्थं क्रतुदृष्टान्तकीर्तनम् । 'सुसमा-
हित' इत्यनेनाविकलशास्त्रानुष्ठानं वदन्काम्यकर्मतयाऽङ्गवैकल्ये फलासिद्धिं
द्योतयति । अतो नात्र प्रायश्चित्तेष्विव यावत्संभवाङ्गानुष्ठानमङ्गीकरणीयमिति दूरो-
त्सारितं प्रत्याम्नायोपादानम् । कृच्छ्रानुष्ठानावृत्तौ तु 'अधिकारिणः फलावृत्तिः
कर्मण्यारम्भाभाव्यत्वादि'ति न्यायलभ्या स्थितैवेति नेदमविवक्षितम् ॥ ३२७ ॥
भाषा—जो धर्म ( अभ्युदय ) की इच्छा से कृच्छ्र व्रत करता है वह
उसी प्रकार अत्यन्त प्रचुर ( राज्य आदि ) विभूति प्राप्त करता है जिस
प्रकार बड़े यज्ञों ( राजसूय आदि ) का कर्ता उनके फल पाता है ॥ ३२७ ॥
प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन् सार्थवादान्
प्रार्थनावरदानरूपेण प्रतिपादयितुमाह—
²श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।
इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥ ३२८ ॥
१. च समाहितः । २. श्रुत्वेमामृषयो ।

'प्रायश्चित्ताध्यायः ६४१
अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तानखिलान्
योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास्तं महिमगुणशालिनमचिन्त-
नीयशक्तिविभवमिदमभिधास्यमानमूचिवांसः ॥ ३२८ ॥
भाषा—ऋषियों ने याज्ञवल्क्य द्वारा बताये गये इन धर्मों को सुनकर
महात्मा, योगिराज और अत्यन्त तेजस्वी (याज्ञवल्क्य) से कहाः ॥ ३२८ ॥
य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥३२९॥
विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा ।
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३३० ॥
श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥३३१॥
ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्य¹श्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३३२ ॥
इत्थमृज्वर्थैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्ते स्म॥३२९-३३२॥
भाषा—जो आलस्य का त्याग करके इस धर्मशास्त्र को धारण करते हैं
वे इस संसार में यश प्राप्त करके मृत्यु के उपरान्त स्वर्ग पाते हैं । विद्यार्थी
हो तो उसे विद्या मिले, धन की इच्छा रखने वाले को धन मिले, आयु
(दीर्घजीवन) की इच्छा वाला दीर्घजीवन और शोभा या सम्पत्ति की इच्छा
वाला समृद्धि प्राप्त करे ॥ ३२९-३३० ॥
भाषा—जो श्राद्ध के समय इसके तीन श्लोकों को ही सुनावेगा
उसके पितरों को अक्षय-तृप्ति प्राप्त होगी इसमें सन्देह नहीं ॥ ३३१ ॥
भाषा—इस शास्त्र के अध्ययन से ब्राह्मण योग्य होता है, क्षत्रिय
विजयी होवे, वैश्य धन-धान्य से समृद्ध होवे ॥ ३३२ ॥
परामपि प्रार्थनामाह—
य इदं श्रावयेद्विद्वां²न्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य उद्भवाननुमन्यताम् ॥ ३३३ ॥
यस्त्विदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेदिति
श्रवणविध्यर्थवादः । तदेतदस्मत्प्रार्थितमर्थं सर्वत्र भगवाननुमन्यताम् ॥ ३३३ ॥
१. वैश्यस्तु । २. सर्वान् ।

६४२ याज्ञवल्क्यस्मृतिः
भाषा—जो विद्वान् प्रत्येक पर्व में इसे द्विजो को सुनावे वह अवश्य ही
अश्वमेध यज्ञ का फल पावे ऐसी अनुमति भी आप दें ॥ ३३३ ॥
वरदानमाह—
श्रुत्वैतद्याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३३४ ॥
एतहृषिभिर्भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थ-
नोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य 'भवत्प्रार्थितं सकलमित्थं
भवतु'इत्येवं किल भगवान्बभाषे ॥ ३३४ ॥
भाषा—मुनियों के इन वचनों को सुनकर प्रसन्नचित्त योगिराज याज्ञ-
वल्क्य ने स्वयंभू ब्रह्मा को नमस्कार करके कहा 'एवमस्तु' ( ऐसा ही हो ) ॥
इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजक-
विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र-
विवृतौ प्रायश्चित्ताध्यायस्तृतीयः समाप्तः ॥

टिप्पणी (नोट्स)
आचाराध्यायः
वन्दे निर्द्वन्द्वमानन्दममन्दानन्द-मन्दिरम् ।
वन्दारु-वृन्दार-वृन्द-वन्दितं नन्द-नन्दनम् ॥ १ ॥
नमामि्रविधिबल्लद्मीनाथं धीरं महागुरुम् ।
याज्ञवल्क्यं महर्षिं च सञ्ज्ञानोद्भूत-कल्मषम् ॥ २ ॥
यद्यप्युच्छिष्टमाचार्यैः न विशिष्टमिदम्भवेत् ।
तथाऽपि शिष्टोपदिष्टं परिशिष्टं प्रकल्पितम् ॥ ३ ॥
श्लो० १—योगीश्वरम्—अत्र कर्मधारयः, षष्ठी-तत्पुरुषे षष्ठ्यर्थ-लक्षणा-
प्रसङ्गात्—अपरार्क ।
वर्णाश्रमेतराणाम्—यह तो स्मृति का विषय बतलाया गया है ।
धर्मान्—यहाँ बहुवचन से नित्य, नैमित्तिक तथा काम्य का परिग्रह
हुआ है ।
श्लो० २—मृगः कृष्णः—कृष्णशब्दो हरिण-वचनः, मृगपदं च तात्पर्य-
ग्राहकम्—अपरार्क । कृष्ण-मृग-युक्त देश के विषय में मनु का वचन है:—
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥
श्लो० ४–५—इनके विषय में प्रस्तावना द्रष्टव्य है ।
श्लो० ७—श्रुति तथा स्मृति में परस्पर विरोध होने पर श्रुति प्रबल
होती है:—
श्रुति-स्मृतिविरोधे तु श्रुतिरेव गरीयसी । ( जाबाल-स्मृति )
जैमिनि का भी यही मत है:—
विरोधे त्वनपेक्षं स्यात् असति ह्यनुमानम् ।
सदाचारः—सदाचार की परिभाषा मनु ने की है:—
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥
४१ या०

६४४ याज्ञवल्क्यस्मृतिः
विष्णु-पुराण में सदाचार शब्द की व्युत्पत्ति निम्नलिखित रूप में की
गई है:—
साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः ।
तेषामाचरणं यत्स्यात् सदाचारः स उच्यते ॥
स्त्री-शूद्र आदि के वेदाऽविरुद्ध आचार भी सदाचार हैं। अत एक
आपस्तम्ब का कथन है:—
स्त्रीभ्यश्चावरवर्णैभ्यो धर्मशेषान् प्रतीयात् इत्येके इत्येके ॥
प्रियमात्मनः—यदि श्रुतिद्वैध हो। अत एव मनु का कथन है:—
श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ ।
उभावपि हि तौ धर्मो सम्यगुक्तौ मनीषिभिः ॥
गौतम का भी वचन है:—
तुल्यबल-विरोधे विकल्पः ॥
विकल्प होने पर आत्म-तुष्टि प्रमाण है। यही बात गर्ग के द्वारा भी
बतलाई गई है:—
विकल्पे स्वात्म-तुष्टिः-प्रमाणम् ॥
श्लो० ८—आत्मदर्शनम् — इस प्रसङ्ग में स्मृति-मुक्ताफलोक्त बृहस्पति-
वचन भी द्रष्टव्य है:—
भोगेष्वसक्तिः सततं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणाम् प्राह पञ्चशिखो मुनिः ॥
श्लो० ९—वीरमित्रोदय में यम का भी कथन है:—
एको द्वौ वा त्रयो वापि यद् ब्रूयुर्धर्मपाठकाः ।
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥
वहीं धर्म-पाठक का लक्षण भी दिया गया है:—
वेदविद्याव्रतस्नातः सत्यसन्धो जितेन्द्रियः ।
अनेकधर्म-शास्त्रज्ञः प्रोच्यते धर्मपाठकः ॥
अध्यात्मवित्तमः = कृतात्मसाक्षात्कारः—ऐसी व्याख्या शूलपाणि ने की है।
श्लो० ११—ऋतुकाल के विषय में बृहस्पति का वचन प्रयोगपारिजात
में लिखित है:—
निशाषोडशकं नारी संज्ञितर्तुमती तु सा ।
तावद्योग्या प्रभास्थाने विनाऽऽजाह्वहुतप्लवम् ॥

टिप्पणी (नोट्स) ६५५
इसमें भी कुछ विशेषता आचारादर्श में बतलाई गई है:—
ऋतुकालाभिगमनं पुंसा कार्यं विशेषतः ।
सदैव पर्ववर्जं तु स्त्रीणामभिमतं हि तत् ॥
सीमन्त-काल के विषय में वीरमित्रोदय में बृहस्पति का वचन इस
प्रकार है:—
रोहिण्यैन्दवमादित्यपुष्यहस्तोत्तरात्रयम् ।
पौष्णं वैष्णवभं चैव सीमन्ते दश संस्कृताः ॥
जातकर्म-समय का निर्देश मनुस्मृति में इस तरह है:—
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥
नाभिवर्धन का अर्थ है नाभिच्छेदन ।
श्लो० १२—नामकरण के विषय में मनु का कथन है:—
नामधेयं दशम्यान्तु द्वादश्यां वाऽस्य कारयेत् ।
पुण्ये तिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥
इस प्रसङ्ग में विशेष बात वीरमित्रोदय में उद्धृत बृहस्पति के वचन में
मिलती है :—
दशाहे द्वादशाहे वा जन्मतोऽपि त्रयोदशे ।
षोडशैकोनविंशे वा द्वात्रिंशे वर्णतः क्रमात् ॥
गोभिल ने "जननाद्दशरात्रे व्युष्टे ( = व्यतीते) शतरात्रे संवत्सरे वा नाम-
धेयकरणम्" ऐसा कहा है ।
नाम-करण-स्वरूप के विषय में विष्णुपुराण में निम्नलिखित श्लोक हैं :—
शर्मवद् ब्राह्मणस्योक्तं वर्मेति क्षत्रसंयुतम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥
स्त्री के नाम के स्वरूप के विषय में विशेष बात मनुस्मृति में है :—
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥
चतुर्थे मासि निष्क्रम:—"एतच्च छन्दोगव्यतिरिक्तपरम्" ऐसा शूलपाणि
का मत है । मनु का विशेष मत इस प्रकार है :—
'यद्वेष्टं मङ्गलं शुभे !' इसीलिए यम ने कहा है :—'ततस्तृतीये कर्तव्यं
मासि सूर्यस्य दर्शनम् ॥' गोभिल ने तो और भी विशेष बतलाया है :—

६४६ याज्ञवल्क्यस्मृतिः
'जननाच्चस्तृतीयो यौऽस्तः तस्य तृतीयायाम् ।' इति ॥
बृहस्पति ने इस विषय में विशेष बात कही है :—
स्वस्तिवाच्य समारूढवाहनं निर्ययेद् गृहात्।
मातुलो वा वहेत्तन्न निर्वाहनशिशुं स्वयम् ।
शिशुना सह मित्राणि निर्ययुश्च गृहात्स्वयम्'॥
इत्यादि।
षष्ठेऽन्नप्राशनमिति—लौगाक्षि का मत है :—
'षष्ठे मासेऽन्नप्राशनम् , जातेषु दन्तेषु वा।'
जातेषु दन्तेषु के द्वारा अष्टम मास अभिप्रेत है, कारण अष्टम मास ही
दन्तोत्पत्ति की उचित अन्तिम अवधि है। अत एव संस्कार-कौस्तुभ में
बृहस्पति की स्मृति है :—
बालानामष्टमे मासि षष्ठे मासि ततः पुनः।
दन्ता यस्य न जायन्ते माता वा म्रियते पिता ॥
चूडा कार्येति—इस विषय में मनु का मत निम्नलिखित है :—
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः।
प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥
तत्र तृतीयाब्द एव औत्सर्गिकश्चूडाकरणकालः कुलाचारनियमस्तु तस्या-
पवादः'” यह शूलपाणि का मत है। अत एव आश्वलायन ने भी कहा है :—
'तृतीये वर्षे चौलं, यथा कुलधर्मं वा।' तृतीय वर्ष में भी लौगाक्षि ने विशेष
बतलाया है :—'तृतीये भूयिष्ठे गते चूडा।' इति ।
यहीं कर्णवेध भी प्रशस्त है। कर्णवेध का काल बृहस्पति ने बत-
लाया है :—
कार्त्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा।
कर्ण-वेधम्प्रशंसन्ति शुक्लपक्षे शुभे दिने ॥
द्वितीया दशमी षष्ठी सप्तमी च त्रयोदशी।
द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने ॥
सूची (वेधनी) के विषय में वीरमित्रोदय में बृहस्पति का कथन
उद्धृत है :—
सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः।
शूद्रस्य चायसी सूची मध्यमाष्टाङ्गुलारिमका ॥
आयसी—अर्थात् लोहे की बनी हुई।

टिप्पणी (नोट्स) ६४७
चूड़ाकरण में प्रतिबन्धक तत्त्व संस्कारमयूख में बताया गया है :-
गर्भे मातुः कुमारस्य न कुर्याच्चौलकर्म तु ।
पञ्चमासादधः कुर्यादत ऊर्ध्वं न कारयेत् ॥
श्लो० १४ - 'उपनयनमित्यत्र ण्यन्तप्रयोगादुपनयनमन्यद्वारा अपि
कर्त्तव्यम्' यह शूलपाणि का मत है।
बृहस्पति ने विशेषता बतलाई है :-
द्वितीयजन्मनः पूर्वमारभेताक्षरान् सुधीः ।
मौञ्जीबन्धस्ततः पश्चाद्वेदारम्भो विधीयते ॥
इस प्रसङ्ग में गौतम का मत निम्नलिखित है :-
उपनयनं ब्राह्मणस्य अष्टमे नवमे पञ्चमे वा काम्यम् ।
राज्ञाम् - राजन् शब्द क्षत्रिय जाति का वाचक है।
श्लो० १५- महाव्याहृति के विषय में मनु का कथन है :-
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥
गौतम तथा हरदत्त के अनुसार - भूः, भुवः, स्वः, पुरुषः तथा सत्यम्
ये पांच महाव्याहृतियां हैं। मूल में महाव्याहृति-पद प्रणव का भी उपलक्षण
है। अत एव मनु का वचन है :-
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं सर्वं परस्ताच्च विशीर्यति ॥
श्लो० १६- कर्णस्थः = दक्षिण कर्ण पर स्थित। अत एव कहा गया
है:-पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमाचरेत् ॥ यह नियम भी एक-वस्त्र-
युक्त होने पर पालनीय है। अन्यथा निम्नलिखित यम-वचन के अनुसार
कार्य करना चाहिए :-
कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ॥
मुख-नियम भी सम्भव होने पर अनुसरणीय है। अन्यथा निम्न-निर्दिष्ट
यम-वचन का आदर करना चाहिए:-
छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्यात् प्राण-बाध-भयेषु च ॥
श्लो० १७- मृद्भिः-संख्या-नियम मनुस्मृति में बतलाया गया है :-
एका लिङ्गे गुदे तिस्रः तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

६४८ याज्ञवल्क्यस्मृतिः
एकत्र करे = वाम कर में । किन्तु यदि उपर्युक्त संख्या से शुद्धि नहीं हो
सके तो संख्याधिक्य का भी अवलम्बन करना ही चाहिए । यदि तु उक्त
संख्या से अल्प-संख्या के द्वारा भी शुद्धि हो जाय तब भी उपर्युक्त संख्या-
नियम को अदृष्टार्थ मानना चाहिए ।
शौच के विषय में आश्रम का नियम मनु ने बतलाया है :—
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनान्तु चतुर्गुणम् ॥
यह नियम दिवा-शौच-विषयक है । रात्रि-शौच आदि के विषय में दक्ष
का कथन निम्नलिखित है :—
यच्चोदितं दिवाशौचमर्धं रात्रौ विधीयते ।
आतुरस्य तदर्धं स्यात् तदर्धन्तु पथि स्मृतम् ॥
आतुर पद अरयातुर का अभिधायक है । अत एव आपस्तम्ब का भी
कथन है:—
आर्तः कुर्याद् यथाबलम् ॥
स्त्री-शूद्र आदि के शौच में संख्या-नियम नहीं है । अत एव देवल का
वचन है:—
यावता मन्यते शुद्धिं शौचं कुर्वीत तावता ।
प्रमाणं द्रव्य-संख्या च न शिष्टैरुपदिश्यते ॥
श्लो० १८—अन्तर्जानु— देवल का मत इस विषय में यह है:—"शिखां
बद्ध्वा वसित्वा" इति । ब्राह्मेण—यह प्रधान पक्ष है । मनु ने पक्षान्तर भी
बतलाये हैं:—
ब्राह्मेण विप्रस्तीर्थेन नित्य-कालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥
त्रैदशिक = दैव-तीर्थ ।
श्लो० २०—खानि = शिरःस्थित इन्द्रियों को । अत एव गौतम का
वचन है:—"खानि चोपस्पृशेत् शीर्षण्यानि ।" मनु ने कुछ विशेष बत-
लाया है :—
त्रिराचामेदपः पूर्वं द्विःप्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥
आत्मानम् = हृदय को, क्यों कि श्रुति में हृदय को आत्मा का स्थान
बतलाया गया है :—
"हृद्यन्तर्ज्योतिः पुरुषः ।"

टिप्पणी (नोट्स) ६४६
श्लो० २५—सन्ध्यामिति—अविद्यमानार्द्धाधिकमार्त्तण्डमण्डलः स्पृष्टलक्ष्य-
नक्षत्त्रगणः कालविशेषः सन्ध्या—वीरमित्रोदय । सन्ध्या का लक्षण योगि-याज्ञ-
वल्क्य ने बतलाया है :—
त्रयाणां चैव देवानां ब्रह्मादीनां समागमः ।
सन्धिः सर्वसुराणां च सन्ध्या तेन प्रकीर्तिता ॥
सन्ध्या-फल का निर्देश मनु ने किया है :—
पूर्वा सन्ध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति ।
पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥
यहां अनध्यायादिप्रतिबन्ध नहीं है। अत एव मनु का कथन है:—
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥
अग्निकार्यम्—यह उपलक्षण है :—
अग्नीन्धनं भैक्षचर्यामधः शय्यां गुरोर्हितम् ।
आसमावर्त्तनात् कुर्यात् कृतोपनयनो द्विजः ॥
अधःशय्याम् = अखट्‌वाशयनम् , न तु स्थण्डिलशायित्वमेव—कुल्लूक-
भट्ट ।
श्लो० २६—अभिवादयेत् इति । अभिवादन का प्रकार मनु ने
बतलाया है:—
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥
अभिवादन-वाक्य-प्रयोग के विषय में मनु का कथन है :—
अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥
नामधेयस्य ये के चिदभिवादं न जानते ।
तान्प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥
भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
और प्रत्यभिवादन-प्रकार भी मनु ने ही बतलाया है :—
आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥
यहाँ अकार स्वरमात्र का उपलक्षक है, क्यों कि नाम में अकारान्तत्व
का नियम नहीं है ।

६५० याज्ञवल्क्यस्मृतिः
'गुरु' चैवाप्युपासीत' में उपासन का अर्थ प्रणाम से अतिरिक्त उपासना
के लिए है, क्योंकि प्रणाम वृद्ध-प्रणाम-पूर्वक ही मनु के द्वारा बतलाया
गया है :—
लौकिकं वैदिकं वापि तथाऽऽध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत् ॥
श्लो० २९—दण्ड के विषय में मनु का वचन है :—
ब्राह्मणो बैल्व-पालाशौ क्षत्रियो वाट-खादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥
दण्ड का प्रमाण भी मनु ने ही बतलाया है :—
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाट-सम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥
अजिन के विषय में बृहस्पति का वचन है :—
कृष्णाजिनञ्चाह्मणस्य रौरवं क्षत्रियस्य तु ।
बस्ताजिनन्तु वैश्यस्य सर्वेषां वा गवाजिनम् ॥
बस्ताजिनम् = छाग-चर्म । यम के अनुसार "सर्वेषां रौरवाजिनम्" का
सिद्धान्त है। परन्तु दोनों ही मत तत्तत् अजिन के अभाव में ग्राह्य हैं ।
उपवीत के विषय में मनु का मत निम्नलिखित है :—
कार्पासमुपवीतं स्यात् विप्रस्योर्ध्व-वृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रजम् ॥
त्रिवृत् = तीन गुण करके । ऊर्ध्ववृतम् = दक्षिणावर्तित । यहाँ छन्दोग-
परिशिष्ट में निम्नलिखित विशेष है :—
ऊर्ध्वन्तु त्रिवृतं कार्यं तन्तुत्रयमथोवृतम् ।
त्रिवृतं चोपवीतं स्यात् तत्रैको ग्रन्थिरिष्यते ॥
अधोवृतम् = वामावर्तित । एवञ्च तीन सूत्रों को वामावर्तित करने के
पश्चात् पुनः तीन बार दक्षिणावर्तित करने पर सङ्कलन में नौ सूत्र हो जाते
हैं । उसके प्रत्येक त्रिक में एक ग्रन्थि होनी चाहिए ।
मेखलाम्—इस विषय में मनु का वचन निम्न-निर्दिष्ट है :—
मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शण-तान्तवी ॥
मूर्वा = एक प्रकार की लता । ज्या-पद के निर्देश से क्षत्रिय की मेखला
में त्रिवृत्व का सम्बन्ध नहीं होता है, क्योंकि वैसा होने पर ज्यात्व का ही

टिप्पणी (नोट्स) ६५१
अपहार हो जायगा—ऐसा मेधातिथि तथा गोविन्दराज का मत है। अनुकल्प
का भी निर्देश मनु ने किया है :—
मुञ्जालाभे तु कर्त्तव्या कुशाऽश्मन्तक-बल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥
अश्मन्तक = कुश सदृश तृणविशेष । बल्वज = 'सावय'। मेखला आदि
के नष्ट होने पर क्या करना चाहिए इसका नियम मनु ने ही बतलाया है :—
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्राश्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥
ब्राह्मणेषु चरेद् भैक्षम्—यह मनूक्त का उपलक्षण है :—
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षाप्रथमं या चैनं नावमानयेत् ॥
पूर्व-पूर्व के अभाव में उत्तरोत्तर पक्ष ग्राह्य है।
श्लो० ३१—
सत्कृत्यान्नम्—अत एव आदित्य-पुराण में कहा गया है :—
अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत्ततः ॥
अस्माकं नित्यमस्त्वेतदिति भक्त्या स्तुवन्नमेत् ॥
मनु ने भी कहा है :—
पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥
श्लो० ३६—मनु का मत कुछ भिन्न है :—
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्द्धम्पादिकं वाऽपि ग्रहणान्तिकमेव वा ॥
प्रतिवेद बारह-बारह वर्ष, अथवा छः-छ वर्ष, अथवा, तीन-तीन वर्ष किंवा
अध्ययन-समाप्ति-पर्यन्त ॥
श्लो० ३६—केशान्तश्चैव षोडशे—यहाँ वर्ष की गणना गर्भ-वर्ष से ही
करनी चाहिए ऐसा बौधायन ने कहा है :—
“स गर्भषोडशे वर्षे कर्त्तव्यः साग्निकेन, गर्भादिः संख्या वर्षाणाम्”
श्लो० ३७-३८—उपनयन की चरमावधि के विषय में मनु का भी यही
मत है—
आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आद्वाविंशात् क्षत्र-बन्धोराचतुर्विंशतेर्विशः ॥

६५२ याज्ञवल्क्यस्मृतिः
यद्यपि पैठीनसि का मत है—"द्वादश षोडश विंशतिश्चेत्यतीताः विरुद्ध-
काला भवन्ति” तथापि यह वचन इस तथ्य का प्रतिपादन करता है कि बारह-
हवें वर्ष के बीत जाने पर अनुपनीत ब्राह्मण, सोलहवें वर्ष के समाप्त हो जाने
पर अनुपनीत क्षत्रिय तथा बीसवें वर्ष के अतिक्रान्त हो जाने पर अनुपनीत
वैश्य कुछ पाप का भागी हो जाता है—यह वीरमित्रोदयकार का मत है ।
याज्ञवल्क्य ने अन्तिम अवधि का निर्देश किया है, अतः उपर्युक्त पैठीनसि से
कोई विरोध नहीं पड़ता है ।
व्रात्यों की निन्दा मनु के द्वारा निम्न-लिखित श्लोक में की गई है—
नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् ।
ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः सह ॥
यहाँ ब्राह्मणपद द्विजातिमात्र का उपलक्षक है ।
श्लो० ३९—मौञ्जी-बन्धन रूप द्वितीय जन्म के विषय में मनु का
कथन है :—
तत्र यद्ब्रह्मजन्मास्य मौञ्जी-बन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥
मनु ने द्वितीय जन्म के अतिरिक्त तृतीय जन्म का भी निर्देश किया
है—‘तृतीयं यज्ञ-दीक्षायाम्' । यहाँ यज्ञदीक्षा का अर्थ ज्योतिष्टोमादि-यज्ञ-दीक्षा
है । इस तृतीय जन्म के विषय में कुल्लूकभट्ट की व्याख्या है—प्रथम-
द्वितीय-तृतीयजन्मकथनञ्चेदं द्वितीयजन्म-स्तुत्यर्थम् , द्विजस्यैव यज्ञ-दीक्षाया-
मधिकारात् ।
श्लो० ४४—अथर्वाङ्गिरसः—इसकी व्याख्या शूलपाणि ने निम्न-
लिखित शब्दों में की है :—"अङ्गिरसा पृथक्कृतं सामवेदैकदेशम अभिचार-
प्रधानकम्” ।
श्लो० ४५—नाराशंसी :—इसका अर्थ शूलपाणि ने “नारायणस्तुति-
प्रकाशक ऋक्” किया है । “इदं जरा उपस्कृता” इत्यादि तीन ऋक् जो
ऋग्वेद के खिल भाग में निर्दिष्ट हैं, नाराशंसी कहलाते हैं—ऐसा वीर-
मित्रोदय का मत है । विद्या शब्द का अर्थ शूलपाणि के अनुसार, उपनिषद् है ।
श्लो० ४६—पत्न्याम् का अर्थ सवर्ण-पत्नी है, ऐसा शूलपाणि तथा
वीरमित्रोदय-कार का कथन है । वैश्वानरेऽपि वा—अग्निशुश्रूषा का निरूपण
बालम्भट्टी मे निम्नलिखित हारीत, शंख-लिखित तथा यम के वचन के
अनुसार किया गया है :—

टिप्पणी (नोट्स) ६५३
“यज्ञियाः समिध आहृत्य सम्मार्जनोपलेपनोल्लेखनसमूहनेन्धनपर्य्यग्नि-
करणपरिक्रमणोपस्थानहोमस्तोत्रनमस्कारादिभिरग्निं परिचरेन्नाग्निमधितिष्ठेन्न
पद्भ्यां कर्षेन्न मुखेनोपधमेत् नापश्च अग्निं च युगपत् धारयेत् नाजीर्णभुक्को
नोच्छिष्टो वा अभ्यादध्याद्विविधैर्हविर्विशेषैर्यज्ञियैः अहरहरग्निमिन्धेदामन्त्र्य
गच्छेत् आगत्य निवेदयेत् तन्मनाः शरीरोपरमान्ते ब्रह्मणः सायुज्यं गच्छति”।
श्लो० ५०—इस कथन से यह सङ्केत किया जाता है कि चातुराश्रम्य
का विधान नित्य नहीं है अपितु ऐच्छिक । तात्पर्य यह है कि चातुराश्रम्य में
व्यतिक्रम की सम्भावना नहीं है अतिक्रम तो सर्वथा सम्भव है।
श्लो० ५१—वर शब्द का अर्थ गुरु का अभिमत पदार्थ ही है। अत
एव मनु का भी कथन है :—
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ।
धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥
यह उपलक्षण-मात्र है, यथासम्भव अन्यान्य पदार्थ का भी समर्पण
करना चाहिए । यही बात लघुहारीत के वचन में भी कही गई है :—
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥
इससे स्पष्ट है कि केवल गुरु-प्रसन्नता ही गुरु-दक्षिणा है । यहाँ वेदा-
ध्ययन का तात्पर्य अर्थज्ञान-पूर्वक वेदाध्ययन से है । अतएव कूर्म-पुराण में
कहा गया है :—
वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद्यथाविधि ॥
अतएव प्रकृत याज्ञवल्क्य-श्लोक मे 'वेदम्' इस एकवचन को भी जाति-
विवक्षा से ही उपयुक्त मानना चाहिए ।
व्रतानि—इस प्रसङ्ग में बालम्भट्टी का परिष्कार निम्नलिखित है :—
“व्रतच्छेदपि आरण्यकमधीत्यैव तत् ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
व्रतच्छेऽपि शब्दार्थमारण्याध्ययने कृते ॥
इति कारिकोक्तेः । शब्दार्थमक्षरग्रहणार्थम न त्वर्थज्ञानाऽपेक्षाऽपि,
अनुष्ठानानुपयोगात् । विरक्तस्योत्तरकालं साधनचतुष्टयसम्पन्नं प्रत्युत्तरमीमांसा-
प्रवृत्तेः । प्रागुक्तकर्मन्तु कर्मकाण्डार्थज्ञानपरमिति भावः ।”

६५४ याज्ञवल्क्यस्मृतिः
श्लो० ५२—लक्षणाम्—बाह्य लक्षण के विषय में मनु का कथन है :—
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुरोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥
आभ्यन्तर लक्षणों का वर्णन आश्वलायन ने इस प्रकार किया है :—
दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वा 'ऋतमग्रे प्रथमं जज्ञे ऋते सत्य-
म्प्रतिष्ठितं यदिदं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद् दृश्यताम्'
इति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति। क्षेत्राच्चेदुभयतः सस्याद्-
गृह्णीयात् अन्नवत्यस्याः प्रजा भविष्यति इति विद्यात्, गोष्ठात् पशुमती,
वेदि-पुरीषात् ब्रह्मवर्चस्विनी, अविदासिनो हृदात् सर्वसम्पन्ना, देवनात्
कितविनी, ईरिणादधन्या, श्मशानात् पतिघ्नी” ( आ० गृ० सू० १।५।४-६ )
उभयतः सस्य क्षेत्र आदि वाक्योक्त आठ स्थानों से मिट्टी लेकर आठ ही
पिण्ड बनाना चाहिए । उन पिण्डों को 'ऋतमग्रे प्रथमम्' आदि मन्त्र से
अभिमन्त्रित कर कन्या को यथेच्छ किसी पिण्ड का स्पर्श करने के लिए
कहना चाहिए । प्रत्येक पिण्ड के स्पर्श का फल उपर्युक्त समझना चाहिए ।
उभयतः सस्य क्षेत्र का अर्थ है जिस क्षेत्र में वर्ष में दो बार उपज होती है ।
वेदिपुरीषम् = अपकर्म में बनाई हुई वेदी । अविदासी हृद = सर्वदा जलयुक्त
हृद; देवन = जुआ खेलने का स्थान; द्विप्रव्राजिनी = अनेक पुरुष से सम्पर्क
करने वाली; ईरिण = जहाँ बीज में अङ्कुर न होता हो ऐसी नमकीन भूमि ।
यह परीक्षा कुल-परीक्षा के बाद करनी चाहिए । कुल-परीक्षा के विषय में
मनु का कथन है :—
महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षयामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥
हीनक्रिय = जातकर्मादि संस्कारशून्य; निष्पुरुष = पुरुषहीन, स्त्रीमात्रा-
वशेष; निश्छन्दः = वेदाध्ययनशून्य; रोमश = दीर्घरोम-सम्पन्न; अर्शस =
'अर्श' रोगग्रस्त; क्षय = राजयक्ष्मा; आमयावि = मन्दाग्निरोग; अपस्मार = रोग
विशेष ( Epilepsy ); श्वित्र = श्वेत-कुष्ठ ।
स्वयं याज्ञवल्क्य भी इसका वर्णन आगे—"स्फीतादपि न सञ्चारि-रोग-
दोषसमन्वितात्" ( श्लो० ५४ ) में करेंगे ।
श्लो० ५३—अरोगिणीम्—यह मनूक्त दोषों का उपलक्षण है । मनुस्मृति
में निम्नलिखित प्रकार की कन्या त्याज्य मानी गई है :—

टिप्पणी (नोट्स) ६५५
नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥
एष च प्रतिषेधः न भार्यास्वाभावफलकः किन्तु शास्त्रातिक्रमप्रायश्चित्त-
मात्रम् - ऐसा कुल्लूक भट्ट का मत है । भ्रातृमतीम्-इसकी व्याख्या
मनुस्मृति में ही मिलती है:-
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥
वह कन्या जिसके भावी पुत्र को उस कन्या का पिता स्व-पुत्राभाव होने
के कारण अपने श्राद्धाधिकारी के रूप में मनोनीत कर लेता है-पुत्रिका
कहलाती है:-
अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥
असमानार्षगोत्रजाम् - यहां कुछ विशेष विवरण शूलपाणि ने दिया है-
पितुः पितुः स्वसुः पुत्राः पितुर्मातुः स्वसुः सुताः ।
पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥
मातुः मातुः स्वसुः पुत्रा मातृ मातुः स्वसुः (पितृष्वसुः) सुताः ॥
मातुर्मातुल-पुत्राश्च विज्ञेया मातृ-बान्धवाः ।
श्लो० ५५-परीक्षितः पुंस्त्वे - इस विषय में शूलपाणि ने देवल के दो
वचन उद्धृत किए हैं :-
रेतोऽस्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्याल्लक्षणैरेतैर्विपरीतं नपुंसकम् ॥
न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥
परन्तु प्रथम श्लोक के प्रथम पाद में जो वर्णन है वह निम्नलिखित नारद-
वचन से विपरीत है-
"यस्याप्सु प्लवते वीर्यं ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्याल्लक्षणैरेतै र्विपरीतस्तु षण्ढकः ॥
श्लो० ५८-एकविंशतिम्-इस प्रसङ्ग में मनु का वचन यह है :-
दश पूर्वांन्परान् वंश्यान् आत्मानं चैकविंशतिम् ॥

६५६ याज्ञवल्क्यस्मृतिः
ब्राह्मविवाह का परिष्कृत लक्षण वीरमित्रोदय में इस प्रकार दिया गया है—
“निरुपाधिककन्यादानपूर्वकः सवर्णपरिणयो ब्राह्मो विवाहः । उपाध्ययश्च-
ऋत्विक्स्वद्रव्यग्रहणसमयबन्धादयः” ।
श्लो० ५९—ऋत्विजे—दक्षिणासु दीयमानासु कन्यादानम्—ऐसा शूल-
पाणि का परिष्कार है । गोद्वयम्—यह उपलक्षण है । अत एव मनु ने
कहा है:—
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥
श्लो० ६०—धर्ममिति—अत्र धर्मशब्दः अर्थकामयोरप्युपलक्षणम् स्मृ-
त्यन्तरानुरोधात्—यह बालम्भट्टीकार का मत है ।
श्लो० ६१—युद्धहरणात्—अत एव मनु का कथन है—
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥
कन्यकाच्छलात्—इसका स्पष्टीकरण मनु में हुआ है :—
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥
इन अष्टविध विवाहों के विषय में जात्यनुकूल व्यवस्था का निर्देश
मनु ने इस प्रकार किया है :—
षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान् ॥
ब्राह्मण के लिए ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर एवं गान्धर्व; क्षत्रिय के
लिए, आसुर, गान्धर्व, राक्षस तथा पैशाच; वैश्य एवं शूद्र के लिए आसुर,
गान्धर्व और पैशाच विवाह धर्म्य हैं । विशेष विवरण के लिए निम्न-लिखित
मनु-वचन द्रष्टव्य है :—
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ इत्यादि ॥
श्लो० ६२—क्षत्रिया शरम् = ब्राह्मणवरहस्तधृत शर । प्रतोद = वर-
हस्तस्थ यष्टि । शूद्रा के विषय में मनु का कथन है—
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्ट-वेदने ॥
किन्तु स्वयं याज्ञवल्क्य ने शूद्रा के विषय में कुछ नहीं कहा है, कारण
शूद्रा-ग्रहण ब्राह्मण के लिए याज्ञवल्क्य का कथमपि सम्मत नहीं है—
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ या० स्मृ० १।५६॥

टिप्पणी (नोट्स) ६५७
श्लो० ६४—कन्या कुर्यात् स्वयंवरम्—यह अधिकार तीन ऋतुकाल के
अतिक्रमण के बाद ही होता, ऐसा विष्णु का कथन है—
ऋतुत्रयमतीत्यैव कन्या कुर्यात् स्वयंवरम् ।
ऋतुत्रये व्यतीते तु प्रभुः कन्या स्वयंवरे ॥
परन्तु यदि पिता आदि के जीवित रहने पर भी कन्या का अभिभावक
प्रमादादि के कारण उचित समय पर कन्यादान नहीं करे, वैसी स्थिति में
बौधायन का सिद्धान्त निम्न-लिखित है—
त्रीणि वर्षाण्यृतुमती कांक्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सदृशे गुणहीनमपि श्रयेत् ॥
इस प्रसङ्ग में नारद का निम्न-निर्दिष्ट वचन भी ध्येय है—
यदा तु नैव कश्चित् स्यात् कन्या राजानमाव्रजेत् ।
अनुज्ञया वरं तस्य परीक्ष्य वरयेत् स्वयम् ॥
श्लो० ६५—सकृत्प्रदीयते कन्या—यही मनु का भी मत है—
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥
श्लो० ६६—यदि वर भी अपना दोष पहले स्पष्ट नहीं कर देता है
तो उसे भी दण्ड मिलना चाहिए । वर-दण्ड की व्यवस्था नारद के अनुसार
निम्न-लिखित है—
गूह्यित्वाऽऽत्मनो दोषान् विन्दन्नन्ययमर्हति ।
वरस्य दत्त-नाशश्च भवेत् स्त्री च निवर्त्तते ॥
अन्यय = दण्ड । कहीं-कहीं द्वितीय पाद में “विन्दते द्विगुणो दमः”
पाठान्तर है ।
श्लो० ६८-६९—यहाँ मनुस्मृति में विधवा के लिए विशेष बतलाया
गया है—
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत्पुत्रं न द्वितीयं कथञ्चन ॥
श्लो० ७०--याज्ञवल्क्य का यह कथन सवर्ण-व्यभिचारिणी के लिए है ।
हीनवर्ण-व्यभिचारिणी के लिए बृहस्पति ने निम्नलिखित व्यवस्था की है—
हीनवर्णोपभुक्ता या त्याज्या वध्या च सा भवेत् ॥

६५८ याज्ञवल्क्यस्मृतिः
श्लो० ७१—इस प्रसंग में बृहस्पति का वचन अवधेय है—
रोमोद्गवे शशी भुङ्क्ते गन्धर्वः कुचदर्शने ।
अनलस्तु रजोयोगे स्त्रियो भुङ्क्ते तु नान्यथा ॥
श्लो० ७३—यहाँ द्वितीय विवाह की अवधि का निरूपण मनु ने इस
प्रकार किया है—
बन्ध्याऽष्टमेऽधिवेद्याब्दे दशमे तु मृत-प्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥
अप्रियवादिनी के साथ अपुत्रा का अध्याहार करना आवश्यक है ।
श्लो० ७९—युग्मासु संविशेत्—युग्मरात्रिगमन से पुत्र होता है—ऐसा
मनु का कथन है :—
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेदार्त्तवे स्त्रियम् ॥
आद्याश्चतस्रस्तु वर्जयेत्—यद्यपि शंख ने पति के लिए चतुर्थ दिन में ही
पत्नी की शुद्धि मानी है—
शुद्धा भर्तुश्चतुर्थेऽह्नि अशुद्धा दैवपित्र्ययोः ।
तथापि यह शुद्धि सेवा के लिए न कि सम्भोग के लिए भी । अतएव मनु
का भी कथन है—
“तासामाद्याश्चतस्रस्तु निन्दिताः” ।
श्लो० ८९—यह नियम सवर्णा स्त्री के विषय में है । अत एव मनु का
कथन है—
एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ।
अत एव निम्नलिखित वचन को असवर्णा स्त्री के विषय में समझना
चाहिए—
यो दहेदग्निहोत्रेण स्वेन भार्यां कथञ्चन ।
स स्त्री सम्पद्यते तेन भार्या चास्य पुमान् भवेत् ॥
श्लो० ९१—पारशवोऽपि वा—पारशव की व्युत्पत्ति मनु ने निम्न निर्दिष्ट
पद्य में की है—
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ।
स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥