याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
१० याज्ञवल्क्यस्मृतिः
भाषा—द्विजाति अर्थात ब्राह्मण, क्षत्रिय और वैश्य क्रमशः हृदय,
कण्ठ और तालु तक जल के पहुँचने पर शुद्ध होते हैं। स्त्री और शूद्र तो
तालु से एक ही बार जल स्पर्श कराने पर शुद्ध हो जाते हैं ॥ २१ ॥
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ॥
प्रातःस्नानं यथाशास्त्रमब्दैवतैर्मन्त्रैः 'आपोहिष्ठा' इत्येवमादिभिर्मार्जनम् ।
प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण
गायत्र्याः । 'तत्सवितुर्वरेण्यम्' इत्याद्यायाः प्रतिदिनंसं २जपः कार्यः । 'कार्य'-
शब्दो यथालिङ्गं प्रत्येकमभिसंबध्यते ॥ २२ ॥
भाषा—स्नान, अब्दैवत मन्त्र द्वारा मार्जन, प्राणायाम, (तदुपरान्त )
सूर्योपस्थान और गायत्री का जप प्रतिदिन करे ॥ २२ ॥
प्राणायामविचारः—
गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ २३ ॥
गायत्रीं पूर्वोक्ताम् 'आपोज्योतिः' इत्यादिना शिरसा संयुक्तां उक्तव्याहृति-
पूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ओंभूः ओंभुवः ओस्वरिति त्रीन्वारान्मुख
नासिकासंचारिवायुं निरुन्धन् मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥
भाषा—शिरोमन्त्र और महाव्याहृति (का जप करने) के उपरान्त
(प्रत्येक महाव्याहृति में) प्रणव जोड़ते हुए गायत्री का तीन बार (मुख
और नासिका की) श्वासवायु रोककर जप करने पर एक प्राणायाम
होता है ॥ २३ ॥
सावित्रीजपप्रकारः—
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ २४ ॥
संध्यां प्राक्प्रातरेवं हि तिष्ठेदा सूर्यदर्शनात् ।
प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेनात्मानमद्भिः संप्रोक्ष्य सावित्रीं
जपन् प्रत्यक्संध्यामा³सीत । अर्थात् 'प्रत्यङ्मुख' इति लभ्यते । आ तारकोदयात्
तारकोदयावधि । प्राक्संध्यां प्रातः समये एवं पूर्वोक्तविधिमाचरन् प्राङ्मुखः
सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र
१. मित्यादेः । २. जपः कार्यः । ३. मुपासीत ।
खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥
अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः, तद्विपरीता रात्रिः । यस्मिन्काले
खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥
भाषा—प्राणायाम के उपरान्त मार्जन के मंत्र से सिर पर जल छिड़ककर
(सन्ध्या को) पश्चिम की ओर मुख करके तारागण का उदय होने तक सावित्री
का जप करे ॥ २४ ॥
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ २५ ॥
ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्यं अग्नौ कार्यं समित्प्रक्षेपादि
यत्तत्कुर्यात् स्वगृह्योक्तेन विधिना ॥ २५ ॥
भाषा—इसी प्रकार प्रातःकाल सूर्य के उदय होने तक पूर्व दिशा को
करके मुख जप करे । इसके उपरान्त दोनों सन्ध्याओं में (सायं एवं प्रातः)
अग्निहोत्र करे ॥ २५ ॥
ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् ।
तदनन्तरं वृद्धान् गुरुप्रभृतीन्अभिवादयेत् । कथम् ? असौ देवदत्तशर्माऽहमिति
स्वं नाम कीर्तयन् ॥—
गुरुं चैवाप्युपासीत स्वाध्यायर्थं समाहितः ॥ २६ ॥
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ २७ ॥
तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठेत् । स्वाध्या-
यार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वाहूत
एवाधीयीत, न स्वयं गुरुं प्रेरयेत् । यच्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य
गुरोर्हितमाचरेत् । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् ।
अपिशब्दाद्गुरुदर्शने गौतमोक्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६-२७ ॥
भाषा—तब 'मैं अमुक हूँ' ऐसा कहते हुए श्रेष्ठ व्यक्तियों को प्रणाम
करे । अध्ययन के लिए दत्तचित होकर गुरु की परिचर्या करे । (गुरु द्वारा)
बुलाये जाने पर ही अध्ययन करे और जो कुछ प्राप्त हो वह सब गुरु को
अर्पित करे । मन, वाणी, शरीर और कार्यों द्वारा उनके अनुकूल कार्य
करे ॥ २६-२७ ॥
कृतज्ञाद्रोहिमेधाविशुचिकल्या²नसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥ २८ ॥
१. लब्धं तस्मै । २. कल्याणसूचकाः । ३. अध्याप्याः साधुशक्ताप्तस्वार्थदा
धर्मतस्त्विमे ।
१२ याज्ञवल्क्यस्मृतिः
कृतमुपकारं न विस्मरतीति कृतज्ञः। अद्रोही दयावान् । मेधावी ग्रन्थ-
ग्रहणधारणशक्तः । शुचिर्बाह्याभ्यन्तरशौचवान् । कल्यः आधिव्याधिरहितः ।
अनसूयको दोषानाविष्करणेन गुणाविष्करणशीलः । साधुः वृत्तवान् । शक्तः
शुश्रूषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । १वित्तदोऽर्पणपूर्वकसमर्थप्रदाता ।
एते गुणाः समस्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेण
अध्याप्याः ॥ २८ ॥
भाषा—कृतज्ञ, द्रोहहीन, मेधावी, पवित्र आधिव्याधि में मुक्त, परदोषान्वेषण
से विरत, सदाचारी, ( सेवा में ) समर्थ, बन्धु, विद्याप्रद एवं धनदाता — ये ही
शास्त्र के अनुसार अध्यापन योग्य होते हैं ॥ २८ ॥
दण्डादिधारणमाह—
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं च १कार्ष्णादि, उपवीतं
कार्पासादिविनिर्मितं, मेखलां च मुञ्जादि, ब्राह्मणादिर्ब्रह्मचारी धारयेत् ॥—
भैक्षचर्याप्रकारः—
ब्राह्मणेपु चरेद् भैक्षमनिन्द्येष्वात्मवृत्तये ॥ २९ ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या२ यथाक्रमम् ॥ ३० ॥
पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेप्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तेषु
स्वकर्मनिरतेषु भैक्षं३ चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्य-
तद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । 'तदभावे तत्पुत्रादा'
इति नियमात् । अत्र च 'ब्राह्मण' ग्रहणं संभवे ४सति नियमार्थम् । यत्तु
'सार्ववर्णिकं भैक्षचरणम्' इति, तस्त्रैवर्णिक५विषयम् । यच्च 'चातुर्वर्ण्यं चरेद्वैक्षम्'
इति, तदापद्विषयम् । कथं भैक्षचर्या कार्या ? आदिमध्यावसानेषु भवच्छब्दो-
पलक्षिता 'भवति भिक्षां देहि', 'भिक्षां भवति देहि', भिक्षां देहि भवति इत्येवं
वर्णक्रमेण भैक्षचर्या कार्या ॥ २९-३० ॥
भाषा—पलाश का दण्ड, कृष्णमृगचर्म, यज्ञोपवीत और मूँज की मेखला
धारण करे । जीवन निर्वाह के लिए पवित्र ( अर्थात् अपने कर्म में रत रहने
वाले ) ब्राह्मणों के घर भिक्षायाचन करे । ब्राह्मण, क्षत्रिय और वैश्य क्रमशः
आरम्भ, मध्य और अन्त में 'भवत्' शब्द का प्रयोग करते हुए भिक्षा की
याचना करे ॥ २९-३० ॥
१. अर्पणपूर्वकं । २. कार्ष्णाजिनादि । ३. भैक्ष्य । ४. सति ।
नियमार्थं । ५. त्रैवर्णिकप्राप्त्यर्थम् ।
आचाराध्यायः [१९]
भोजनप्रकारः—
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥
पूर्वोक्तेन विधिना भिक्षामहृत्य गुरवे निवेद्य तदनुज्ञया कृताग्निकार्यो
वाग्यतो मौनी अन्नं सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् आपोशानक्रियां 'अमृतोप-
स्तरणमसि' इत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनः अग्निकार्यग्रहणं
संध्याकाले कथञ्चिदकृताग्निकार्यस्य ^१कालान्तरविधानार्थं न पुनस्तृतीय-
प्राप्त्यर्थम् ॥ ३१ ॥
भाषा--(हवनादि) अग्निकार्य करके गुरु की आज्ञा पाकर, आचमन
करके, अन्न का सत्कार करके और (अन्न की) निन्दा न करते हुए मौन
होकर भोजन करे ॥ ३१ ॥
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ ३२ ॥
ब्रह्मचर्ये स्थित ^२एकान्नं नाद्यादनापदि स्वास्थ्याभावे । ब्राह्मणः पुनः
श्राद्धेऽभ्यर्थितः सन् ^३काममश्नीयात् । व्रतमपीडयन् मधुमांसपरिहारेण ।
अत्र 'ब्राह्मण' ग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । 'राजन्यवैश्ययोश्चैव
नैतत्कर्म प्रचक्षते' इति स्मरणात् ॥ ३२ ॥
भाषा-ब्रह्मचर्याश्रम में रहते हुए, रोगादि विपत्ति से मुक्त दशा में किसी
एक ही (व्यक्ति के) अन्न का भोजन न करे; श्राद्ध भोजन के अवसर पर ब्राह्मण
अपने व्रत का उल्लंघन न करते हुए ऐसा कर सकता है ॥ ३२ ॥
मधुमांसादिवर्ज्यान्त्याह—
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥
मधु क्षौद्रं, न मद्यम्; तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् ।
मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्ट-
मग्गुरोः । शुक्तं निष्ठुरवाक्यं, ^४नाम्लरसः, तस्या भक्ष्यप्रकरणे निषेधात् । स्त्रियसमुप-
भोगे । प्राणिहिंसनं जीववधः । ^५भास्करस्योदयास्तमयावलोकनम् । अश्लीलम-
सस्र्यंभाषणम् । परिवादः संवसद्रूपस्य परदोषस्य ख्यापनम् । 'आदि' शब्दात्
स्मृत्यन्तरोक्तं गन्धमाल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥
१. कालान्तरं मध्याह्नादि । २. एकान्नमेकस्वामिकम् । ३. कामं यथेष्टम् ।
४. न रसादि । ५. भास्करस्य चालोकनं । ६. गुह्यभाषणं ।
२४ याज्ञवल्क्यस्मृतिः
भाषा—मधु, मांस, लेप और अंजन (गुरु के अतिरिक्त अन्य का)
जूठा भोजन, कठोर वचन, स्त्री, जीवहिंसा, (उदय और अस्त के समय)
सूर्यदर्शन, अश्लील (और असत्य) भाषण तथा दोषान्वेषण इत्यादि से
परहेज रखे ॥ ३३ ॥
गुर्वादिलक्षणमाह—
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय दद्वेदमाचार्यः स उदाहृतः ॥ ३४ ॥
योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमस्मै
ब्रह्मचारिणे प्रयच्छति स गुरुः। यः पुनरुपनयनमात्रं कृत्वा वेदं १प्रयच्छति स
आचार्यः ॥ ३४ ॥
भाषा—वह गुरु होता है जो (उपनयन तक की) क्रियाएँ करके इस
(ब्रह्मचारी) को वेद का ज्ञान देता है। केवल उपनयन संस्कार करके वेद
प्रदान करने वाले को आचार्य कहा गया है ॥ ३४ ॥
उपाध्यार्त्विज्लक्षणम्—
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ३५ ॥
वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः ।
यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक्। एते च गुर्वाचार्योपाध्यायर्त्विजो
यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥३५॥
भाषा—(वेद के) एक भाग या अङ्ग की शिक्षा देने वाला उपाध्याय
होता है, और यज्ञकर्म कराने वाले को ऋत्विज् कहते हैं। ये (गुरु, आचार्य,
उपाध्याय और ऋत्विज्) क्रमानुसार पूज्य होते हैं, और माता इन सबसे
अधिक पूजनीय होती है ॥ ३५ ॥
वेदग्रहणार्थं ब्रह्मचर्यावधिमाह—
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ ३६ ॥
यदा विवाहासंभवे 'वेदानधीत्य वेदौ वा वेदं वा' इति प्रवर्तते तदा प्रतिवेदं
वेदं वेदं प्रति ब्रह्मचर्यं पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । 'ग्रहणान्तिकं'
इत्येके वर्णयन्ति । केशान्तः पुनर्गोदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे
१. ददाति ।
आचाराध्यायः १५
ब्राह्मणस्य कार्यम्। एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम्। इतरस्मिन्पक्षे
यथासंभवं द्रष्टव्यम्। राजन्य-वैश्ययोस्तूपनयनकालवद् द्वाविंशे चतुर्विंशे वा१
द्रष्टव्यम् ॥ ३६ ॥
भाषा—प्रत्येक वेद के लिए बारह अथवा पांच वर्षों का ब्रह्मचर्यकाल
होता है; किन्तु कुछ लोग विद्याग्रहण के अन्त तक ब्रह्मचर्य बताते हैं।
केशान्त या गोदान नाम का कर्म (गर्भकाल से) सोलहवें वर्ष में करना
चाहिए ॥ ३६ ॥
उपनयनकालस्य परमावधिमाह—
आ षोडशादा द्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ ३७ ॥
अत ऊर्ध्वं पतन्त्येते २सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ ३८ ॥
आषोडशाद्वर्षात्षोडशवर्षं यावत् आ द्वाविंशादा चतुर्विंशाद्वर्षाद्ब्रह्मक्षत्रविशां३
औपनायनिकः उपनयनसंबंधी परः कालः। नातः परमुपनयनकालोऽस्ति,
किन्तु अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः। सर्वधर्मेष्वनधिकारिणो भवन्ति।
सावित्रीपतिताः पतितसावित्रीका भवन्ति। सावित्रीदानयोग्या न भवन्ति।
व्रात्याः संस्कारहीनाश्च व्रात्यस्तोमात्क्रतोर्विना कृते तु तस्मिन्नुपनयनाधिकारिणो
भवन्ति ॥ ३७-३८ ॥
भाषा—सोलह, बाइस और चौबीस वर्ष तक क्रमशः ब्राह्मण, क्षत्रिय
वैश्य के लिए उपनयन संस्कार की आखिरी अवधि होती है। इस समय के
बाद (यज्ञोपवीत न होने पर) ये सभी धर्मों से बहिष्कृत होकर च्युत,
सावित्रीदान के अयोग्य और व्रात्यस्तोम यज्ञ के बिना व्रात्य अर्थात् संस्कारहीन
हो जाते हैं ॥ ३७-३८ ॥
'आद्यास्त्रयो द्विजाः' (आचार. २०।१) इत्युक्तं, तत्र हेतुमाह—
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ ३९ ॥
मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाच्च द्वितीयं जन्म यस्मात्तस्मादेते
ब्राह्मण-क्षत्रिय-वैश्या द्विजा उच्यन्ते ॥ ३९ ॥
१. वा यथासंभवं। २. त्रयोऽप्येते यथाकालमसंस्कृताः। ३. ब्राह्मणक्षत्रियविशां।
१६ याज्ञवल्क्यस्मृतिः
भाषा—ब्राह्मण, क्षत्रिय और वैश्य पहले माता से जन्म लेते हैं; मौजि-
मेखला के बाँधे जाने पर (उपनयन के समय) इन सबका दूसरा जन्म होता है;
अतः इन्हें द्विज कहा जाता है ॥ ३९ ॥
वेदग्रहणाध्ययनफलमाह—
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ ४० ॥
यज्ञानां श्रौत-स्मार्तानां, तपसां कार्यसन्तापरूपाणां चान्द्रायणादीनां, शुभानां
च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेद एव द्विजातीनां परो
निःश्रेयसकरो १ नान्यः। 'वेद एव' इति तन्मूलकत्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४० ॥
भाषा—यज्ञों, तपस्याओं और (उपनयनादि) शुभ कर्मों का अवबोधक
होने से वेद ही द्विजातियों के लिए परम उपकारक होता है दूसरा नहीं ॥ ४० ॥
ग्रहणाध्ययनफलमुक्त्त्वेदानीं २काम्यव्रतब्रह्मयज्ञाध्ययनफलमाह—
मधुना पयसा चैव स देवांस्तर्पयेद् द्विजः ।
पितॄन्मधुघृताभ्यां च ऋचोऽधीते च३ योऽन्वहम् ॥ ४१ ॥
यजूंषि भक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥ ४२ ॥
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४३ ॥
योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पितॄंश्च मधुघृताभ्यां तर्पयति ।
यः पुनः शक्तितोऽन्वहं यजूंष्यधीते स घृतामृतैर्देवान्पितॄंश्च मधुसर्पिभ्यां तर्पयति ।
यस्तु सामान्यन्वहमधीते स सोमघृतैर्देवान्पितॄंश्च मधुसर्पिभ्यां प्रीणाति ।
ऋगादिग्रहणं सामान्येन ऋगादिमं६त्राप्रासद्यर्थम् ॥ ४१-४३ ॥
भाषा—जो द्विज प्रतिदिन ऋचाओं का अध्ययन करता है, वह मधु और
दूध से देवताओं के लिये तथा मधु और घृत से पितरों के लिये तर्पण करता है ।
जो (द्विज) प्रतिदिन यथाशक्ति यजुस् मन्त्रों का अध्ययन करता है वह घृत
और जल से देवताओं का तथा आज्य एवं मधु से पितरों को प्रसन्न करता है ।
जो (द्विज) प्रतिदिन सामवेद के मन्त्रों का पाठ करता है वह सोम और घृत
से देवताओं के लिए तर्पण करता है, और मधु तथा घृत द्वारा पितरों को तृप्ति
प्रदान करता है ॥ ४१-४३ ॥
१. परो मोक्षकरो । २. काम्यब्रह्म । ३. हि यो । ४. पितॄंश्च
मधुना द्विजः । ५. प्रीणाति । ६. मंत्र ।
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ ४५ ॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृप्तिं ३कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४६ ॥
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यः पुनः शक्तितोऽन्वहं अथर्वाङ्गिरसोऽधीते स देवान्मेदसा पितॄंश्च मधुस-
र्पिभ्यां तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपवेदवाक्यम् । पुराणं ब्राह्मादि ।
चकारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च रुद्रदैवत्यान्मन्त्रान् । गाथा यज्ञ-
गाथेन्द्रगाथाद्याः । इतिहासान् महाभारतादीन् । विद्याश्च वारुणाद्या विद्याः ।
शक्तितोऽन्वहमधीते । स मांसक्षीरौदनमधुसर्पिर्भिर्देवान् पितॄंश्च मधुसर्पिभ्यां
तर्पयति ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः
शुभैरनन्योपघातलक्षणैस्तर्पयन्ति ॥
भाषा—जो द्विज प्रतिदिन यथाशक्ति अथर्वाङ्गिरस पढ़ता है वह देवों
का मेद द्वारा एवं पितरों का मधु और घृत द्वारा तर्पण करता है। जो (द्विज)
प्रतिदिन यथाशक्ति वाकोवाक्य पुराण, नाराशंसी, गाथा इतिहास तथा
(वारुणादि) विद्याओं का अध्ययन करता है वह मांस दूध, ओदन और
मधु द्वारा देवताओं के लिए तर्पण करता है और पितरों को मधु तथा घृत
द्वारा तृप्त करता है, वे (देवता और पितर) तृप्त होकर इस (स्वाध्याय के
अधिकारी) को सभी शुभ अभीष्ट फलों द्वारा सुखी बनाते हैं ॥
प्रशंसार्थमाह—
यं यं क्रतुमधीते४ च तस्य तस्याप्नुयात्फलम् ॥ ४७ ॥
त्रिवित्तपूर्णपृथिवीदानस्य फलमश्नुते ।
तँपसश्च परस्येह ६नित्यं स्वाध्यायवान्द्विजः ॥ ४८ ॥
यस्य यस्य क्रतोः प्रतिपादक वेदैकदेशमन्वहमधीते तस्य तस्य क्रतोः
फलमवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य
१. पितॄंश्च मधुसर्पिषा । संतर्पयेद्यथाशक्ति योऽथर्वाङ्गिरसीः पठेत् । २. विद्यां
योऽधीते शक्तितोऽन्वहम् । ३. च तथा । ४. मधीयीत; मधीतेऽसौ
५. तपसो यत्परस्य । ६. नित्यः ।
२ या०
१८ याज्ञवल्क्यस्मृतिः
तपसश्चान्द्रायणादेर्यत्फलं तदपि नित्यं स्वाध्यायवानाप्नोति । 'नित्य' ग्रहणं
काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७-४८ ॥
भाषा—वह जिस-जिस यज्ञ का अध्ययन करता है, उस-उस यज्ञ का
फलप्राप्त करता है । धनधान्य से पूर्ण पृथिवी का तीन बार दान करने से एवं
(चान्द्रायणादि) उत्कृष्ट तपस्याओं से जो फल होता है उसी का भोग
नित्य स्वाध्यायरत द्विज करता है ॥ ४७-४८ ॥
एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह—
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ ४९ ॥
अनेन विधिना देहं सादयन्विजितेन्द्रियः ।
ब्रह्मलोकमवाप्नोति न२ चेहाजायते पुनः ॥ ५० ॥
अनेनोक्तेन३ प्रकारेणात्मानं निष्ठां उत्क्रान्तिकालं नयतीति नैष्ठिकः स याव-
ज्जीवमाचार्यसमीपे वसेत् । न ४वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे
तत्पुत्रसमीपे, तद्भावे तद्भार्यासमीपे, तदभावे वैश्वानरेऽपि५ । अनेनोक्तविधिना
देहं १सादयन् क्षपयन् विजितेन्द्रियः इन्द्रियजये विशेषप्रयत्नवान्ब्रह्मचारी ब्रह्म-
लोकममृतत्वमाप्नोति । न कदाचिदिह पुनराजायते ॥ ४९-५० ॥
भाषा—नैष्ठिक ब्रह्मचारी आचार्य के समीप निवास करे; उनके न होने
पर उनके पुत्र के समीप अथवा (पुत्र के अभाव में) उनकी पत्नी के या
(गुरु पत्नी के न होने पर) अग्निहोत्र की अग्नि के निकट निवास करे ।
इस विधि द्वारा शरीर की साधना करते हुए और विशेष प्रयत्नपूर्वक इन्द्रियों
पर विजय कर वह ब्रह्मलोक प्राप्त करता है और इस संसार में पुनः जन्म
नहीं लेता ॥ ४९-५० ॥
इति ब्रह्मचारिप्रकरणम् ।
विवाहप्रकरणम्
यः पुनर्वैवाह्यस्तस्य विवाहार्थं स्नानमाह—
गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया ।
वेदं६ व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ ५१ ॥
१. साधयन् [ अस्मिन्पाठे विपरीतलक्षणा बोध्या । ] २. न चेह जायते ।
३. उक्तप्रकारेण । ४. ग्रहणकालोत्तरं । ५. स्त्रोपास्याग्निसंनिधौ ।
६. र्नायीत ।
आचाराध्यायः १६
पूर्वोक्तेन प्रकारेण वेदं मन्त्रब्राह्मणात्मकम्, व्रतानि, ब्रह्मचारिधर्मानुक्रान्तान् ।
उभयं वा, पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा
स्नायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि । एतेषां च पक्षाणां शक्तिकालाद्यपेक्षया
व्यवस्था ॥ ५१ ॥
भाषा—वेद ( का अध्ययन ) या व्रतों को समाप्त कर अथवा वेदाध्ययन
एवं व्रत दोनों ही पूरा करके, गुरु को यथाशक्ति दक्षिणा देकर उनकी आज्ञा
से ( समावर्तन ) स्नान करे ॥ ५१ ॥
स्नानानन्तरं किं कुर्यादित्यत आह—
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ ५२ ॥
अविप्लुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् ।
बाह्यानि 'तनुलोमकेशदशनाम्' १ इत्यादीनि (३।१०) मनुनोक्तानि । आभ्यन्त-
राणि 'अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं
नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा
पुरुषान्तराऽपरिगृहीताम् । कान्तां कमनीयां वोढुर्मनोनयनानन्दकारिणीम् ।
'यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिः' इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधि-
काङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा
सपिण्डा, न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन
भवति । तथा हि—पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सहैकपिण्डता २ । एवं
पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्व-
येन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभि-
रप्येकशरीरावयवान्वयात् । तथा पितृव्य-पितृष्वस्त्रादिभिरपि । तथा पत्या
सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः ३
सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र 'सपिण्ड' शब्दस्तत्र तत्र साक्षात्परम्परया
वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि 'दशाहं शावमा-
शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राप्नोति । स्यादेतत् ,-यदि तत्र
'प्रत्तानामितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेषु यत्र
विशेषवचनं नास्ति तत्र 'दशाहं शावमाशौचम्' इत्येतद्वचनमवतिष्ठते । अवश्यं
चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः'
इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इति च । 'स एवायं विरूढः प्रत्यक्षेणो-
१. केशादीनि मनुप्रोक्तानि । २. सह सापिण्ड्यं । ३. एकशरीराम्भैः ।
२० याज्ञवल्क्यस्मृतिः
पल्लभ्यते, दृश्यते चापि सारूप्यम् । देहस्त्वमेवान्यत् इत्यापस्तम्बवचनाच्च ।
यथा गर्भोपनिषदि—'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतः ।
अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वय-
प्रतिपादनात् । १निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसंताने भ्रातृपितृव्यादिषु
च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तैिस्तत्र
तन्नावगम्यमाना परित्यक्ता स्यात् । सत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते ।
तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति । एवं परम्परयैकशरीरावयवान्वयेन तु
सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा ३प्रमाणतश्च न्यूनां
उद्वहेत् परिणयेत् स्वगृह्योक्तेन विधिना ॥ ५२ ॥
भाषा—ब्रह्मचर्य से च्युत न होकर शुभ लक्षणों से युक्त स्त्री से विवाह
करे, जो पहल किसी अन्य पुरुष को प्रदत्त या किसी द्वारा भुक्त न हो सुन्दरी
हो, असपिण्ड हो तथा (आयु एवं शरीर-प्रमाण में) अपने से छोटी हो ॥ ५२ ॥
विशेषान्तरप्याह—
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
अरोगिणीं अचिकित्सनीयव्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का-
निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजां
ऋषेरिदमार्षं नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम्, आर्षं च गोत्रं च
आर्षगोत्रे, समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा
न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासे
निमित्तम् । ४तेनासमानार्षजामसमानगोत्रजामित्यर्थः५ । तथा च 'असमानप्रवरै-
र्विवाहः' (गौ. स्मृ. ४।१) इति गौतमः । तथा असपिण्डा च या मातुरसपिण्डा
च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति (३।५) मनुः ।
तथा मातुलगोत्रामप्यपरिणेयां केचिदिच्छन्ति६, 'मातुलस्य सुतामूढ्वा मातृगोत्रां
तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् ।
अत्र च 'असपिण्डाम्' इत्यनेन पितृष्वसृ-मातृष्वस्रादिदुहितृनिषेधः । तथा
'असगोत्राम्' इत्यनेनासपिण्डा या अपि भिन्नसन्तानजायाः समानगोत्राया
निषेधः । तथा 'असमानप्रवराम्' इत्यनेनाप्यसपिण्डा या असगोत्राया अपि
१. पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा । २. भ्रातृपुत्रादिषु । भ्रातृव्य-
पितृव्या । ३. प्रमाणेन च । ४. असमानगोत्रजां असमानार्षजामित्यर्थः ।
५. असगोत्रा च । ६. 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोर-
विज्ञाने व्युद्वहेदविशङ्कितः ॥' इति व्यासः । ७. त्यक्त्वा ।
आचाराध्यायः २१
समानप्रवरा निषेधः । तथा च 'असपिण्डाम्' इत्येतत्सार्ववर्णिकम् ; सर्वत्र
सापिण्ड्यसद्भावात् । 'असमानार्षगोत्रजाम्' इत्येतत्त्रैवर्णिकविषयम् । यद्यपि
राजन्यविशां प्रातिस्विकगोत्राभावात्प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदि-
तव्यौ । तथा च 'यजमानस्यार्षेयान्प्रवृणीते' इत्युक्त्वा 'पौरोहित्यान्राजन्यविशां
प्रवृणीते' इत्याहाश्वलायनः ( श्रौ. सू. अ. ६ खं. १५ ) । सपिण्डासु समान-
गोत्रासु समानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि
²दृष्टविरोध एव ॥-
भाषा—असाध्य रोग से अछूती हो, भाई वाली हो, और समान गोत्र
एवं प्रवर की न हो ।
असपिण्डाम्' इत्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापि-
ण्ड्यमुक्तं, तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत
आह-
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ ५३ ॥
मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितुः संताने सप्तमादूर्ध्वं,
सापिण्ड्यं निवर्तते' इति शेषः । अतश्चायं 'सपिण्ड' शब्दो³ऽवयवशक्त्या⁴ सर्वत्र
प्रवर्तमानोऽपि निर्मन्ध्य-पङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः
षट् सपिण्डाः, पुत्रादयश्च षट्, आत्मा च सप्तमः, संतानभेदेऽपि यतः संतानभेद-
स्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृ-
पितामहादिगणनायां पञ्चमं⁵संतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितर-
मारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथा च
'भगिन्योर्भगिनीभ्रात्रोर्भ्रातृपुत्रीपितृव्ययोः। विवाहे द्वयोर्बिभूतत्वाच्छाखाभेदोऽवं⁷-
गण्यते ॥ यद्यपि वसिष्ठेनोक्तं 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा' इति,
'त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना, तदप्यर्वाङ्निषेधार्थं
न पुनस्तत्प्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः । एतच्च समानजातीये द्रष्ट-
व्यम् विजातीये तु विशेषः । यथा शङ्खः- 'यद्येकजाता बहवः पृथक्क्षेत्राः
पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्व्वावर्तते त्रिषु ॥' एकस्माद्ब्राह्मणादे-
र्जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीषु जाताः । पृथग्जनाः
समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः, सपिण्डाः किंतु पृथक्-
१. गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्रा-
भावस्तथापि । २. दृष्टदोषविरोधः । ३. शब्दो योगेऽवयव । ४. वयव-
शक्त्या प्रवर्त्तं । ५. पञ्चमपुरुषवर्तिनी । ६. ऽव्यादि । ७. वगण्यते ।
८. एकपिण्डाः सपिण्डाः ।
शौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । 'पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव
सापिण्ड्यमिति ॥ ५३ ॥
भाषा—तथा माता के कुल में पाँच पीढ़ी से ऊपर एवं पिता के कुल
में सात पीढ़ी से ऊपर हो ॥ ५३ ॥
'दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
पुरुषा एव पूरुषाः, दशभिः पुरुषैर्मातुतः पञ्चभिः पितुतः पञ्चभिर्विख्यातं
यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् अध्ययनमुपलक्षणं श्रुताध्ययन-
संपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मा-
त्कन्यका ग्राहर्तव्येति नियम्यते ॥
भाषा—जिस उच्च कुल के पुरुष दस पीढ़ियों से प्रख्यात वेद पाठी हों
उस कुल की कन्या ग्रहण करे;
एवं सर्वतः प्राप्तौ सत्यामपवादमाह—
स्फीतादपि नसंचारिरोगदोषसमन्वितात् ॥ ५४ ॥
स्फीतादिति । संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणित-
द्वारेणानुप्रविशन्तो दोषाः पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः । एतैः
समन्वितात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्त्तव्या ॥ ५४ ॥
भाषा—किन्तु यदि महान् कुल में भी संसर्गज रोग हों तो उससे कन्या
न ले ॥ ५४ ॥
एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह—
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः ॥ ५५ ॥
एतैरेव पूर्वोक्तैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः-
सवर्ण उत्कृष्टो वा, न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात्
प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते
बीजं ह्लादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति ।
युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः २स्मित-
पूर्वमृद्गभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥
भाषा—वर भी इन्हीं पूर्वोक्त गुणों से युक्त, सवर्ण और विद्वान् होना
चाहिए, उसके पुरुषत्व की यत्नपूर्वक परीक्षा की गई हो और वह युवक,
विवेकशील और प्रिय होवे ॥ ५५ ॥
१. पौरुष । २. स्मितमृदुपूर्वाभिभाषण ।
आचाराध्यायः २३
रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः-नित्यः,
काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ ( आचार. ५५ ) इत्यनेन
सवर्णा मुख्या दर्शिताः । इदानीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्यत
आह—
यदुच्यते द्विजातीनां १शूद्राहारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ ५६ ॥
यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः
स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य-ब्राह्मणस्य चतस्रो भार्याः, क्षत्रियस्य तिस्रः,
वैश्यस्य द्वे इति द्विजातीनां शूद्रावेदनमिति नैतद्याज्ञवल्क्यस्य मतम् ।
यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते
पुनः’ इति श्रुतेः । अत्र च ‘तत्रायं जायते स्वयम्’ इति हेतुं वदता नित्यकपुत्रो-
त्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नित्यक-
पुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये, क्षत्रियस्य च
वैश्यौ३ भार्यानुज्ञाता भवति ॥ ५६ ॥
भाषा—द्विजातियों को शूद्रवर्ण से स्त्री ग्रहण करने की जो बात कही
गई है वह मुझे मान्य नहीं है; कारण, स्त्री में स्वयं ( पुरुष का आत्मा ) ही
जन्म लेता है ॥ ५६ ॥
इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रममात्रानधिकारिणो
गृहस्थाश्रमावस्थामात्रभिकाङ्क्षिणः परिणयनक्रममाह—
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ ५७ ॥
वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्यस्यैका । शूद्रस्य
तु स्वैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या
अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नित्यकानुकल्पे काम्ये च पुत्रोत्पा-
दनविधौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा
‘विप्रान्मूर्धावसिक्तो हि’ इत्युपक्रम्य विन्नास्वेष विधिः स्मृतः’ इति च तत्
रतिकामस्याश्रममात्रामिकाङ्क्षिणो वा नान्तरीयकत्या४ऽपत्यस्य ॥ ५७ ॥
भाषा—वर्ण की अनुलोमता से ब्राह्मण क्षत्रिय और वैश्य की क्रमशः
१. शूद्रादारोप । २ तत्रात्मा जायते । ३. वैश्याभ्यनुज्ञा ।
४. अन्योद्देशकव्यापारनिर्वर्त्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्त्वं वा नान्त-
रीयकत्वम् ।
तीन, दो और एक पत्नियां होती हैं । शूद्र की अपनी ही ( जाति की ) एक
भार्या होती है ॥ ५७ ॥
विवाहानाह—
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृतः ।
तज्जः पुनात्युभयतः पुरुषानैकविंशतिम् ॥ ५८ ॥
स ब्राह्माभिधानो विवाहः यस्मिन्नुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता
कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दश,
आत्मानं चैकविंशं पुनाति सद्वृत्तश्चेत् ॥ ५८ ॥
भाषा—ब्राह्मविवाह वह होता है जिसमें ( वर को ) बुलाकर (उसे)
यथाशक्ति आभूषणादि से अलंकृत कन्या प्रदान की जाती है; ऐसे विवाह
से उत्पन्न पुत्र ( अपने पूर्वकी दस; आगे आने वालो दस तथा अपनी पीढ़ी
को मिलाकर ) इक्कीस पीढ़ियों को पवित्र करता है ॥ ५८ ॥
दैवार्षविवाहौ—
यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः, पुनात्युत्तरजश्च षट् ॥ ५९ ॥
स दैवो विवाहो यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे यथाशक्त्यलंकृता कन्या
दीयते । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाह-
जश्चतुर्दश पुनाति सप्तावरान् सप्त परान् । उत्तरज आर्षविवाहजः षट् पुनाति
त्रीन्पूर्वान् त्रीन्परान् ॥ ५९ ॥
भाषा—यज्ञानुष्ठान के समय ऋत्विज को (यथाशक्ति अलंकृत करके)
कन्या दी जाय तो वह दैव विवाह होता है; जब दो गायें लेकर कन्या दी
जाती है तब वह आर्षविवाह होता है । इनमें दैवविवाह से उत्पन्न पुत्र ( सात
पहले की और सात बाद की इस प्रकार ) चौदह पीढ़ियों को और आर्ष
विवाह से उत्पन्न पुत्र ( तीन पहले और तीन बाद की ) छः पीढ़ियों को पवित्र
करता है ॥ ५९ ॥
प्राजापत्यविवाहलक्षणम्—
इत्युक्त्वा चरतां १धर्मं सह या दीयतेर्थिने ।
स कायः पावयेत्तज्जः षंट् षड्वंश्यान्सहात्मना३ ॥ ६० ॥
सह धर्मं चरताम्' इति परिभाष्य कन्यादानं स प्राजापत्यः । तज्जः षट्
पूर्वान्षट् परान् आत्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥
१. सहोभौ । २. धर्ममित्युक्त्वा । ३. सह चात्मनः ।
आचाराध्यायः २५
भाषा—साथ रहकर धर्म का आचरण करो, ऐसा कहकर जब कन्या
विवाहेच्छु पुरुष को प्रदान की जाती है तब कायविवाह होता है; इससे
उत्पन्न पुत्र अपनी पीढ़ी को और छः पहले एवं छः बाद की पीढ़ियों को पवित्र
करता है ॥ ६० ॥
आसुरगान्धर्वादि विवाहलक्षणानि—
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः १कन्यकाछलात् ॥ ६१ ॥
आसुरः पुनर्द्रविणादानात् । गान्धर्वस्तु परस्परातुरागेण भवति । राक्षसो
युद्धेनापहरणात् । पैशाचस्तु कन्यकाछलात् छलेन छलना स्वापाद्यवस्थास्व-
२पहरणात् ॥ ६१ ॥
भाषा—अधिक धन लेकर कन्या प्रदान की जाय तो वह आसुर विवाह
होता है, परस्पर प्रेम होने पर जो विवाह होता है वह गान्धर्व कहलाता है।
युद्ध में हरी गई कन्या से विवाह राक्षसविवाह होता है और कन्या को
छलपूर्वक फुसलाकर किया गया विवाह पैशांच होता है ॥ ६१ ॥
सवर्णादिपरिणयेन विशेषमाह—
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने ३त्वग्रजन्मनः ॥ ६२ ॥
सवर्णासु विवाहे स्वगृहोक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु
शरं गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य
दशाम् । यथाह मनुः (३।४४)—'वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने
इति ॥ ६२ ॥
भाषा—अपनी जाति की कन्या से विवाह करते समय उसका हाथ
पकड़ना चाहिए; ब्राह्मण क्षत्रिया से विवाह करे तो क्षत्रिया बाण पकड़े, वैश्या
प्रतोद या पैना पकडे ॥ ६२ ॥
कन्यादातृक्रममाह—
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ ६३ ॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ ६४ ॥
१. कन्यकां छुलात् । २. द्यवस्थासु हरणात् । ३. त्वग्रयजन्मनः ।
२६ याज्ञवल्क्यस्मृतिः
एतेषां पित्रादीनां पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चेत् यद्युन्मादादि-
दोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृतावाप्नोति ।
एतच्चोक्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा कन्यैव गच्छं-
तमनाईमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३-६४ ॥
भाषा—पिता, पितामह, भाई, कुल का कोई पुरुष और माता—इनमें
क्रमशः पहले वाले के अभाव में आगे वाला यदि प्रकृतिस्थ अर्थात् उन्मादादि
रोग से मुक्त हो तो कन्यादान दे । ( यदि कन्यादान का अधिकारी व्यक्ति )
कन्यादान नहीं करता तो कन्या के प्रत्येक ऋतुकाल में उसे भ्रूणहत्या का
पाप लगता है । यदि कन्यादान देने वाला कोई भी न हो तो कन्या योग्य
वर का स्वयं वरण कर लेना चाहिए ॥ ६३-६४ ॥
कन्याहरणे दण्डः—
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
सकृदेव कन्या प्रदीयते इति शास्त्रनियमः । अतस्तां दत्त्वा अपहरन् कन्यां
चोरवद्दण्ड्यः ॥
भाषा—कन्या एक ही बार (विवाह में) दी जाती है; अतः ( उसे
देकर पुनः ) उसका अपहरण करने वाला चोर के समान दण्ड का भागी
होता है ।
एवं सर्वत्र प्रतिषेध प्राप्तेऽपवादमाह--
दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ ६५ ॥
यदि पूर्वस्माद्वराच्छ्रेयान्विद्याभिजनाद्यतिशययुक्तो वर आगच्छति, पूर्वस्य
च पातक्योगो दुर्वृत्तत्वं वा, तदा दत्तामपि हरेत् । एतच्च सप्तमपदा-
त्प्राग्द्रष्टव्यम् ॥ ६५ ॥
भाषा—किन्तु यदि पहले वर स अच्छा कोई दूसरा वर मिल जाय तो
दी हुई कन्या का भी हरण कर ले ॥ ६५ ॥
अनाख्याय दद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु १ त्यजन् दण्ड्यो दूषयंस्तु मृषा शतम् ॥ ६६ ॥
यः पुनश्चक्षुर्ग्राह्यं दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः ।
उत्तमसाहसं च ( आचा० ३६६ ) वक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन् उत्तम-
१. च त्यजन् ।
आचाराध्यायः २७
साहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोग्यादिभिः
कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥
भाषा—जो व्यक्ति ( दिखाई पड़ने वाले ) दोषों को बिना बताए ही
कन्या का दान करता है उसे उत्तमसाहस का दण्ड मिलना चाहिए । निर्दोष
कन्या का ग्रहण करके पुनः उसका त्याग करने वाले को भी यही दण्ड
मिलना चाहिए और ( विवाह के पूर्व ) कन्या में मिथ्या दोष बताने वाले को
सौ पर्णों का दण्ड देना चाहिए ॥ ६६ ॥
'अनन्यपूर्व्विकाम्' ( श्लो. ५२ ) इत्यत्रानन्यपूर्वा परिणेयोक्ता, तत्रान्यपूर्वा
कीदृशीत्याह—
अक्षता च क्षता चैव पुनर्भूः, संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ ६७ ॥
अन्यपूर्वा द्विविधा—पुनर्भूः, स्वैरिणी चेति । पुनर्भरपि द्विविधा—क्षता
चाक्षता च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः
संस्कारदूषिता । या पुनः कौमारं पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा
स्वैरिणीति ॥ ६७ ॥
भाषा—कन्या का किसी पुरुष से शरीरसंबन्ध हुआ हो चाहे न हुआ हो
दूसरी बार विवाह होने पर वह पुनर्भू कहलाती है। जो स्त्री पति को छोड़ कर
अपनी इच्छा से अपनी जाति के किसी दूसरे पुरुष को स्वीकार करती है वह
स्वैरिणी होती है ॥ ६७ ॥
एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्राप्ते विशेषमाह—
अपुत्रां गुर्व्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतामियात् ॥ ६८ ॥
आ गर्भसंभवाद्गच्छेदूत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥
अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवशे भर्तुः कनीयान् भ्राता
सपिण्डो वा उक्तलक्षणः सगोत्रो वा, एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त-
सर्वाङ्गः, ऋतावेव वक्ष्यमाणलक्षणे द्वयाद्गच्छेत् आ गर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन्
अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः
क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः, 'यस्या म्रियेत कन्याया
वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥' इति
( ९।६९ ) मनुस्मरणात् ॥ ६८-६९ ॥
१. क्षेत्रजः स भवेत् ।
भाषा—जिस स्त्री के (अपने पति से) पुत्र न हुआ हो उसके पास
पिता इत्यादि गुरुजनों की आज्ञा से ऋतुकाल में सभी अंगों में घृत का लेप
करके देवर, सपिण्ड या समान गोत्र का पुरुष पुत्र प्राप्ति की इच्छा से गर्भ
स्थिति के समय तक ही जाय, अन्यथा (उसके उपरान्त भी गमन करने
पर) वह पतित हो जाता है। इस विधि से उत्पन्न पुत्र क्षेत्रज कहलाता
है ॥ ६७-६९ ॥
व्यभिचारिणीं प्रत्याह—
हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ७० ॥
व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां
अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्यां पिण्डमात्रोपजीविनीं प्राणयात्रामान्रभोजनाम् ।
धिक्कारादिभिः परिभूतां; भूतलाशायिनीं स्ववेश्मन्येव वासयेत् वैराग्यजननार्थं,
न पुनः शुद्ध्यर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्' (मनु. ११।१७६)
इति पृथक्प्रायश्चित्तोपदेशात् ॥ ७० ॥
भाषा—व्यभिचारिणी स्त्री को सभी (भरणपोषण आदि) अधिकारों
से वंचित करके, (अंजन, शुभ्रवस्त्र न देकर) मलिन बनाकर, केवल जीवन
धारण योग्य भोजन देकर, तिरस्कारपूर्वक भूमि पर सुलावे ॥ ७० ॥
तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह—
सोमः शौचं १ददावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१ ॥
परिणयनात्पूर्वं सोम-गन्धर्व-वह्वयः २स्त्रीर्भुक्त्वा यथाक्रमं तासां शौचमधुर-
वचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात् स्त्रियः सर्वत्र स्पर्शािलङ्गनादिषु मेध्याः
शुद्धाः स्मृताः ॥ ७१ ॥
भाषा—सोम देवता ने (नारी को) पवित्रता दी, गन्धर्व ने मधुर
वाणी दी, अग्नि ने सब प्रकार से पवित्र होने की शक्ति दी; अतएव स्त्रियां
(सर्वत्र) पवित्र होती हैं ॥ ७१ ॥
न च तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह—
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ ७२ ॥
१. ददौ स्त्रीणां । २. स्त्रियो भुक्त्वा ।
आचाराध्यायः २६
अप्रकाशितान्मनोऽव्यभिचारात्पुरुषान्तरसंभोगसङ्कल्पाद्यदपुण्यं तस्य ऋतौ
रजोदर्शने शुद्धिः, शूद्रकृते तु गर्भे त्यागः। मनुः (९।१५५) 'ब्राह्मणक्षत्रिय-
विशां भार्याः शूद्रेण सङ्गताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः॥'
इति स्मरणात् । तथा गर्भबधे भर्तृबधे महापातके च, ब्रह्महत्यादौ आदिग्रहणा-
च्छिष्यादिगमने च त्यागः। 'चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' (वसिष्ठ. २१।१०) इति
व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्चोपभोगधर्मकार्ययोः,
न तु निष्कासनं गृहात्तस्याः । 'निरुन्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥
भाषा-ऋतुकाल होने पर व्यभिचार (अर्थात् पर पुरुषगमन) के
दोष की शुद्धि होती है; दूसरे का गर्भ रह जाने पर स्त्री के त्याग का विधान
है गर्भ की हत्या, पतिवध आदि में और (ब्रह्महत्यादि) महापातक करने पर
स्त्री का त्याग विहित है ॥ ७२ ॥
द्वितीयपरिणयने हेतूनाह-
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ ॥
सुरां पिबतीति सुरापी शूद्राऽपि । 'पतत्यर्धं शरीरस्य यस्य भार्या सुरां
पिबेत्' इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी ।
वन्ध्या निष्फला । अर्थघ्नी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः
स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारिणी । 'अधिवेत्तव्या' इति १प्रत्येकमभि-
संबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥
भाषा-सुरापान करने वाली, दीर्घ रोग से ग्रस्त, धूर्त, बांझ, धन का
नाश करने वाली, कठोर वचन बोलने वाली, पुत्रियों को ही जन्म देने वाली
और पति का अहित करने वाली पत्नी के रहते हुए भी दूसरा विवाह
कर लेना चाहिए ॥ ७३ ॥
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ ७४ ॥
किञ्च, सा अधिविन्ना पूर्ववदेव दानमानसत्कारैर्भर्तव्या। अन्यथाऽभरणे
महदपुण्यं वक्ष्यमाणो दण्डश्च । न च भरणे सति केवलमपुण्यपरिहारः । यतः यत्र
दंपत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥
१. सर्वत्र संबध्यते ।