सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 76, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 76

२० याज्ञवल्क्यस्मृतिः
पल्लभ्यते, दृश्यते चापि सारूप्यम् । देहस्त्वमेवान्यत् इत्यापस्तम्बवचनाच्च ।
यथा गर्भोपनिषदि—'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतः ।
अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वय-
प्रतिपादनात् । १निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसंताने भ्रातृपितृव्यादिषु
च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तैिस्तत्र
तन्नावगम्यमाना परित्यक्ता स्यात् । सत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते ।
तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति । एवं परम्परयैकशरीरावयवान्वयेन तु
सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा ३प्रमाणतश्च न्यूनां
उद्वहेत् परिणयेत् स्वगृह्योक्तेन विधिना ॥ ५२ ॥
भाषा—ब्रह्मचर्य से च्युत न होकर शुभ लक्षणों से युक्त स्त्री से विवाह
करे, जो पहल किसी अन्य पुरुष को प्रदत्त या किसी द्वारा भुक्त न हो सुन्दरी
हो, असपिण्ड हो तथा (आयु एवं शरीर-प्रमाण में) अपने से छोटी हो ॥ ५२ ॥
विशेषान्तरप्याह—
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
अरोगिणीं अचिकित्सनीयव्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का-
निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजां
ऋषेरिदमार्षं नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम्, आर्षं च गोत्रं च
आर्षगोत्रे, समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा
न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासे
निमित्तम् । ४तेनासमानार्षजामसमानगोत्रजामित्यर्थः५ । तथा च 'असमानप्रवरै-
र्विवाहः' (गौ. स्मृ. ४।१) इति गौतमः । तथा असपिण्डा च या मातुरसपिण्डा
च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति (३।५) मनुः ।
तथा मातुलगोत्रामप्यपरिणेयां केचिदिच्छन्ति६, 'मातुलस्य सुतामूढ्वा मातृगोत्रां
तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् ।
अत्र च 'असपिण्डाम्' इत्यनेन पितृष्वसृ-मातृष्वस्रादिदुहितृनिषेधः । तथा
'असगोत्राम्' इत्यनेनासपिण्डा या अपि भिन्नसन्तानजायाः समानगोत्राया
निषेधः । तथा 'असमानप्रवराम्' इत्यनेनाप्यसपिण्डा या असगोत्राया अपि
१. पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा । २. भ्रातृपुत्रादिषु । भ्रातृव्य-
पितृव्या । ३. प्रमाणेन च । ४. असमानगोत्रजां असमानार्षजामित्यर्थः ।
५. असगोत्रा च । ६. 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोर-
विज्ञाने व्युद्वहेदविशङ्कितः ॥' इति व्यासः । ७. त्यक्त्वा ।