याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 75, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १६
पूर्वोक्तेन प्रकारेण वेदं मन्त्रब्राह्मणात्मकम्, व्रतानि, ब्रह्मचारिधर्मानुक्रान्तान् ।
उभयं वा, पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा
स्नायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि । एतेषां च पक्षाणां शक्तिकालाद्यपेक्षया
व्यवस्था ॥ ५१ ॥
भाषा—वेद ( का अध्ययन ) या व्रतों को समाप्त कर अथवा वेदाध्ययन
एवं व्रत दोनों ही पूरा करके, गुरु को यथाशक्ति दक्षिणा देकर उनकी आज्ञा
से ( समावर्तन ) स्नान करे ॥ ५१ ॥
स्नानानन्तरं किं कुर्यादित्यत आह—
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ ५२ ॥
अविप्लुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् ।
बाह्यानि 'तनुलोमकेशदशनाम्' १ इत्यादीनि (३।१०) मनुनोक्तानि । आभ्यन्त-
राणि 'अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं
नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा
पुरुषान्तराऽपरिगृहीताम् । कान्तां कमनीयां वोढुर्मनोनयनानन्दकारिणीम् ।
'यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिः' इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधि-
काङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा
सपिण्डा, न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन
भवति । तथा हि—पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सहैकपिण्डता २ । एवं
पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्व-
येन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभि-
रप्येकशरीरावयवान्वयात् । तथा पितृव्य-पितृष्वस्त्रादिभिरपि । तथा पत्या
सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः ३
सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र 'सपिण्ड' शब्दस्तत्र तत्र साक्षात्परम्परया
वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि 'दशाहं शावमा-
शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राप्नोति । स्यादेतत् ,-यदि तत्र
'प्रत्तानामितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेषु यत्र
विशेषवचनं नास्ति तत्र 'दशाहं शावमाशौचम्' इत्येतद्वचनमवतिष्ठते । अवश्यं
चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः'
इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इति च । 'स एवायं विरूढः प्रत्यक्षेणो-
१. केशादीनि मनुप्रोक्तानि । २. सह सापिण्ड्यं । ३. एकशरीराम्भैः ।