याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 68, कुल 782 में से
संदर्भ में पढ़ें१२ याज्ञवल्क्यस्मृतिः
कृतमुपकारं न विस्मरतीति कृतज्ञः। अद्रोही दयावान् । मेधावी ग्रन्थ-
ग्रहणधारणशक्तः । शुचिर्बाह्याभ्यन्तरशौचवान् । कल्यः आधिव्याधिरहितः ।
अनसूयको दोषानाविष्करणेन गुणाविष्करणशीलः । साधुः वृत्तवान् । शक्तः
शुश्रूषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । १वित्तदोऽर्पणपूर्वकसमर्थप्रदाता ।
एते गुणाः समस्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेण
अध्याप्याः ॥ २८ ॥
भाषा—कृतज्ञ, द्रोहहीन, मेधावी, पवित्र आधिव्याधि में मुक्त, परदोषान्वेषण
से विरत, सदाचारी, ( सेवा में ) समर्थ, बन्धु, विद्याप्रद एवं धनदाता — ये ही
शास्त्र के अनुसार अध्यापन योग्य होते हैं ॥ २८ ॥
दण्डादिधारणमाह—
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं च १कार्ष्णादि, उपवीतं
कार्पासादिविनिर्मितं, मेखलां च मुञ्जादि, ब्राह्मणादिर्ब्रह्मचारी धारयेत् ॥—
भैक्षचर्याप्रकारः—
ब्राह्मणेपु चरेद् भैक्षमनिन्द्येष्वात्मवृत्तये ॥ २९ ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या२ यथाक्रमम् ॥ ३० ॥
पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेप्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तेषु
स्वकर्मनिरतेषु भैक्षं३ चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्य-
तद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । 'तदभावे तत्पुत्रादा'
इति नियमात् । अत्र च 'ब्राह्मण' ग्रहणं संभवे ४सति नियमार्थम् । यत्तु
'सार्ववर्णिकं भैक्षचरणम्' इति, तस्त्रैवर्णिक५विषयम् । यच्च 'चातुर्वर्ण्यं चरेद्वैक्षम्'
इति, तदापद्विषयम् । कथं भैक्षचर्या कार्या ? आदिमध्यावसानेषु भवच्छब्दो-
पलक्षिता 'भवति भिक्षां देहि', 'भिक्षां भवति देहि', भिक्षां देहि भवति इत्येवं
वर्णक्रमेण भैक्षचर्या कार्या ॥ २९-३० ॥
भाषा—पलाश का दण्ड, कृष्णमृगचर्म, यज्ञोपवीत और मूँज की मेखला
धारण करे । जीवन निर्वाह के लिए पवित्र ( अर्थात् अपने कर्म में रत रहने
वाले ) ब्राह्मणों के घर भिक्षायाचन करे । ब्राह्मण, क्षत्रिय और वैश्य क्रमशः
आरम्भ, मध्य और अन्त में 'भवत्' शब्द का प्रयोग करते हुए भिक्षा की
याचना करे ॥ २९-३० ॥
१. अर्पणपूर्वकं । २. कार्ष्णाजिनादि । ३. भैक्ष्य । ४. सति ।
नियमार्थं । ५. त्रैवर्णिकप्राप्त्यर्थम् ।