सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

स्निग्धपर्णमहामूलमनेकस्कन्धवाहनम् । रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ॥ १९

[अ० ४०-४१ श्लो० १९-२६-१-१४] वायुपुराणम् । १२५

( भुवनविन्यासः )
स्निग्धपर्णमहामूलमनेकस्कन्धवाहनम् । रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ॥ १९
तत्र भूतवटं नाम नानाभूतगणालयम् । महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः ॥ २०
दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम् ॥ २१
वराहगजसिंहर्क्षशार्दूलकरभाननैः । गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः ॥ २२
कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः । नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ॥ २३
दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः । अशून्यमभवन्नित्यं महापरिषदैस्तथा ॥ २४
तत्र भूतपतेर्भूता नित्यं पूजां प्रयुञ्जते । झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ॥
राणितालासितोद्गीतैर्नित्यं बलितवर्जितैः । विस्फूर्जितशतैस्तत्र पूजयित्वा गणेश्वराः ॥ २५
प्रीताः पुरारिमप्रथास्तत्र क्रीडापराः सदा ॥
सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्रपूजितः । स्थाने तस्मिन्महादेवः साक्षाल्लोकशिवः शिवः ॥ २६

इति महापुराणे वायुप्रोक्तेऽनुषङ्गपादे भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४० ॥

आदितः श्लोकानां समष्ट्यङ्काः—३०१४


अथैकचत्वारिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच—
विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम् । कैलासं देवभक्तानामालयं सुकृतात्मनाम् ॥ १
तस्य कूटतटे रम्ये मध्यमे कुन्दसंनिभे । योजनानां शतायामे पञ्चाशच्च तथाऽऽयतम् ॥ २
सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् । महाभवनमालाभिर्भूषितं नैकविस्तरम् ॥ ३
धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः । नगरं तदनाधृष्यमृद्धियुक्तं मुदा युतम् ॥ ४
तस्य मध्ये सभा रम्या नानाकनक मण्डिता । विपुला नाम विख्याता विपुलस्तम्भतोरणा ॥ ५
तत्र तत्पुष्पकं नाम नानारत्नविभूषितम् । महाविमानं रुचिरं सर्वकामगुणैर्युतम् ॥ ६
मनोजवं कामगमं हेमजालविभूषितम् । वाहनं यक्षराजस्य कुबेरस्य महात्मनः ॥ ७
तत्रैकपिङ्गलो देवो महादेवसखः स्वयम् । वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः ॥ ८
तत्राप्सरोगणैर्यक्षैर्गन्धर्वैः सिद्धचारणैः । वसति स्म महात्माऽसौ कुबेरो देवसत्तमः ॥ ९
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ । कुमुदः शङ्खनीलस्य नन्दनो निधिसत्तमः ॥ १०
अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः । महानिधानास्तिष्ठन्ति सभायां रत्नसंचयाः ॥ ११
तथेन्द्राग्निमियादीनां देवानामप्सरोगणैः । तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः ॥ १२
कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः । पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारिकाः ॥ १३
तत्र मन्दाकिनी नाम सुरम्या विपुलौदका । सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा ॥ १४

१२६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [ अ० ४१ श्लो० १५-४५ ]
(भुवनविन्यासः)

जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः । नीलवैदूर्यपत्रैश्च गन्धोपेतैर्महोत्पलैः ॥ १५
तथा कुमुदखण्डैश्च महापद्मौरलंकृता । यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ॥ १६
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । उपस्पृष्टजला रम्या वापी मन्दाकिनी शुभा ॥ १७
तथा अलकनन्दा च नन्दा च सरितां वरा । एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ॥ १८
तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः । सहस्रयोजनायामास्त्रिंशद्योजनविस्तराः ॥ १९
दश गन्धर्वनगराः समृद्ध्या परया युताः । महाभवनमालाभिरनेकाभिर्विभूषिताः ॥ २०
सुबाहुहरिकेशाद्याश्चित्रसेनजरादयः । दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ॥ २१
तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे । नानाधातुशतौघैश्चैः सिद्धदेवर्षिसेविते ॥ २२
अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम् । एकैकयक्षभवनं महाभवनमालिनम् ॥ २३
महायक्षालयान्यत्र त्रिंशादढ्यानि मे शृणु । मुदाऽथ परसद्धर्या च संयुक्तानि समन्ततः ॥ २४
महापालिसुनेत्राद्यास्तथा मणिवरादयः । उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ॥ २५
इत्येते कथिता यक्षा वाय्वग्निसमतेजसः । येषामधिपतिर्देवः श्रीमान्वैश्रवणः प्रभुः ॥ २६
तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे । निकुञ्जनिर्झरगुहानैकसानुदरीयुते ॥ २७
अर्णवादर्णवं यावत्पूर्वपश्चायतेऽचले । किंनराणां पुरशतं निविष्टं वै क्वचित्क्वचित् ॥ २८
नैकशृङ्गकलापस्य शैलराजस्य कुक्षिषु । नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम् ॥ २९
द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः । तत्र राजशतं तेषां दीप्तानां बलशालिनाम् ॥ ३०
विवाहो यत्र रुद्रस्य महादेव्योमया सह । तपस्तप्तवती चैव यत्र देवी वराङ्गना ॥ ३१
किरातरूपिणा चैव तत्र रुद्रेण क्रीडितम् । यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम् ॥ ३२
यत्र ताः संमुदा युक्ता नानाभूतगणैर्युताः । चित्रपुष्पफलोपेता रुद्रस्याऽऽक्रीडभूमयः ॥ ३३
हृष्टा गिरिदरीवासाः कृशोदर्यो मनोरमाः । सुन्दर्यो यत्र किंनर्यो रमन्ते स्म सुलोचनाः ॥ ३४
विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसां गणाः । गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः ३५
तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम् । अर्धनारीनरं रूपं धृतवान्यत्र शंकरः ॥ ३६
तथा शरवणं नाम यत्र जातः षडाननः । यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ॥ ३७
ध्वजापताकिनं चैव किङ्किणीजालमालिनम् । यत्र सिंहरथं युक्तं कार्तिकेयस्म धीमतः ॥ ३८
चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे । देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ॥ ३९
यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः । सेनापत्ये च दैत्यारिर्दीप्तार्कप्रतापवान् ॥ ४०
भूतसंवावकीर्णानि एतान्यन्यानि च द्विजाः । तत्र तत्र कुमारस्य स्थानान्रायतनानि च ॥ ४१
तथा पाण्डुशिला नाम साक्रीडा क्रौञ्चघातिनः । नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ॥ ४२
तस्य पूर्वे तटे रम्ये सिद्धवासमुदाहृतम् । कलापग्राममित्येवं नाम्नाऽऽख्यातं मनीषिभिः ॥ ४३
मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च । विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ॥ ४४
अन्येषां चायतसामृषीणां भावितात्मनाम् । हिमवत्याश्रमाणां च सहस्राणि शतानि च ॥ ४५

[अ० ४१ श्लो० ४६-७२] | वायुपुराणम् । | १२७
(भुवनविन्यासः)

नैकसिद्धगणावासं स्थानायतनमण्डितम् । यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम् ॥ ४६
नानारत्नाकरापूर्णं नानासत्त्वानिषेवितम् । नानानदीसहस्राणां संभवं वरपर्वतम् ॥ ४७
पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत् । कीर्त्यमानमशेषेण विशेषं शृणुत द्विजाः ॥ ४८
विस्तीर्णे मध्यमे कूटे हेमधातुविभूषिते । दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम् ॥
यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम् ॥ ४९
तत्र साक्षान्महादेवः पीताम्बरधरो हरिः । वरदः सेव्यते सिद्धैर्लोककर्ता सनातनः ॥ ५०
तस्यैवाभ्यन्तरे कूटे नानाधातुविभूषिते । तटे निषधकूटस्य श्लक्ष्णचारुशिलातले ॥ ५१
रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम् । अनेकवलभीकूटप्रतोलीशतसंकटम् ॥ ५२
हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम् । हर्म्यप्रासादबद्धं च मुदितं चातिविस्तरम् ॥ ५३
उद्यानमालाकालितं त्रिंशद्योजनमायतम् । दुष्प्रसह्यममित्रैस्तत्तूर्णमाशीविषोपमैः ॥ ५४
उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम् ॥ ५५
तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये । गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम् ॥ ५६
तथैव पश्चिमे कूटे पारिजातशिलोच्चये । देवदानवनागानां समृद्धानि पुराणि तु ॥ ५७
तत्र सोमशिला नाम गिरेस्तस्य महातटे । सोमो यत्रावतरति सदा पर्वसु पर्वसु ॥ ५८
उपासतेऽत्र श्रीमन्तं तारापतिमनिन्दितम् । ऋषिकिंन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम् ॥ ५९
तत्रैव चोत्तरे कूटे वलपार्श्वमिति स्मृतम् । स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि ॥ ६०
इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयंभुवम् । उपासते महात्मानं यक्षगन्धर्वदानवाः ॥
तथैवाऽऽयतनं वह्नेः सर्वलोकेषु विश्रुतम् । तत्र विग्रहवान्वह्निः सेव्यते सिद्धचारणैः ॥ ६१
तथैव चोत्तरे रम्ये त्रिशृङ्गे वरपर्वते । ऋषिसिद्धानुचरिते नानाभूतगणालये ॥
पुरं तन्त्रिषु लोकेषु हेमाचित्रं तु विश्रुतम् ॥ ६२
त्रयाणां देवमुख्यानां त्रीण्येवाऽऽयतनानि च । नारायणस्याऽऽयतनं पूर्वकूटे द्विजोत्तमाः ॥ ६३
मध्यमे ब्रह्मणः स्थानं शंकरस्य तु पश्चिमे ॥ ६४
दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । इं(ई)जाना अभिपूज्यन्ते देवदेवा महाबलाः ॥ ६५
तथा पुराणि रम्याणि देशे चैव काचित्कचित् । यक्षगन्धर्वपागानां त्रिशृंगे वरपर्वते ॥ ६६
तथैव चोत्तरे देशे जातुधौ देवपर्वते । अनेकशृङ्गकलिते सिद्धसाधुनिषेविते ॥
यक्षाणां किंनराणां च गन्धर्वाणां सहस्रशः । नागानां राक्षसानां च दैत्यानां च महाबले ॥ ६७
कूटे तु मध्यमे तस्य सिद्धसंघनिषेविते । रम्ये देवर्षिचरिते रत्नधातुविभूषिते ॥ ६८
पद्मोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा । तथा कुमुदखण्डैश्च विकचैरुपशोभते ॥ ६९
विहङ्गसंघसंघृष्टं नानासत्त्वानिषेवितम् । हंसकारण्डवाकीर्णं मत्तषट्पदसेवितम् ॥ ७०
नानासत्त्वगणाकीर्णं विहङ्गैरुपशोभितम् । चारुतीर्थसुसंबोधं त्रिंशद्योजनमण्डलम् ॥ ७१
सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम् । तत्राऽऽनन्दजलं नाम महापुण्यजलं सरः ॥ ७२