वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३ श्लो० १-८]
(प्रजापतिसृष्टिकथनम्)
प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः । शिष्यः स्वयंभुवो देवः सर्वप्रत्यक्षदृग्वशी ॥ ३८
अणिमादिभिरष्टाभिरैश्वर्यैः समन्वितः । तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्ति यः ॥ ३९
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
व्यूहांस्त्रयाणां भूतानां कुर्वंश्चैव महाबलः । तेजसश्चाप्युपध्यानं दधातीमं शरीरिणम् ॥ ४१
प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः । प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम् ॥ ४२
आकाशयोनिर्द्विगुणः शब्दस्पर्शसमन्वितः । तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः ॥ ४३
तत्राभिमानी भगवान्वायुश्चाशिक्रयात्मकः । वाताराणिः समाख्यातः शब्दशास्त्रार्थविशारदः ॥ ४४
भारत्या श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव । पुराणज्ञः सुमनसः पुराणाश्रययुक्तया ॥ ४५
इति श्रीमहापुराणे वायुप्रोक्ते द्वादशवार्षिकसत्रनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२४९
अथ तृतीयोऽध्यायः ।
प्रजापतिसृष्टिकथनम् ।
सूत उवाच—
महेश्वरायोत्तमवीर्यकर्मणे सुरर्षभायामितबुद्धितेजसे ।
सहस्रसूर्यानलवर्चसे नमस्त्रिलोकसंहाराविसृष्टये नमः ॥ १
प्रजापतीँल्लोकनमसकृतांस्तथा स्वयंभुरुद्रप्रभृतीन्महेश्वरान् ।
भृगुं मरीचिं परमेष्ठिनं मनुं रजस्तमोधर्ममथापि कश्यपम् ॥ २
वशिष्ठदक्षात्रिपुलस्त्यकर्दमान्रुचिं विवस्वन्तमथापि च क्रतुम् ।
मुनिं तथैवाङ्गिरसं प्रजापतिं प्रणम्य मूर्ध्ना पुलहं च भावतः ॥ ३
तथैव चु( च ? )क्रोधनमेकविंशतिं प्रजाविवृद्ध्याऽर्पितकार्यशासनम् ।
पुरातनानप्यपरांश्च शाश्वतांस्तथैव चान्यान्सगणानवस्थितान् ॥ ४
(*मनूंश्च सर्वानखिलानवस्थितां) स्तथैव चान्यानपि धैर्यशोभिनः ।
मुनीन्बृहस्पत्युशनःपुरोगमांस्तपःशुभाचारऋषीन्दयान्वितान् ॥ ५
प्रणम्य वक्ष्ये कलिपापनाशिनीं प्रजापतेः सृष्टिमिमामनुत्तमाम् ।
सुरेशदेवर्षिगणैरलंकृतां शुभामतुल्याममदामृषिप्रियाम् ॥ ६
प्रजापतीनामपि चोल्बणार्चिषां ( +विशुद्धवाग्बुद्धिशरीरतेजसाम् ।
तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूंतमाविष्कृतपौरुषश्रियम् ॥ ) ७
श्रुतौ स्मृतौ च प्रसुतामुदाहृतां परां पुराणामनिलप्रकीर्तिताम् ।
समासबन्धैर्नियतैर्यथातथं विशब्देनेनापि मनःप्रहर्षिणीम् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
〔अ० २ श्लो० ९-२३〕 वायुपुराणम् । ११
( प्रजापतिसृष्टिकथनम् )
यस्यां च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च ।
यतस्तमृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः ॥ ९
आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं तथैवामृतमक्षरं च ।
शुकं तपः सत्त्वमभिमकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम् ॥ १०
तमप्रमेयं पुरुषेण युक्तं स्वयंभुवा लोकपितामहेन ।
उत्पादकत्वादजसोऽतिरेकात्कालस्य योगान्नियमावधेश्च ॥ ११
क्षेत्रज्ञयुक्तानियतान्विकाराँल्लोकस्य संतानविवृद्धिहेतून् ।
प्रकृत्यवस्था सुषुवे तथाऽष्टौ संकल्पमात्रेण महेश्वरस्य ॥ १२
देवासुराद्रिद्रुमसागराणां (*गन्धर्वयक्षोरगमानुषाणाम् । )
मनुप्रजेशर्षिपितृद्विजानां पिशाचयक्षोरगराक्षसानाम् ॥ १३
तारामहार्क्षन्निशाचराणां मासर्तुसंवत्सररात्र्यहानाम् ।
दिक्कालयोगादियगायनानां वनौषधीनामपि वीरुधां च ॥ १४
जलौकसामप्सरसां पशूनां विद्युत्सरिन्मेघविहङ्गमानाम् ।
यत्सूक्ष्मगं यद्द्भुवि यद्वियत्स्थं यत्स्थावरं यत्र यदस्ति किंचित् ॥ १५
सर्वस्य तस्यास्ति गतिर्विभक्तिराब्रह्मणो यावदियं प्रसूतिः ।
छन्दांसि वेदाः सकृचो यजूंषि सामानि सोमश्च तथैव यज्ञः ॥ १६
आजीव्यमेषां यदभीप्सितं च देवस्य तस्यैव च वै प्रजानाम् ।
वैवस्वतस्यास्य मनोः पुरस्तात्संभूतिरुक्ता प्रसवश्च तेषाम् ॥ १७
येषामिदं पुण्यकृतां प्रसृत्या लोकत्रयं लोकनमस्कृतानाम् ।
सुरेशवर्षमनुप्रधानमापूरितं चोपरिभूषितं च ॥ १८
रुद्रस्य शापात्पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके ।
वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चाप्यत्र मनुष्यलोके ॥ १९
मन्वन्तराणां परिवर्तनानि युगेषु संभूतिविकल्पनं च ।
ऋषित्वमार्षस्य च संभवृद्धिर्यथा युगादिष्वपि चेत्तदत्र ॥ २०
ये द्वापरेषु प्रथयन्ति वेदान्व्यासाश्च तेऽत्र क्रमशो निबद्धाः ।
कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या ॥ २१
÷अण्डोद्भिज्जस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा ।
ये यातनास्थानगताश्च जीवास्तत्केण तेषामपि च प्रमाणम् ॥ २२
आत्यन्तिकः प्राकृतिकाश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः ।
बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च ॥ २३
* धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके । ÷ 'अण्डोड्डिज' इत्यार्षः प्रयोगः ।