वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
(विष्णुमाहात्म्यकथनम्)
३५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० १७-श्लो० ३३-५६]
(विष्णुमाहात्म्यकथनम्)
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः । त्रैकाल्यं त्रीणि कर्माणि तिस्रो मायास्त्रयो गुणाः ॥
सृष्टा लोकाः सुराश्चैव येनाऽऽनन्त्येन कर्मणा । सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ ३४
नृणामिन्द्रियपूर्वेण योगेन रमते च यः । गतागतानां यो नेता सर्वत्र विविधेध्वरः ॥ ३५
यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३६
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ ३७
चन्द्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदाचरः । यः परः श्रूयते देवो यः परं श्रूयते तपः ॥ ३८
यः परं तपसः प्राहुर्यः परंपरमात्मवान् । आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ ३९
युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४०
वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ ४१
मनुष्याणां मनोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ ४२
विग्रहो विग्रहाणां यो गतिर्गतिमदामपि । आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ ४३
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः । रसाच्छोणितसंभूतिः शोणितान्मांसमुच्यते ॥ ४४
मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते । अस्थ्नो मज्जा संभवन्मज्जातः शुक्रसंभवः ॥ ४५
शुक्राद्गर्भः संभवद्वसमूलेन कर्मणा । * तथापि प्रथमं चाऽऽपस्ताः सौम्यराशिरुच्यते ॥ ४६
÷गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्लं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ ४७
भावौ रसानुगावेतौ वीर्ये च शशिपावकौ । कफवर्गेऽभवच्छुक्लं पित्तवर्गे च शोणितम् ॥ ४८
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ४९
नाभीकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ ५०
पित्तमग्निः स्मृतावेतावग्निशोमात्मकं जगत् । एवं प्रवर्तितो गर्भो वर्ततेऽम्बुदसंनिभः ॥ ५१
वायुः प्रवेशं चक्रे सङ्गतः परमात्मना । स पञ्चधा शरीरस्थो विद्यते वर्धयेत्पुनः ॥ ५२
प्राणापानौ समानश्च उदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्धयन्परिवर्तते ॥ ५३
अपानः पश्चिमं कायमुदानोर्ध्वशरीरगः । व्यानो व्यानस्यते येन समानः सर्वसंधिषु ॥ ५४
भूतावाप्तस्ततस्तस्य जायते×न्द्रियगोचरा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ५५
सर्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे । पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥ ५६
* एतदर्धस्थाने तत्रापां प्रथमा चापः स सौम्यो राशिरुच्यत इति व. पुस्तके । ख. ग. ङ. पुस्तकेष्वेवैतत्सद्दश एव पाठा वर्तन्ते तेऽस्पष्टा इति नोल्लिखिताः । ÷अत्र संधिरार्षः । ×अत्र संधिरार्षः ।
[अ० ९७श्लो० ५७-७८] वायुपुराणम् । ३५९
(विष्णुमहात्म्यकथनम्)
छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुषित। ज्योत्स्ना तेषां यन्नामतः स्मृतम् ॥
सङ्ग्रामा विषयाश्चैव यस्य वीर्यात्प्रवर्त्तिताः* ॥ ५७
इत्येतान्पुरुषः सर्वान्सृजल्लोकान्सनातनः । नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ॥ ५८
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमत्तामापन्नो मानुषीं तनुम् ॥ ५९
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् । आश्चर्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥ ६०
विष्णोरुत्पत्तिमार्श्चर्यं कथयस्व महामते । एतदाश्चर्यमाख्यानं कथ्यतां वै सुखावहम् ॥ ६१
प्रख्यातबलवीर्यस्य प्रादुर्भावा महात्मनः । कर्मणाऽऽश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥ ६२
सूत उवाच--
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः । यथा स भगवाञ्जातो मानुषेषु महातपाः ॥ ६३
सप्तसप्ततयः प्रोक्ता भृगुशापेन मानुषे । जायते च युगान्तेषु देवकार्यार्थसिद्धये ॥ ६४
तस्य दिव्यतनुं विष्णोर्गदता मे निबोधत । युगधर्मे परावृत्ते काले च शिथिले प्रभुः ॥ ६५
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ ६६
ऋषय ऊचुः--
कथं देवासुरकृते अध्याहारमवाप्नुयात् । एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम् ॥ ६७
सूत उवाच--
देवासुरं यथा वृत्तं ब्रुवतस्तन्निबोधत । हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति ॥ ६८
बलिनाऽधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् । सख्यमासीत्परं तेषां देवानामसुरैः सह ॥ ६९
युगं वै दशसंकीर्णमासीद्व्याहतं जगत् । निदेशस्थायिनश्चैव तयोर्देवासुरा+ऽभवन् ॥ ७०
बलवान्वै विवादोऽयं संप्रवृत्तः सुदारुणः । देवासुराणां च तदा घोरक्षयकरो महान् ॥ ७१
तेषां दायनिमित्तं वै सङ्ग्रामा बहवोऽभवन् । वराहेऽस्थिन्द्वश द्वौ च षण्डामर्कीन्तगाः स्मृताः ॥ ७२
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ७३
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः । सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥ ७४
षष्ठो ह्याडीवकस्तेषां सप्तमस्त्रैपुरः स्मृतः । अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥ ७५
वार्तश्च दशमो ज्ञेयस्ततो हालाहलः स्मृतः । स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥ ७६
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदतः । वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणं कृते ॥ ७७
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादिं तु दैवतैः । महाबलो महासत्त्वः सङ्ग्रामेष्वपराजितः ॥ ७८
* अत्र स्थल ऋषय ऊचुरित्याधिकं ख. पुस्तके । + अत्र संधिरार्षः ।
३६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७श्लो०७९-१००]
( विष्णुमहात्म्यकथनम् )
दंष्ट्रायां तु वराहेण समुद्राद्धैर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥ ७९
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः । इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥ ८०
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः । सङ्ग्रामे निहतः षष्ठे शक्राविष्टेन विष्णुना ॥ ८१
अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् । निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥ ८२
अष्टमे त्वसुराश्चैव राक्षसाश्चान्धकारकाः । जितदेवमनुष्यैस्तु पितृभिश्चैव संगतान् ॥ ८३
संवृतान्दानवांश्चैव संगतान्कृत्स्नशश्च तान् । तथा विष्णुसहायेन महेन्द्रेण निवारिताः ॥ ८४
हतो ध्वजो महेन्द्रेण मायाछन्नश्च योधयन् । ध्वजे लक्ष्यं समाविश्य विप्रचित्तिर्महाभुजः ॥ ८५
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान् । राज्ञिः कोलाहले सर्वान्देवैः परिवृतोऽजयत् ॥
यज्ञामृतेन विजितौ षण्डामर्को तु दैवतैः ॥ ८६
एते देवाः पुरा वृत्ताः सङ्ग्रामा द्वादशैव तु । देवासुरक्षयकराः प्रजानामशिवाय च ॥ ८७
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ । तथा शतसहस्राणि ह्यधिकानि द्विसप्ततिः ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ ८८
पर्याये तस्य राज्ञोऽनु बलिर्वर्षार्बुदं पुनः । षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च ॥ ८९
बले राज्याधिकारस्तु यावत्कालं बभूव ह । प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदाऽसुरैः ॥ ९०
इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ ९१
असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा । त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥ ९२
प्रह्लादस्य ततश्चादात्तैलोक्यं कालपर्ययात् । पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥ ९३
ततोऽसुरान्परित्यज्य यज्ञे देवा उपागमन् । यज्ञे देवानथं गते काव्यं ते ह्यसुराब्रुवन् ॥ ९४
हतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः । स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥ ९५
एवमुक्तोऽब्रवीदेतान्विष्णोः सांत्वयन्निगिरा । मा भैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥ ९६
वृष्टिरोषधयश्चैव रसा वसु च यद्द्द्यम् । कृत्स्ना मयि च तिष्ठन्तु पादस्तैषां सुरेषु वै ॥
युष्मदर्थं प्रदास्याम तत्सर्वं धार्यते मया ॥ ९७
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता । अमन्त्रयंस्तदा ते वै संविग्ना विजिगिषया ॥ ९८
एष काव्य इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं क्षीणानाप्याययस्व तान् ॥
प्रसह्य हत्वा शिष्टान्वै पातालं प्रापयामहे ॥ ९९
ततो देवाः सुसंरब्धा दानवानाभिसृत्य वै । जघ्नुस्तैर्बध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ १००