सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

प्रथमोऽध्यायः ।

ॐ तत्सद्ब्रह्मणे नमः ।

श्रीमद्वैपायनमुनिप्रणीतम्

वायुपुराणम् ।


तत्र प्रक्रियापादे

प्रथमोऽध्यायः ।

अनुक्रमणिका ।

* नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्याऽऽस्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २
प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् । महादेवं महात्मानं सर्वस्य जगतः पतिम् ॥ ३
ब्रह्माणं लोकर्तारं सर्वज्ञमपराजितम् । प्रभुं भूतभविष्यस्य सांप्रतस्य च सत्पतिम् ॥ ४
ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ ५
य इमान्पश्यते भावान्नित्यं सदसदात्मकान् । आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम् ॥ ६
लोकअलोकतत्त्वज्ञो योगमास्थाय तत्त्ववित् । असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम् । पुराणाख्यानाजिज्ञासुर्व्रजामि शरणं प्रभुम् ॥ ८
ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्य समाहितः । ऋषीणां च वरिष्ठाय वासिष्ठाय महात्मने ॥ ९
तन्नप्त्रे चातियशसे जातूकर्णा( र्ण्या )य चर्षये । वसिष्ठायैव शुचये कृष्णद्वैपायनाय च ॥ १०
पुराणं संप्रवक्ष्यामि ब्रह्मलोकं वेदसंमितम् । धर्मार्थन्यायसंयुक्तैरागमैः सुविभूषितम् ॥ ११
असीमकृष्णे विक्रान्ते राजन्येऽनुपमत्विषि । प्रशासतीमां धर्मेण भूमिं भूमिसत्तमे ॥ १२
ऋषयः संशितात्मानः सत्यव्रतपरायणाः । ऋजवो नष्टरजसः शान्ता दान्ता जितेन्द्रियाः ॥ १३
धर्मक्षेत्रे कुरुक्षेत्रे दीर्घसत्रं तु ईजिरे । नद्यास्ती दृषद्वत्याः पुण्यायाः शुचिरोधसः ॥ १४
दीक्षितास्ते यथाशास्त्रं नैमिष्यारण्यगोचराः । द्रष्टुं तान्स महाबुद्धिः सूतः पौराणिकोत्तमः ॥ १५
लोमानि हर्षयांचक्रे श्रोतॄणां यत्सुभाषितैः । कर्मणा प्रथितस्तेन लोकेऽस्मिंल्लोमहर्षणः ॥ १६
तपःश्रुताचारनिधेर्वेदव्यासस्य धीमतः । शिष्यो बभूव मेधावी त्रिषु लोकेषु विश्रुतः ॥ १७


* एतच्छ्लोकद्वयं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।

२ श्रीमद्वैपायनमुनिप्रणीतम्- [ अ ० १ श्लो ० १८-४६]
( अनुक्रमणिका )

पुराणवेदो ह्यखिलस्तस्मिन्सम्पक्प्रतिष्ठितः । ( * भारती चैव विपुला महाभारतवर्धिनी ॥ १८
धर्मार्थकाममोक्षार्थाः कथा यस्मिन्प्रतिष्ठिताः । ) सूक्ताः सुपरिभाषाश्च भूमावोषधयो यथा ॥ १९
स तान्नयायेन सुधियो न्यायविन्मुनिपुंगवान् । अभिगम्योपसंसृत्य नमस्कृत्य कृताञ्जलिः ॥ २०
तोषमायास्स मेधावी प्रणिपातेन तानृषीन् । ते चापि सत्रिणः प्रीताः ससदस्या महौजसः ॥ २१
तस्मै साम च पूजां च यथावत्प्रतिपेदिरे । अथ तेषां पुराणस्य शुश्रूषा समपद्यत ॥ २२
दृष्ट्वा तमतिविश्वस्तं विद्वांसं लोमहर्षणम् । तस्मिन्सत्रे गृहपतिः सर्वशास्त्रविशारदः ॥ २३
इङ्गितेर्भावमालक्ष्य तेषां सूतमचोदयत् । त्वया सूत महाबुद्धिर्भगवान्ब्रह्मवित्तमः ॥ २४
इतिहासपुराणार्थं व्यासः सम्यगुपासितः । दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम् ॥ २५
एषां च ऋषिमुख्यानां ( णां ) पुराणं प्रति धीमताम् । शुश्रूषाऽस्ति महाबुद्धे तच्छ्रावयितुमर्हसि ॥ २६
सर्वे हीमे महात्मानो नानागोत्राः समागताः । स्वान्स्वान्वंशान्पुराणैस्तु शृणुयुर्ब्रह्मवादिनः ॥ २७
सपुत्रान्दीर्घसत्रेऽस्मिञ्श्रावयेथा मुनीनथ । दीक्षिष्यमाणैरस्माभिस्तेन प्रागासि संस्मृतः ॥ २८
इति संनोदितः सूतः प्रत्युवाच शुभां गिराम् । श्लक्ष्णां च न्यायसंयुक्तां यां ब्रूयाल्लोमहर्षणः ॥ २९

सूत उवाच--

पूतोऽस्म्यनुगृहीतश्च भवद्भिर्ह्यभिनोदितः । पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः ॥ ३०
स्वधर्म एष सूतस्य सन्दिष्टष्टः पुरातनैः । देवतानामृषीणां च राज्ञां चामिततेजसाम् ॥ ३१
वंशानां धारणं कार्यं श्रुतानां च महात्मनाम् । इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः ॥ ३२
न हि वेदेष्वधिकारः कश्चित्सूतस्य दृश्यते । वैन्यस्य हि पृथोर्यज्ञे वर्तमाने महात्मनः ॥ ३३
सुत्यायामभवत्सूतः प्रथमं वर्णवैकृतः । ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः ॥ ३४
जुहावेन्द्राय देवाय ततः सूतो व्यजायत । प्रमादात्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु ॥ ३५
शिष्यहस्त्येन यत्पृक्तमभिभूतं गुरोर्हविः । अधरोत्तरचारेण ( ÷ जज्ञे तद्वर्णवैकृतः ॥ ३६
यच्च क्षत्रात्समवद्व्रह्मण्यवरयोनितः । ततः पूर्वेण साधर्म्यात्तुल्यधर्मा प्रकीर्तितः ॥ ३७
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥ ३८
तत्स्वधर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः । कस्मात्सम्ब्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ३९
पितॄणां मानसी कन्या वासवी समपद्यत । अपध्याता च पितृभिर्मत्स्ययोनौ बभूव सा ॥ ४०
अरणीव हुताशस्य निमित्तं यस्य जन्मनः । तस्यां जातो महायोगी व्यासो वेदविदां वरः ॥ ४१
तस्मै भगवते कृत्वा नमो व्यासाय वेधसे । पुरुषाय पुराणाय भृगुवाक्यप्रवर्तिने ॥ ४२
मानुषच्छद्मरूपाय विष्णवे प्रभविष्णवे । जातमात्रं च यं वेद उपतस्थे ससंग्रहः ॥ ४३
धर्ममेव पुरस्कृत्य जातूकण्यादवाप तम् । मतिं मन्थानमाविध्य येनासौ श्रुतिसागरात् ॥ ४४
प्रकाशं जनितो लोके महाभारतचन्द्रमाः । वेदद्रुमश्च यं प्राप्य सशाखः समपद्यत ॥ ४५
भूमिकालगुणान्प्राप्य बहुशाखो यथा द्रुमः । तस्मादहमुपश्रुत्य पुराणं ब्रह्मवादिनः ॥ ४६


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

[अ० १ श्लो० ४७-७४] वायुपुराणम् । ३

( अनुक्रमणिका )

सर्वज्ञात्सर्ववेदेषु पूजिताद्दीपितेजसः । पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥ ४७
पृष्टेन मुनिभिः पूर्वे नैमिषीयैर्महात्मभिः । महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः ॥ ४८
अचिन्त्यश्चाप्रमेयश्च स्वयंभूर्हेतुरीश्वरः । अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम् ॥ ४९
महदादिविशेषान्तं सृजतीति विनिश्चयः । अण्डं हिरण्मयं चैव बभूवापातिभं ततः ५०
अण्डस्याऽऽवरणं चाद्भिरपामपि च तेजसा । वायुना तत्स नभसा नभो भूतादिनाऽऽवृतम् ५१
भूतादिर्महता चैव ) अव्यक्तेनाऽऽवृतो महान् । अतोऽत्र विश्वेदेवानाम्ऋषीणां चोपवर्णितम् ॥ ५२
नदीनां पर्वतानां च प्रादुर्भावोऽत्र शस्यते । मन्वन्तराणां सर्वेषां कल्पानां चोपवर्णनम् ॥ ५३
कीर्तनं ब्रह्मक्षत्रस्य ब्रह्मजन्म च कीर्त्यते । अतो ब्रह्माणि सृष्ट्वैवं प्रजासर्गोपवर्णनम् ॥ ५४
अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वत्सरं चैव जगतः स्थापनं तथा ॥ ५५
शयनं च हरेरत्र पृथिव्युद्धरणं तथा । संनिवेशः पुरादीनां वर्णाश्रमविभागशः ॥ ५६
वृक्षाणां गृहसंस्थानां सिद्धीनां च विनाशनम् । योजनानां पथां चैव संचरं बहुविस्तरम् ॥ ५७
स्वर्गे स्थानविभागं च मर्त्यानां शुभचारिणाम् । वृक्षाणामोषधीनां च वीरुधां च प्रकीर्तनम् ॥ ५८
वृक्षनारकिकीटत्वं मर्त्यानां परिकीर्तनम् । *देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥ ५९
अन्नादीनां तनूनां च सृजनं त्यजनं तथा । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ६०
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ६१
पशूनां पुरुषाणां च संभवः परिकीर्तितः । तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ॥ ६२
नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः । त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत् ६३
ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः । य द्वादशः प्रसूयन्ते प्रजाकल्पे पुनः पुनः ॥ ६४
कल्पयोरन्तरं प्रोक्तं प्रतिसंधिश्च यस्तयोः । तमोमात्रामृतत्वाच्च ब्रह्मणोऽधर्मसंभवः ॥ ६५
तथैव शतरूपायाः संभवश्च ततः परम् । प्रियव्रतोत्तानपादौ प्रसूत्याकृतयश्च ताः ॥ ६६
कीर्त्यन्ते धुतपाप्मानो येषु लोकाः प्रतिष्ठिताः । रुचेः प्रजापतेश्चोर्ध्वमाकृत्यां मिथुनोद्भवः ॥ ६७
प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः । दाक्षायणीषु चाप्यूर्ध्वं श्रद्धाद्यासु महात्मनाम् ॥ ६८
धर्मस्य कीर्त्यते सर्गः सात्विकस्य सुखोदयः । तथाऽधर्मस्य हिंसायां तामसोऽशुभलक्षणः ॥ ६९
महेश्वरस्य सत्यां च प्रजासर्गः प्रकीर्तितः । निरामयं च ब्रह्माणं तादृशं कीर्तितं पुनः ॥ ७०
योगं योगनिधिः प्राह द्विजानां मुक्तिकाङ्क्षिणाम् । अवतारश्च रुद्रस्य महाभाग्यं तथैव च ॥ ७१
त्रैवेदिका कथा चापि संवादः परमो महान् । ब्रह्मनारायणाभ्यां च यत्र स्तोत्रं प्रकीर्तितम् ॥ ७२
स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान्शिवः । प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः ॥ ७३
कीर्त्यते नामहेतुश्च यथाऽरोदीन्महामनाः । रुद्रादीनि यथा सृष्टौ नामान्याप्नोत्स्वयंभुवः ॥ ७४


* इदमर्धं नास्ति घ. पुस्तके ।

४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १श्लो० ७५–१०४]
( अनुक्रमणिका )

यथा च तैर्व्याप्तमिदं त्रैलोक्यं सचराचरम् । भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ॥ ७५
*वाशिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्तनम् । अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्तिता ॥
पितॄणां द्विपकाराणां स्वधायास्तदनन्तरम् । पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात् ॥ ७७
दक्षस्य शापः सत्यर्थे भृग्वादीनां च धीमताम् । प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः ॥ ७८
प्रतिषेधश्च वैरस्य कीर्त्यते (+दोषदर्शनात् । मन्वन्तरप्रङ्गेन कालज्ञानं च कीर्त्यते ॥ ७९
प्रजापतेः कर्दमस्य कन्या या शुभलक्षणा । प्रियव्रतस्य पुत्राणां कीर्त्यते ) यत्र विस्तरः ॥ ८०
तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् । स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्तनम् ॥ ८१
उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः । द्वीपानां ससमुद्राणां पर्वतानां च कीर्तनम् ॥ ८२
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः । द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु ॥ ८३
विस्तरान्मण्डलांश्चैव जम्बुद्वीपसमुद्रयोः । प्रमाणं योजनाग्रेण कीर्त्यते पर्वतैः सह ॥ ८४
हिमवान्हेमकूटस्तु निषधो मेरुरेव च । नीलः श्वेतः शृङ्गवांश्च कीर्त्यन्ते वर्षपर्वताः ॥ ८५
तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः । कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ॥ ८६
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा । भूतैश्चोपनिविष्टानि गतिमन्द्धिर्ध्रुवैस्तथा ॥ ८७
जम्बुद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः । ततश्चाप्यमयी भूमिलोंकालोकश्च कीर्त्यते ॥ ८८
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूरादयश्च कीर्त्यन्ते वरणैः प्राकृतैः सह ॥ ८९
सर्वं च तत्प्रधानस्य परिमाणैकदेशिकम् । सव्यासपरिमाणं च संक्षेपेणैव कीर्त्यते ॥ ९०
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः । प्रमाणं योजनाग्रेण सांप्रतैराभिमानिभिः ॥ ९१
महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्धनि । अत ऊर्ध्वं गतिश्वोक्ता स्वर्गस्यालातचक्रवत् ॥ ९२
नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्यते । काष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ॥ ९३
लोकालोकस्य संध्याया अह्नो विषुवतस्तथा । लोकपालाः स्थिताश्चोर्ध्वं कीर्त्यन्ते ये चतुर्दिशम् ॥
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ । गृहिणां न्यासिनां चोक्तौ रजःसत्त्वसमाश्रयात् ॥ ९५
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः । सूर्यचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ॥ ९६
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम् । ब्रह्मणा निर्मितः सौरः स्यन्दनोऽश्वंवास्तात्स्वयम्
कीर्त्यते भगवान्येन प्रसर्पति दिवि स्वयम् । स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा ॥ ९८
( +गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः । अपां सारमयश्चन्दोः कीर्त्यते च रथस्तथा ) ॥ ९९
वृद्धिक्षयौ च सोमस्य कीर्त्येते सूर्यकरितौ । सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्तनम् ॥ १००
कीर्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः । तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ॥ १०१
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकारिणाम् । सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः ॥ १०२
प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः । परिणामगतौ चोक्तं ग्रहाणां सूर्यसंश्रयात् ॥ १०३
यथा चाऽऽशु विषात्मासा शंभोः कण्ठस्य नीलता । ब्रह्मप्रसादितस्याऽऽशु विषादः शूलपाणिनः


* इदधमं नास्ति घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।