सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

त्रैलोक्ये सर्वभूतानां सुखदुःखै प्रवर्तते । ईशो भवति सर्वत्र प्रविभागेन योगवित् ॥ १५

४४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १४ श्लो० १-७]
(पाशुपतयोगनिरूपणम्)

लम्बनं प्लवनं योगे रूपमस्य सदा भवेत् । शीघ्रगं सर्वभूतेषु द्वितीयं तत्पदं स्मृतम् ॥ १२
त्रैलोक्ये सर्वभूतानां प्राप्तिः प्राकाम्यमेव च । महिमा चापि यो यस्मिंस्तृतीयो योग उच्यते ॥ १३
त्रैलोक्ये सर्वभूतेषु त्रैलोक्यमगमं स्मृतम् । प्रकामान्विषयान्भुङ्क्ते न च प्रतिहतः क्वचित् ॥ १४
त्रैलोक्ये सर्वभूतानां सुखदुःखै प्रवर्तते । ईशो भवति सर्वत्र प्रविभागेन योगवित् ॥ १५
वश्यानि चैव भूतानि त्रैलोक्ये सचराचरे । भवन्ति सर्वकार्येषु इच्छतो न भवन्ति च ॥ १६
*यत्र कामावसायित्वं त्रैलोक्ये सचराचरे । इच्छया चेन्द्रियाणि स्युर्भवन्ति न भवन्ति च ॥ १७
शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस्तथा । प्रवर्ततेऽस्य चेच्छातो न भवन्ति तथेच्छया ॥ १८
न जायते न म्रियते भिद्यते न च छिद्यते । न दह्यते न मुह्येत हीयते न च लिप्यते ॥ १९
न क्षीयते न क्षरति न खिद्यति कदाचन । क्रियते चैव सर्वत्र तथा विक्रियते न च ॥ २०
अगन्धरसरूपस्तु स्पर्शशब्दविवर्जितः । अवर्णो ह्रस्वरश्चैव तथा वर्णस्य कार्हीचित् ॥ २१
भुङ्क्तेऽथ विषयांश्र्चैव विषयैर्न च युज्यते । ज्ञात्वा तु परमं सूक्ष्मं सूक्ष्मत्वाच्चापवर्गकः ॥ २२
व्यापकस्त्वपवर्गाच्च व्याप्तित्वात्पुरुषः स्मृतः । पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परतः स्थितः ॥ २३
गुणान्तरं तु ऐश्वर्ये सर्वतः सूक्ष्म उच्यते । ऐश्वर्यमप्रतीघाति प्राप्य योगमनुत्तमम् ॥
अपवर्गं ततो गच्छेत्सुसूक्ष्मं परमं पदम् ॥ २४

इति महापुराणे वायुप्रोक्ते योगैश्वर्यनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-११३३

अथ चतुर्दशोऽध्यायः ।
पाशुपतयोगनिरूपणम् ।

वायुरुवाच--
न चैवमागतो ज्ञानादागात्कर्म समाचरेत् । राजसं तामसं वाऽपि भुक्त्वा तत्रैव युज्यते ॥ १
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते । तस्मात्स्थानात्पुनर्भ्रष्टो मानुष्यमनुपद्यते ॥ २
तस्माद्ब्रह्म परं सूक्ष्मं ब्रह्म शाश्वतमुच्यते । ब्रह्म एव हि सेवेत ब्रह्मैव परमं सुखम् ॥ ३
परिश्रमस्तु यज्ञानां महताऽर्थेन वर्तते । भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् ॥ ४
अथ वै ध्यानसंयुक्त ब्रह्मयज्ञपरायणः । न च स्याद्व्यापितुं शक्यो मन्वन्तरशतैरपि ॥ ५
दृष्ट्वा तु पुरुषं दिव्यं विश्वारुख्यं विश्वरूपिणम् । विश्वपादाशिरोग्रीवं विश्वेशं विश्वभावनम् ॥
विश्वगन्धं विश्वमाल्यं विश्वाम्बरधरं प्रभुम् ॥ ६
गोभिर्महीं संयतते पतत्रिणं महात्मानं परममतिं वरेण्यम् ।
कविं पुराणमनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम् ॥ ७


* न दृश्यतेऽयं श्लोकः ख. घ. पुस्तकयोः।

[अ० १४ श्लो० ८-३२] वायुपुराणम् ४५
( पाशुपतयोगनिरूपणम् )

योगेन पश्यन्ति न चक्षुषा तं निरिन्द्रियं पुरुषं रुक्मवर्णम् ।
अलिङ्गिनं पुरुषं रुक्मवर्णं सलिङ्गिनं निर्गुणं चेतनं च ॥ ८
नित्यं सदा सर्वगतं तु शौचं पश्यन्ति युक्त्या ह्यचलं प्रकाशम् ।
तद्भावितस्तेजसा दीप्यमानः अ( नो ह्य )पाणिपादोदरपार्श्वजिह्वः ॥ ९
अतीन्द्रियोऽद्यापि सुसूक्ष्म एकः पश्यत्यचक्षुः स शृणोत्यकर्णः ।
नास्यास्त्यबुद्धं न च बुद्धिरस्ति स वेद सर्वं न च वेदवेद्यः ॥ १०
तमाहुरग्र्यं पुरुषं महान्तं सचेतनं सर्वगतं सुसूक्ष्मम् ॥ ११

तमाहुर्मुनयः सर्वे लोके प्रसवधर्मिणीम् । प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति चेतसा ॥ १२
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३
युक्ता योगेन चेशानं सर्वतश्च सनातनम् । पुरुषं सर्वभूतानां तस्माद्ध्याता न मुह्यति ॥ १४
( +भूतात्मानं महात्मानं परमात्मानमव्ययम् । सर्वात्मानं परं ब्रह्म तद्वै ध्यात्वा न मुह्यति ) ॥ १५
पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु । पुरि शेते तथाऽङ्गे च तस्मात्पुरुष उच्यते ॥ १६
अथ चेल्लुप्तधर्मात्तु सविशेषैश्च कर्मभिः । ततस्तु ब्रह्म योन्यां वै शुक्रशोणितसंयुतम् ॥ १७
स्त्रीपुमांस(पुंसयोः)प्रयोगेण जायते हि पुनः पुनः । ततस्तु गर्भकाले तु कललं नाम जायते ॥ १८
कालेन कलनं(लं) चापि बुद्बुदश्च प्रजायते । मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः ॥ १९
हस्ताभ्यां क्रियमाणस्तु विश्वत्वमुपगच्छति । एवमात्मास्थिसंयुक्तो वायुना समुदीरितः ॥ २०
जायते मानुषस्तत्र यथा रूपं तथा मनः । वायुः संभवते तेषां वातात्संजायते जलम् ॥ २१
जलात्संभवति प्राणः प्राणाच्छुक्रं विवर्धते । रक्तभागास्त्रयस्त्रिंशच्छुक्रभागाश्चतुर्दश ॥ २२
भागतोऽर्धपलं कृत्वा ततो गर्भे निषिच्यते । ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः ॥ २३
पितुः शरीरात्प्रत्यङ्गं रूपमस्योपजायते । ततोऽस्य मातुराहारात्पीतलीढं प्रवेशितम् ॥ २४
नाभिः स्रोतःप्रवेशेन प्राणाधारो हि देहिनाम् । नव मासान्परिक्लिष्टः संवेष्टितशिरोधरः ॥ २५
वेष्टितः सर्वगात्रैश्च अपर्यायक्रमागतः । नवमासोषितश्चैव योनिच्छिद्रादवाङ्मुखः ॥ २६
ततस्तु कर्मभिः पापैर्निरयं प्रतिपद्यते । असिपत्रवनं चैव शाल्मलीच्छेदभेदयोः ॥ २७
तत्र निर्भर्त्सनं चैव तथा शोणितभोजनम् । एतास्तु यातना घोराः कुम्भीपाकसुदुःसहाः ॥ २८
यथा ह्यापस्तु विच्छिन्नाः स्वरूपमुपयान्ति वै । तस्माच्छिन्नाश्च भिन्नाश्च यातनास्थानमागताः ॥
एवं जीवस्तु तैः पापैस्तप्यमानः स्वयंकृतैः । प्राप्नुयात्कर्मभिः शेषं दुःखं वा यदि चेतरम्(त्) ॥ ३०
एकेनैव तु गन्तव्यं सर्वमृत्युनिवेशनम् । एकेनैव च भोक्तव्यं तस्मात्सुकृतमाचरेत् ॥ ३१
न ह्येनं प्रस्थितं कश्चिद्गच्छन्तमनुगच्छति । वदनेन कृतं कर्म तदेनमनुगच्छति ॥ ३२


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
४६श्रीमद्वैपायनमुनिप्रणीतम्-[अ १५ श्लो ० १-१२]
(पाशुपतयोगनिरूपणम्)

ते नित्यं यमविषये विभिन्नदेहाः क्रोशन्तः सततमनिष्टसंप्रयोगैः।
शुष्यन्ते परिगतवेदना शरीरा बह्वीभिः सुभृशमधर्मयातनाभिः॥ ३३
कर्मणा मनसा वाचा यद्भक्षिणं निषेव्यते। तत्प्रसह्य हरेत्पापं तस्मात्सुकृतमाचरेत्॥ ३४
यादृग्जातानि पापानि पूर्वं कर्माणि देहिनः। संसारं तामसं तादृक्षड्विधं प्रतिपद्यते॥ ३५
मानुष्यं पशुभावं च पशुभावान्मृगो भवेत्। मृगत्वात्पक्षिभावं तु तस्माच्चैव सरीसृपः॥ ३६
सरीसृप्त्वाद्गच्छेद्धि स्थावरत्वं न संशयः। स्थावरत्वं पुनः प्राप्तो यावदग्निपते नरः॥ ३७
कुलालचक्रवद्भ्रान्तस्तत्रैव परिकीर्तितः। इत्येवं हि मनुष्यादिः संसारे स्थावरान्तिके॥ ३८
विज्ञेयस्तामसो नाम तत्रैव परिवर्तते। सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः॥ ३९
पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम्। ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः॥ ४०
चतुर्दशानां स्थानानां मध्ये विष्टम्भकं रजः। मर्मसु छिद्यमानेषु वेदनार्तस्य देहिनः॥ ४१
ततस्तु परमं ब्रह्म कथं विप्रः स्मरिष्यति। संस्कारात्पूर्वधर्मस्य भावनायां मनो(णो)दितः॥
मानुष्यं भजते नित्यं तस्मान्नित्यं समाधेत्॥ ४२

इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगनिरूपणं नाम चतुर्दशोऽध्यायः॥ १४॥
आदितः श्लोकानां समष्ट्यङ्काः—११७५


अथ पञ्चदशोऽध्यायः।

पाशुपतयोगनिरूपणम्।

वायुरुवाच—
चतुर्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम्। तथा समारभेत्कर्म संसारभयपीडितः॥ १
ततः स्मरति संसारं चक्रेण परिवर्तितः। तस्मात्तु सततं मुक्तो ध्यानतत्परयुञ्जकः॥ २
तथा समारभेद्योगं यथाऽऽत्मानं स पश्यति। एष आद्यः परं ज्योतिरेष सेतुरुत्तमः॥ ३
विवृद्धो ह्येष भूतानां न संभेदश्च शाश्वतः। तदेनं सेतुमात्मानमग्निं वै विश्वतोमुखम्॥ ४
हृदिस्थं सर्वभूतानामुपासीत विधानवित्। हुत्वाऽष्टावाहुतीः सम्यक्शुचिस्तद्गतमानसः॥ ५
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः। अपः पूर्वं सकृत्प्राश्य तूष्णीं भूत्वा उपासते॥ ६
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता। अपानाय द्वितीया तु समानायेति चापरा॥ ७
उदानाय चतुर्थीति व्यानायेति च पञ्चमी। स्वाहाकारैः परं हुत्वा शेषं भुञ्जीत कामतः॥ ८
अपः पुनः सकृत्प्राश्य त्वाचम्य हृदयं स्पृशेत्। ॐ प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः
स रुद्रो ह्यात्मनः प्राणा एवमाप्याययेत्स्वयम्। त्वं देवानामपि ज्येष्ठ उग्रस्त्वं चतुरो वृषा॥ १०
मृत्युध्नोऽसि त्वमस्मभ्यं भद्रमेतद्धुतं हविः। एवं हृदयमालभ्य पादाङ्गुष्ठे तु दक्षिणे॥ ११
विश्राव्य दक्षिणं पाणिं नाभिं वै पाणिना स्पृशेत्। ततः पुनरुपस्पृश्य चाऽऽत्मानमभिसंस्पृशेत्॥ १२

[अ० १६ श्लो० १-१९] वायुपुराणम् । ४७

( शौचाचारलक्षणनिरूपणम् )
*अक्षिणी नासिका श्रोत्रं हृदयं शिर एव च । द्वावात्मानावुभावैतौ प्राणापानावुदाहृतौ ॥ १३
तयोः प्राणोऽन्तरात्माऽस्य बाह्योऽपानोऽत उच्यते । अन्नं प्राणस्तथाऽपानं मृत्युर्जीवितमेव च ॥ १४
अन्नं ब्रह्म च विज्ञेयं प्रजानां प्रसवस्तथा । अन्नाद्भूतानि जायन्ते स्थितिरन्नेन चेष्यते ॥ १५
वर्धन्ते तेन भूतानि तस्मादन्नं तदुच्यते । तदेवाग्नौ हुतं सर्वं भुञ्जते देवदानवाः ॥ १६
गन्धर्वयक्षरक्षांसि पिशाचाश्चान्नमेव हि ॥
इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--११९२

अथ षोडशोऽध्यायः ।
शौचाचारलक्षणनिरूपणम् ।

वायुरुवाच--
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम् । यदनुष्ठाय शुद्धात्मा प्रेत्य स्वर्गं हि चाऽश्नुयात् ॥ १
उदकार्थी तु शौचानां मुनीनामुत्तमं पदम् । यस्तु तेष्वप्रमत्तः स्यान्स मुनिर्नावसीदति ॥ २
मानावमानौ द्वावेतौ तावेवाऽऽहुर्विषामृते । अवमानं विषं तत्र मानस्त्वमृतमुच्यते ॥ ३
यस्तु तेष्वप्रमत्तः स्यात्स मुनिर्नावसीदति । गुरोः प्रियहिते युक्तः स तु संवत्सरं वसेत् ॥ ४
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् । प्राप्यानुज्ञां ततश्चैव ज्ञानागमनमुत्तमम् ॥ ५
अविरोधेन धर्मस्य विचरेत्पृथिवीमिमाम् । चक्षुपूतं व्रजेन्मार्गं वस्त्रपूतं जलं पिबेत् ॥ ६
सत्यपूतां वदेद्वाणीमिति धर्मानुशासनम् । आतिथ्यं श्राद्धयज्ञेषु न गच्छेदयोगवित्क्वचित् ॥ ७
एवं ह्यहिंसको योगी भवेदिति विचारणा । वह्नौ विधूमे व्यङ्गारे सर्वस्मिन्मुक्तवज्जने ॥ ८
विचरेन्मतिमान्योगी न तु तेष्वेव नित्यशः । यथैवमवमन्यन्ते यथा परिभवन्ति च ॥ ९
युक्तस्तथाऽऽचरेद्भैक्षं सतां धर्ममदूषयन् । भैक्षं चरेद्गृहस्थेषु यथाचारगृहेषु च ॥ १०
श्रेष्ठा तु परमा चेयं वृत्तिरस्योपदिश्यते । अत ऊर्ध्वं गृहस्थेषु शालीनेषु चरेद्विजः ॥ ११
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु । अत ऊर्ध्वं पुनश्चापि अदुष्टपतितेषु च ॥ १२
भैक्षचर्या त्रिवर्णेषु जघन्या वृत्तिरुच्यते । भैक्षं यवागूं तक्रं वा पयो यावकमेव च ॥ १३
फलमूलं विपक्वं वा पिण्याकं शक्तितोऽपि वा । इत्येते वै मया प्रोक्ता योगिनां सिद्धिवर्धना ॥ १४
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्षमिति स्मृतम् । अब्बिन्दु यः कुशाग्रेण मासे मासे समश्नुते ॥ १५
न्यायतो यस्तु भिक्षेत स पूर्वोक्ताद्विशिष्यते । योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं स्मृतम् ॥ १६
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् । अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च ॥ १७
व्रतानि चैव भिक्षूणामहिंसा परमार्शिता । अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ॥ १८
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः । बीजयानिनिर्गुणवपुर्वृद्धः कर्मभिरेव च ॥ १९


* इदमर्धं नास्ति ख. घ पुस्तकयोः ।

४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७-१८-श्लो० १-८।१-२]
( परमाश्रमविधियतित्प्रायश्चित्तविध्योः कथनम् )

यथा द्विप इवारण्ये मनुष्याणां विधीयते । प्राप्यते वाऽचिरादेवाङ्कुशेनेव निवारितः ॥ २०
एवं ज्ञानेन शुद्धेन दग्धबीजो ह्यकल्मषः । विमुक्तबन्धः शान्तोऽसौ मुक्त इत्यभिधीयते ॥ २१
वेदैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञे जप्यं ज्ञानिनामाहुरग्र्यम् ।
ज्ञानाद्ध्याने सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ॥ २२
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेष्वथाऽऽर्जवम् ।
अतीन्द्रियज्ञानमिदं तथाऽऽर्जवं प्राहुस्तथा ज्ञानविशुद्धसत्त्वाः ॥ २३
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैवाऽऽत्मरतिर्जितेन्द्रियः ।
समाप्नुयुर्योगमिमं महाधियो महर्षयश्चैवमनिन्दितामलाः ॥ २४

इति श्रीमहापुराणे वायुप्रोक्ते शौचाचारलक्षणनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥
आदितः श्लोकानां समष्ट्यङ्काः--१२१६


अथ सप्तदशोऽध्यायः ।
परमाश्रमविधिकथनम् ।

वायुरुवाच--
आश्रमत्रयमुत्सृज्य प्राप्तस्तु परमाश्रमम् । अतः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम् ॥ १
अनुज्ञाप्य गुरुं चैव विचरेत्पृथिवीमिमाम् । सारभूतमुपासीत ज्ञानं यज्ज्ञेयसाधकम् ॥ २
इदं ज्ञानमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात् ॥ ३
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । विधाय बुद्ध्या द्वाराणि ध्याने ह्येव मनो दधेत् ॥ ४
शून्येष्वेवावकाशेषु गुहासु च वने तथा । नदीनां पुलिने चैव नित्यं युक्तः सदा भवेत् ॥ ५
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी व्यमस्थितः ॥ ६
अवस्थितो ध्यानरतिर्जितेन्द्रियः शुभाशुभे हित्य च कर्मणी उभे ॥ ७
इदं शरीरं प्रविमुच्य शाश्वतो न जायते म्रियते वा कदाचित् ॥ ८

इति श्रीमहापुराणे वायुप्रोक्ते परमाश्रमविधिकथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--१२२४


अथाष्टादशोऽध्यायः ।
यतिप्रायश्चित्तविधिकथनम् ।

वायुरुवाच--
अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चयम् । प्रायश्चित्तानि तत्त्वेन यान्यकामकृतानि तु ॥ १
अथ कामकृतेऽप्याहुः सूक्ष्मधर्मविदो जनाः । पापं च त्रिविधं प्रोक्तं वाङ्मनःकायसंभवम् ॥ २

[अ० १९श्लो० १-३] वायुपुराणम् । ४९
( अरिष्टनिरूपणम् )

सततं हि दिवा रात्रौ येनेदं बध्यते जगत् । न कर्माणि न चाप्येष तिष्ठतीति परा श्रुतिः ॥ ३
क्षणमेव प्रयोज्यं तु आयुषस्तु विधारणात् । भवेद्धीरोऽप्रमत्तस्तु योगो हि परमं बलम् ॥ ४
न हि योगात्परं किंचिज्जराणामिह दृश्यते । तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः ॥ ५
अविद्यां विद्यया तीर्त्वा प्राप्यैश्वर्यमनुत्तमम् । दृष्ट्वा परापरं धीराः परं गच्छन्ति तत्पदम् ॥ ६
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च । एकैकापक्रमे तेषां प्रायश्चित्तं विधीयते ॥ ७
उपेत्य तु स्त्रियं कामात्प्रायश्चित्तं विनिर्दिशेत् । प्राणायामसमायुक्तं कुर्यात्सांतपनं तथा ॥ ८
ततश्चरति निर्देशं कृच्छ्रस्यान्ते समाहितः । पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥ ९
न म(न)र्मयुक्तं वचनं हिनस्तीति मनीषिणः । तथाऽपि च न कर्तव्यः प्रसङ्गो ह्येष दारुणः ॥ १०
अहोरात्राधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः । हिंसा ह्येषा परा सृष्टा दैवतैर्मुनिभिस्तथा ॥ ११
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः । स तस्य हरति प्राणान्यो यस्य हरते धनम् ॥ १२
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तौ व्रताच्युतः । भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥ १३
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः । ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः ॥ १४
भूगे निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः । अहिंसा सर्वभूतानां कर्मणा मनसा गिरा ॥ १५
अकामादपि हिंसेत यदि भिक्षुः पशून्मृगान् । कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथापि वा ॥ १६
स्कन्देदिन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि । तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ १७
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते । (*त्रिरात्रमुपवासश्च प्राणायामशतं तथा ॥ १८
रात्रौ स्कन्नः शुचिः स्नातो द्वादशैव तु धारणाः । प्राणायामेन शुद्धात्मा विरजा जायते द्विजः ॥ १९
एकान्नं मधु मांसं वा ह्यामश्राद्धं तथैव च । अभोज्यानि यतीनां च प्रत्यक्षलवणानि च ॥ २०
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ) । प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते ॥ २१
व्यतिक्रमाच्च ये केचिद्वाङ्मनःकायसंभवम् । सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत् ॥ २२
विशुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषू चरन्समाहितः ॥
स्थानं ध्रुवं शाश्वतमव्ययं सतां परं स गत्वा न पुनर्हि जायते ॥ २३
इति श्रीमहापुराणे वायुप्रोक्ते यतिप्रायश्चित्तविधिकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥

आदितः श्लोकानां समष्ट्यङ्काः—१२४७


अथैकोनविंशोऽध्यायः ।

अरिष्टनिरूपणम् ।

वायुरुवाच—
अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत । येन ज्ञानविशेषेण मृत्युं पश्यति चात्मनः ॥ १
अरुन्धती ध्रुवं चैव सोमच्छायां महापथम् । यो न पश्येत्स नो जीवेन्नरः संवत्सरात्परम् ॥ २
अरश्मिवन्तमादित्यं रश्मिवन्तं च पावकम् । यः पश्येन्न च जीवेत मासादेकादशात्परम् ॥ ३


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
७