सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ॥ ६६

[अ० ५२ - श्लो० ६६-८८]वायुपुराणम् ।१६९

( ज्योतिषप्रचारः )

ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ॥ ६६
पिवन्ति द्विकलं कालं शिष्टा तस्य तु या कला । निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥
तां स्वधां मासतृप्त्यै तु पीत्वा गच्छन्ति तेऽमृतम् ॥ ६६
सौम्या बर्हिषदश्चैव अग्निष्वात्तास्तथैव च । कव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥ ६७
संवत्सरास्तु वै कव्याः पञ्चाब्दा ये द्विजैः स्मृताः । सौम्यास्तु ऋतवो ज्ञेया मासा बर्हिषदः स्मृताः ।
अग्निष्वात्ता(त्त)र्तवश्चैव पितृसर्गा हि वै द्विजाः ॥ ६८
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै । यावन्न क्षीयते तस्य भागः पञ्चदशस्तु सः ॥ ६९
अमावास्यां तदा तस्य अन्तमापूर्यते परम् । वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ॥ ७०
एवं सूर्यनिमित्तेषां क्षयवृद्धिर्निशाकरे । ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ॥ ७१
तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः । युक्तो हयैः पिशङ्गैरस्तु अष्टाभिर्वातरंहसैः ॥ ७२
सवरूथः सानुकर्षः सूतो दिव्यो रथे महान् । सोपासङ्गपताकस्तु सध्वजो मेघसंनिभः ॥ ७३
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसंनिभः । पृथिवीसंभवैर्युक्तैर्नानावर्णैर्हयोत्तमैः ॥ ७४
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः । कृष्णश्च हरितश्चैव पृषतः पृश्निरेव च ॥
दशभिस्तैर्महाभागैरूश्वैर्वांतवेगितैः ॥ ७५
अष्टाश्वः काञ्चनः श्रीमान्सोमस्यापि रथोऽभवत् । असङ्गलैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः ॥ ७६
सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ॥ ७७
तवस्त्वाङ्गिरसो विद्वान्देवान्वाचार्यो बृहस्पतिः । शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ॥ ७८
युक्तस्तु वाजिभिर्दिग्यैरष्टाभिर्वातसंमितैः । नक्षत्रेऽब्दे निवसति सर्वगस्तेन गच्छति ॥ ७९
ततः शनैश्चरोऽप्यश्वैः शवलैर्व्योमसंभवैः । कार्ष्णायसं समारुह्य स्पन्दनं याति वै शनैः ॥ ८०
स्वर्भानोस्तु तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः । रथं तमोमयं तस्य सकृद्युक्ता वहन्त्युत ॥ ८१
आदित्यान्निःसृष्टा राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ ८२
अथ केतुरथस्याथा अष्टाष्टौ वातरंहसः । पलालधूमसंकाशाः शबला रासभाारुणाः ॥ ८३
एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह । सर्वे ध्रुवनिबद्धास्ते प्रबद्धा वातरश्मिभिः ॥ ८४
एते वै भ्राम्यमानास्तु यथायोगे भ्रमन्ति वै । वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥ ८४
परिक्रमन्ति तद्वद्धाश्चन्द्रसूर्यग्रहा दिवि । भ्रमन्तमनुगच्छन्ति ध्रुवं ते ज्योतिषां गणाः ॥ ८५
यथा नद्युदके नौस्तु सलिलेन सहोह्यते । तथा देवालया ह्येते उह्यन्ते वातरश्मिभिः ॥
तस्मात्सर्वेण दृश्यन्ते व्योम्नि देवगणास्तु ते ॥ ८६
यावत्यश्चैव तारास्तु तावन्तो वातरश्मयः । सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति तम् ॥ ८७
तैलपीडाकरं चक्रं भ्रमामभ्रद्यते यथा । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥ ८८

२२

१७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५२-५३ श्लो० ८९-९९।१-८]
(ज्योतिःसंनिवेशः)

अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहते प्रवहंस्तेन स स्मृतः ॥ ८९
एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः । सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि ।
यदह्ना कुरुते पापं दृष्ट्वा तं निशि मुच्यते ॥ ९०
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ॥ ९१
शाश्वतः शिशुमारोऽसौ विज्ञेयः प्रविभागतः । उत्तानपादस्तस्याथ विज्ञेयो ह्युत्तरो हनुः ॥ ९२
यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः । हृदि नारायणः साध्य(ध्या) अश्विनौ पूर्वपादयोः ॥ ९३
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी । शिश्नः संवत्सरस्तस्य मित्रोऽपाने समाश्रितः ॥ ९४
पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः । तारकाः शिशुमारश्च नास्तमेति चतुष्टयम् ॥ ९५
नक्षत्रचन्द्रसूर्याश्च ग्रहस्तारागणैः सह । उन्मुखाभिमुखाः सर्वे चक्रीभूताश्रिता दिवि ॥ ९६
ध्रुवेणाधिष्ठिताः सर्वे ध्रुवमेव प्रदक्षिणम् । प्रयान्तीह वरं श्रेष्ठं मेढीभूतं ध्रुवं दिवि ॥ ९७
ध्रुवाग्निकश्यपानां तु वरश्चासौ ध्रुवः स्मृतः । स्मृतः एक एव भ्रमत्येष मेरुपर्वतमूर्धनि ॥ ९८
ज्योतिषां चक्रमैतद्धि सदा कर्षत्यवाङ्मुखः । मेरुमालोकयत्येष प्रयातिहि प्रदक्षिणम् ॥ ९९
इति श्रीमहापुराणे वायुप्रोक्ते ध्रुवचर्या नाम द्विपञ्चाशोऽध्यायः ॥ ५२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४०२९

अथ त्रिपञ्चाशोऽध्यायः ।
ज्योतिःसंनिवेशः ।

वैशम्पायन उवाच--
एतच्छ्रुत्वा तु मुनयः पुनस्ते संशयान्विताः । पप्रच्छुरुत्तरं भूयस्तदा ते लोमहर्षणम् ॥ १
ऋषय ऊचुः--
यदेतदुक्तं भवता गृहाण्येतानि विश्रुतम् । कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ॥ २
एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निश्चयम् । श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥ ३
अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः । तद्वोऽहं संप्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् ॥
यथा देवगृहाणीह सूर्याचन्द्रमसोगृहम् ॥ ४
अतःपरं त्रिविधाभेर्वक्ष्येऽहं तु समुद्भवम् । दिव्यस्य भौतिकस्याग्नेराप्याग्नेः पार्थिवस्य च ॥ ५
व्युष्टायां तु रजन्यां वै ब्राह्मणोऽव्यक्तजन्मनः । [* अव्याकृतमिदं त्वासीन्निशेन तमसाऽऽवृतम् ॥ ६
चतुर्भूतावशिष्टेऽस्मिन्पार्थिवः सोऽग्निरुच्यते । यश्चाऽऽदौ तपते सूर्ये शुचिराग्निस्तु स स्मृतः] ॥ ७
वैद्युताख्यस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षणम् । वैद्युतो जाठरः सौरो ह्यपां गर्भाख्योऽग्नयः ॥
तस्मादपः पिवन्सूर्यो गोभिर्दीप्यत्यसौ दिवि ॥ ८


* धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. पुस्तकयोर्नास्ति ।

[अ०श्लो० ५३-९-३१] वायुपुराणम् १७१

(ज्योतिःसंनिवेशः )
वैद्युतेन समाविष्टो वार्क्षो नाद्भिः प्रशाम्यति । मानवानां च कुक्षिस्थो नाद्भिः शाम्यति पावकः ॥ ९
अर्चिष्मान्परमः सोऽग्निः प्रभवो जाठरः स्मृतः । यश्चायं मण्डली शुक्लो निरूष्मा संप्रकाशते ॥ १०
प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे । अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ॥ ११
उद्यन्तं च पुनः सूर्यमौष्ण्यमाग्रेयमाविशत् । पादेन पार्थिवस्याग्नेस्तस्मादग्निस्रतपत्यसौ ॥ १२
प्रकाशश्च तथौष्ण्यं च सौराग्नेये तु तेजसी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ १३
उत्तरं चैव भूम्यर्धे तस्मादस्मिंश्च दक्षिणे । उत्तिष्ठति पुन सूर्ये रात्रिराविशते त्वपः ॥
तस्मान्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ १४
अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः । तस्मान्नक्तं पुनः शुक्ला आपो विशन्ति भास्करे ॥ १५
एतेन क्रमयोगेन(ण) भूम्यर्धे दक्षिणोत्तरे । उदयास्तमये नित्यमहोरात्रं विशत्यपः ॥ १६
यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः । पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः॥१७
सहस्रपादः सोऽग्निस्तु वृत्तं कुम्भानिभः शुचिः । आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ॥ १८
नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः । स्थावरा जङ्गमाश्चैव यश्च सूर्या हिरण्मयः ॥
तस्य रश्मिसहस्रं तु वर्षशीतोष्णनिस्रवम् ॥ १९
तासां चतुःशता नाड्यो वर्षन्ति चित्रमूर्तयः । वन्दनाश्चैव वन्द्याश्च ऋतना नूतनास्तथा ॥
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ २०
हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः । दृश्या मेघ्याश्च वाद्याश्च ह्लादिन्यो हिमसर्जनाः॥ २१
चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः । शुक्लाश्च ककुभश्चैव गावो विश्वानुकर्षिका ॥ २२
शुक्लास्ता नामतः सर्वास्त्रिशता धर्मसर्जनाः । समं बिभर्ति नाभिस्तु मनुष्यपितृदेवताः ॥ २३
मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ २४
वसन्ते चैव ग्रीष्मे च स तैः सुतपते त्रिभिः । वर्षास्वथो शरदि च चतुर्भिः संपर्कर्षति ॥ २५
हेमन्ते शिशिरे चैव हिमं स सृजते त्रिभिः । ओषधीषु बलं धत्ते स्वधया च पितॄनपि ॥
सूर्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥ २६
एवं रश्मिसहस्रं तत्सौरं लोकार्थसाधकम् । भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम् ॥ २७
इत्येतन्मण्डलं शुक्लं भास्करं सूर्यसंज्ञितम् । (*नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरैव च ॥
ऋक्षचन्द्रग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः ॥ २८
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामरूपिणः ॥ २९
पठ्यते चाग्निरादित्य उदकचन्द्रमाः स्मृतः । शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ॥ ३०
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः । नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ॥ ३१


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

१७२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०५३श्लो०३२-५५]
(ज्योतिःसंनिवेशः)

रुद्रो वैवस्वतः साक्षाद्धर्मो लोके प्रभुः स्वयंम्। महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ॥ ३२
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ । प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ॥
दैत्यो महेन्द्रश्च तयोराधिपत्ये विनिर्मितौ ॥ ३३
आदित्यमूलमखिलं त्रिलोकं नात्र संशयः । भवत्यस्य जगत्कृत्स्नं संदेवासुरमानुषम् ॥ ३४
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम् । द्युतिर्द्युतिमसां कृत्स्ना यत्तेजः सार्वलौकिकम् ॥ ३५
सर्वात्मा सर्वलोकेशो मूलं परमदैवतम् । ततः संजायते सर्वं तत्र चैव प्रलीयते ॥ ३६
भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा । जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुग्रहो रविः ॥ ३७
यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः । क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥
मासाः संवत्सराश्चैव ऋतवोऽब्दयुगानि च ॥ ३८
तदादित्यादृते तेषां कालसंख्या न विद्यते । कालादृते न निगमो न दीक्षा नाह्निकक्रमः ॥ ३९
ऋतूनामविभागश्च पुष्पमूलफलं कुतः । कुतः सस्याभिनिष्पत्तिर्गुणौषधिगणादि वा ॥ ४०
अभावो व्यवहाराणां देवानां दिवि चेह च । जगत्प्रतापनमृते भास्करं वारितस्करम् ॥ ४१
स एव कालश्वाभिश्च द्वादशात्मा प्रजापतिः । तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ॥ ४२
स एष तेजसां राशिः समस्तः सार्वलौकिकः । उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् ॥
पार्थमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ ४३
रवेरश्मिसहस्रं यत्प्राङ् मया समुदाहृतम् । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ ४४
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संयत्सुद्भरतं परम् ॥
अर्वाग्वसुः पुनश्चान्यो मया चात्र प्रकीर्तितः ॥ ४५
सुषुम्नः सूर्यरश्मिस्तु क्षीणं शशिनमेधयन् । तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिकीर्त्यते ॥ ४६
हरिकेशः पुरस्ताद्या ऋक्षयोनिः प्रकीर्त्यते । दक्षिणे विश्वकर्मा तु रश्मिवर्धयते बुधम् ॥ ४७
विश्वश्रवास्तु यः पश्चाच्छुक्रयोनिः स्मृताः बुधैः । संयद्वसुश्च यो रश्मिः सा योनिलोहितस्य तु ॥
षष्ठस्त्वर्वाग्वसू रश्मियोंनिस्तु स बृहस्पतेः । शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ॥ ४९
एवं सूर्यप्रभावेन ग्रहनक्षत्रतारकाः । वर्धन्ते विदिताः सर्वा विश्वं चेदं पुनर्जगत् ॥
न क्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता ॥ ५०
क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः । तेषां क्षेत्राण्यथाऽऽदत्ते सूर्यो नक्षत्रतां गतः ॥ ५१
तॄणिनां सुकृतेनेह सुकृतान्ते यहाश्रयात् । ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ ५२
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः । आदानान्नित्यमादित्यस्तमसां तेजसां महान् ॥ ५३
सुवति स्पन्दनार्थं च धातुरेष विभाव्यते । सवनात्तेजसोऽपां च तेनासौ सविता मतः ॥ ५४
षष्ठ्यर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते । शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ ५५

[ अ० ५३ श्लो० ५६-८१ ] वायुपुराणम् । १७३

( ज्योतिःसंनिवेशः )

सूर्याचन्द्रमसोर्द्दिव्ये मण्डले भास्वरे खगे । ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ ५६
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् । घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ ५७
विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ ५८
तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च । ) सौरं सूर्यो विशः स्थानं सौम्यं सोमस्तथैव च ॥ ५९
शौक्रं शुक्रो विशः स्थानं षोडशार्चिः प्रतापवान् । बृहद्बृहस्पतिश्चैव लोहितं चैव लोहितः
शनैश्चरं तथा स्थानं देवश्चैव शनैश्चरः ॥ ६०
आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः । नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ॥ ६१
त्रिगुणस्तस्य विस्तारा मण्डलं च प्रमाणतः । द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ ६२
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाऽऽधस्तात्प्रसर्पति । उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ॥ ६३
स्वर्भानोस्तु बृहत्स्थानं निर्मितं यत्तमोमयम् । आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ ६४
आदित्यमेति सोमाच्च पुनः सोमं च पर्वसु । स्वर्भासा नुदते यस्मात्ततः स्वर्भानुरुच्यते ॥ ६५
चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते । निष्कम्भान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥ ६६
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ कुजसौरौवुभौ स्मृतौ ॥
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ६७
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन समतुल्यानि विस्तारान्मण्डलादथ ॥ ६८
प्रायश्चन्द्रयोगिनि(णि) विद्यादृक्षाणि तत्त्ववित् । तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ ६९
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने पूर्वापरनिकृष्टानि तारकामण्डलानि तु ॥
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ७०
उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरौऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ७१
तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ७२
यावन्त्यस्तारकाः कोट्यस्तावदृक्षाणि सर्वशः । वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ॥ ७३
गतिस्तास्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात् । उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥
बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ॥ ७४
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत । गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥ ७५
कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा । स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ॥ ७६
मन्वन्तरेषु सर्वेषु देवतायतनानि वै । अभिमानिनोऽवतिष्ठन्ति स्थानानि तु पुनः पुनः ॥ ७७
अतीतैस्तु सहातीता भाव्या भाव्यैः सुरासुरैः । वर्तन्ते वर्तमानैश्च स्थानानि स्वैः सुरैः सह ॥ ७८
अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः । विवस्वानादितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ ७९
त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः । शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ ८०
बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः । बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ॥ ८१

१७४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५३श्लो०८२-१०७]
(ज्योतिःसंनिवेशः)

अग्निर्विकल्पात्संजज्ञे युवाऽसौ लोहिताधिपः। नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ॥ ८२
स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः। सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ॥ ८३
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः। शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ ८४
सहस्रांशोस्त्वपः स्थानमम्मयं शुक्लमेव च। आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ ८५
शुक्रस्याप्यम्मयं स्थानं सद्म षोडशरश्मिवत्। नवरश्मेस्तु सूनो हि लोहितस्थानमम्मयम् ॥ ८६
हरिश्वा(चाऽऽ)प्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः। अष्टरश्मेर्वृहं प्रोक्तं कृष्णं बुधस्य अम्मयम् ॥ ८७
स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्। विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ॥ ८८
आश्रयः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः। वनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ॥ ८९
उच्चत्वादृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः। तथा दक्षिणमार्गस्थो नीवीवीथीसमाश्रिताः ॥ ९०
भूमिलेखावृत्तः सूर्यः पूर्णिमावास्ययोस्तथा। न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥ ९१
तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः। दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ ९२
ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ। समानकालास्तमयौ विषुवत्सु समोदयौ ॥ ९३
उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ। पौर्ण(पूर्णा)मावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ ॥ ९४
दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्। तदा सर्वग्रहाणां स सूर्योऽधस्तात्प्रसर्पति ॥ ९५
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं*चरते शशी। नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ९६
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं बृहस्पतिः। तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम् ॥
ऋषीणां चैव सप्तानां ध्रुव ऊर्ध्वं व्यवस्थितः ॥ ९७
द्विगुणेषु सहस्रेषु योजनानां शतेषु च। ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ ९८
ग्रहाश्च चन्द्रसूर्यो तु दिवि दिव्येन तेजसा। नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ॥ ९९
ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः। समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ॥ १००
परस्परस्थिता ह्येते युज्यन्ते च परस्परम्। असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ १०१
इत्येष संनिवेशो वः पृथिव्यां ज्योतिषस्य च। द्वीपानामुदधीनां च पर्वतानां तथैव च ॥ १०२
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै। एते चैव ग्रहाः पूर्वे नक्षत्रेषु समुत्थिताः ॥ १०३
विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे। विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ १०४
त्विषिमान्धर्मपुत्रस्तु सोमो विश्वाससुस्तथा। शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ १०५
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादिनन्तरम्। ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ॥ १०६
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः। फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ॥ १०७


* अत्राऽऽत्मनेपदं छन्दोनुरोधात्।

[अ० ५३-५४ श्लो० १०८ १२३ । १-३] वायुपुराणम् । १७५

( नीलकण्ठस्तवः )

नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः । आषाढास्विह पूर्वांसु समुत्पन्न इति श्रुतिः ॥ १०८
रेवतीष्वेव सप्तार्चिस्तथा सौरः शनैश्चरः । रेवतिषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्दनौ ॥ १०९
एते ताराग्रहाश्चैव बोद्धव्या भार्गवादयः । जन्मनाक्षत्रपीडासु यान्ति वैगुप्यतां यतः ॥
(+ स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ) ॥ ११०
सर्वग्रहाणामेतेषामादिरादित्य उच्यते । ताराग्रहाणां शुक्रस्तु केतूनां चैव धूमवान् ॥ १११
ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ ११२
वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः । ऋतूनां शिशिरं चापि मासानां माघ एव च ॥ ११३
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा । अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ ११४
मुहूर्तानां तथैवाऽऽदिर्मुहूर्त्तो रुद्रदैवतः । अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ॥ ११५
श्रवणान्तं प्रविष्ठादि युगं स्यात्पञ्चवार्षिकम् । भानोर्गतिविशेषेण चक्रवत्परिवर्तते ॥ ११६
दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम् । चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः ॥ ११७
इत्येष ज्योतिषामेव संनिवेशोऽर्थनिश्चयात् । लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ॥ ११८
उन्नन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा । सर्वतोऽन्तेषु विस्तीर्णो वृत्ताकार इति स्थितिः ॥ ११९
बुद्धिपूर्वं भगवता कल्पादौ संप्रकीर्तितः । साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः ॥
विश्वरूपं प्रधानस्य परिणामोऽयमद्भुतः ॥ १२०
नैव शक्यं प्रसंख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ॥ १२१
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः । परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ॥ १२२
चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः । पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ॥ १२३
इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिःसंनिवेशनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥

आदितः श्लोकानां समष्टयङ्काः-४१५२

अथ चतुष्पञ्चाशोऽध्यायः
नीलकण्ठस्तवः ।

ऋषय उवाच--
कस्मिन्देशे महापुण्यमेतदाख्यानमुत्तमम् । वृत्तं ब्रह्मपुरोगाणां कस्मिन्काले महाद्युते ॥
एतदाख्याहि नः सम्यग्यथावृत्तं तपोधनः ॥ १

सूत उवाच--
यथा श्रुतं मया पूर्वं वायुना जगदायुना । कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ॥ २
नीलता येन कण्ठस्य देवदेवस्य शूलिनः । तदहं कीर्तयिष्यामि शृणुध्वं शंसितव्रताः ॥ ३

+ इदमर्धं नास्ति ख. घ. पुस्तकयोः

१७६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ५४- श्लो० ८२-४-२५]

(नीलकण्ठस्तवः)

उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः। पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च॥
गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च॥ ४
देवभक्ता महात्मानो मुनयः शंसितव्रताः। स्तुवन्ति च महादेवं यत्र यत्र यथाविधि॥ ५
ऋग्यजुःसामवेदैश्च नृत्यगीतार्चनादिभिः। ओंकारं हुं नमस्कारैरर्चयन्ति सदा शिवम्॥ ६
प्रवृत्ते ज्योतिषां चक्रे मध्यव्योम्नि दिवाकरे। देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम्॥
अथ नियमप्रवृत्ताश्च प्राणशेषप्यवस्थिताः॥ ७
नमस्ते नीलकण्ठाय इत्युवाच सदागतिः। तच्छ्रुत्वा भावितात्मानो मुनयः शंसितव्रताः॥
वालखिल्येतिविख्याताः पतङ्गसहचारिणः॥ ८
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्। तस्मात्पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः॥ ९

ऋषय ऊचुः—
नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम। एतद्गुह्यं पवित्राणां पुण्यं पुण्यकृतां वरः॥ १०
तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन। नीलता येन कण्ठस्य कारणेनाम्बिकापतेः॥ ११
श्रोतुमिच्छामहे सम्यक्तव वक्त्राद्विशेषतः। यावद्वाचः प्रवर्तन्ते सार्थास्ताश्च त्वयेरिताः॥ १२
वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते। ज्ञानं पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्तते॥ १३
त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः। यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः॥ १४
तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदाऽनिल। नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण॥ १५
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल। वेत्थ वाचस्पतिं देवं मनोनायकमधीश्वरम्॥ १६
ब्रूहि तत्कण्ठदेशस्य किंकृता रूपविक्रिया। श्रुत्वा वाक्यं ततस्तेषामृषीणां भावितात्मनाम्॥
प्रत्युवाच महातेजा वायुर्लोकनमसकृतः॥ १७

वायुरुवाच—
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः। वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः॥ १८
पप्रच्छ कार्तिकेयं वै मयूरवरवाहनम्। महिषासुरनारीणां नयनाञ्जनतस्करम्॥ १९
महासैनं महात्मानं मेघस्तानितनिस्वनम्। उमामनःप्रहर्षेण बालकं छद्मरूपिणम्॥ २०
क्रौञ्चजीवितहर्तारं पार्वतीहृदि नन्दनम्। वसिष्ठः पृच्छते भक्त्या कार्तिकयं महाबलम्॥ २१

वसिष्ठ उवाच—
नमस्ते हरनन्दाय उमागर्भ नमोऽस्तु ते। नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते॥ २२
नमस्ते शरगर्भाय नमस्ते कृतिकासुत। नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते॥ २३
नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने। एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम्॥ २४
यदेतद्दृश्यते वर्यं शुभं शुभ्राञ्जनप्रभम्। तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसप्रभे॥ २५