वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४
४१० श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १०१ श्लो० २७२-२९५]
( शिवपुरवर्णनम )
असिञ्चैबौजसां श्रेष्ठः शतिरश्मिः शशी तथा । तेजसा वपुषा कान्त्या देवेशस्य महात्मनः ॥
शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ॥ २७२
स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान् । शुशुभे रुचिरः श्रीमान्त्सोदकः स कमण्डलुः ॥ २७३
असिमावेश्य चाङ्गेषु पाण्डुराम्वरधारिणी । उरश्छेदेन महता मौक्तिकेन विराजिता ॥
चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४
'दव्या आद्यप्रतीहारी श्रीरिवाप्रतिमा परा । विभ्राजन्ती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ॥ २७५
तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः। ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शंकरम् ॥ २७६
सर्वलक्षणसम्पन्ना वादित्रैरुपबृंहिताः । उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥ २७७
अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः । शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ॥ २७८
स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्यवान् । रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ॥ २७९
तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान् । व्यपेतव्यसनाः क्रूराः प्रजानां पालने रताः ॥ २८०
तैः सार्धं स महावीर्यः शोभते शिखिवाहनः । व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ॥ २८१
ये नृपा विबुधेन्द्राणां काश्चनैस्य प्रदायिनः । ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ॥ २८२
गूढस्वाध्यातपसस्तथा चैवोञ्छवृत्तयः । एते सभासदस्तस्य देवेशस्य च संमताः ॥ २८३
मन्वन्तराण्यनेकानि व्यवर्तन्त पुनः पुनः । श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ॥ २८४
व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरास्विनः । स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्मिताः ॥ २८५
मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः । विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ॥ २८६
अतः परमिदं भूयो भवेनाद्भुतमुत्तमम् । भूतानामनुकम्पार्थं यत्कृतं तन्निबोधत ॥ २८७
मन्दराद्रिप्रकाशानां बलेनाप्रतिमौजसाम् । हारकुन्देन्दुवर्णानां विद्युद्घननिनादिनाम्* ॥ २८८
चूडामणिधराणां वै मेघसंनिभवाससाम् । श्रवोत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ॥ २८९
एवं दिशानां देवानां रूपेणोत्तमशालिनाम् । तस्य प्रासादमूख्यस्य स्तम्भेषूत्तमशोभिषु ॥ २९०
संयताग्निमयीभिस्तु शृङ्खलाभिः पृथक्पृथक् । मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ॥ २९१
स्तम्भेऽप्यपासुताषष्ठं (?) त्र्यम्बकस्य निवेशने । अथ तत्पतिसंपूज्य वायोर्वाक्यं सुविस्मिताः ॥
ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ॥ २९२
भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो । के ते सिंहमहाभूताः क ते जाताः किमात्मकाः ॥ २९३
सिंहाः केनापरोधेन भूतानां प्रहविष्णुना । वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ॥ २९४
तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह । यद्दै सहस्रं सिंहानामीश्वरेण महात्मना ॥
व्यपनीय स्वकांहेत्क्रोधास्ते सिंहविग्रहाः ॥ २९५
* इत उत्तरमेकः श्लोकोऽधिको ङ पुस्तके स यथा–सुदीर्घारितकायानामतविकूरचक्षुषाम् । दंष्ट्रोत्कटमहास्थानां महाविक्रमशालिनाम् । इति ।
[अ० १०१ श्लो० २९६–३२१] वायुपुराणम् । ४११
( शिवपुरवर्णनम )
भूतानामभयं दत्त्वा पुरा बद्धाग्निबन्धने । यज्ञभागनिमित्तं च ईश्वरस्याऽऽज्ञया तदा ॥ २९६
तेषां विधानमुक्तेन सिंहैनेकेन लीलया । देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ २९७
निःसृता च महादेव्या महाकाली महेश्वरी । आत्मनः कर्मसाक्षिण्या भूतैः सार्धं तदाऽनुगैः ॥ २९८
स एष भगवान्क्रोधो रुद्रावासकृतकालयः । वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्जनः ॥ २९९
तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै । संनिवेशस्त्वनौपम्यो मया वः परिकीर्तितः ॥ ३००
अतः परं प्रवक्ष्यामि ये तत्र प्रतिवासिनः । ] रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३०१
नानारत्नविचित्रेषु पताकाबहुलेषु च । सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३०२
राजतेषु महान्तेषु शातकौम्भमयेषु च । संध्याभ्रसंनिकाशेषु कैलासप्रतिमेषु च ॥ ३०३
इष्टैः शब्दादिभिर्भागैर्यै भवस्यानुसारिणः । प्रासादवरमुख्येषु तेषु मोदन्ति सुव्रताः ॥ ३०४
ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः । गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ॥ ३०५
संहताश्चैवमतुला नानाश्रयकृतास्तथा । एवमादीनि वर्तन्ते तेषां प्रासादमूर्धनि ॥ ३०६
सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनौपम्यैर्वरै रत्नौः सर्वतः परिभूषितः ॥ ३०७
स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यमणिसंप्रभैः । बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसंनिभैः ॥ ३०८
चुक्रुशुर्ऋषयः श्रुत्वा नैमिषेयास्तपस्विनः । आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३०९
ऋषय ऊचुः—
के तु तत्र महात्मानो ये भवस्यानुसारिणः । अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३१०
ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ॥
वायुरुवाच—
श्रूयतां देवदेवस्य भक्तियैरनुकल्पिता । ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥ ३११
(+मध्वाहाराश्च मात्राश्च आत्मारामा जितेन्द्रियाः । जितद्वंद्वा महोत्साहाः सौम्या विगतमत्सराः
भावस्थाः सर्वभूतानामव्यापारा अनाकुलाः) । कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३१३
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥
तैर्लब्धं रुद्रमालोक्यं शाश्वतं पदमव्ययम् । भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥ ३१४
वैधानरमुखा सर्वे विश्वरूपा कपर्दिनः । नीलकण्ठा सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥ ३१५
अर्धचन्द्रकृतोष्णीषा जटामुकुटधारिणः । सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ॥ ३१६
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः । पिनाकपाणयः सर्वे श्वेतगोवृषवाहनाः ॥ ३१७
श्रियाऽन्विता कुण्डलिनो मुक्ताहारविभूषिताः । तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ॥ ३१८
विभज्य बहुधाऽऽत्मानं जरामृत्युविवर्जिताः । क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ॥ ३१९
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यैर्विबोधिताः । एकादशानां रुद्राणां कोटयोऽनेका महात्मनाम्
एभिः सह महात्मानो देवदेवो महेश्वरः । भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ॥ ३२१
- एतच्चिह्नान्तर्गतग्रन्थो ग. पुस्तके न विद्यते ।