वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः । (तथा दक्षश्च खण्डश्च चत्वारो जम्भसूनवः ॥ ७८
२४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६७श्लो० ७६-९७]
। काश्यपीयप्रजासर्गः )
विरोचनस्तु प्राह्लादिः पञ्च तस्याऽऽत्मजाः स्मृताः । गवेष्ठी कालनेमिश्च जम्भो वाष्कल एव च ।
शंभुस्तु अनुजस्तेषां स्मृताः प्रह्लादसूनवः ॥ ७६
यथाप्रधानं वक्ष्यामि तेषां पुत्रान्दुरासदान् । शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ॥ ७७
गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः । (*तथा दक्षश्च खण्डश्च चत्वारो जम्भसूनवः ॥ ७८
विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः । वाष्कलस्य सुता ह्येते कालनेमिसुताञ्शृणु ॥ ७९
ब्रह्मजित्क्षत्रजिच्चैव देवान्तकनरान्तकौ । कालनेमिसुता ह्येते शंभोस्तु शृणुत प्रजाः ॥ ८०
धनुको ह्यसिलोमा च नाबलश्च सगोमुखः । गवाक्षश्चैव गोमांश्च शंभोः पुत्राः प्रकीर्तिताः ॥ ८१
विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ) । बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ ८२
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः । सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसंमतः ॥
कुम्भनामो गर्दभाक्षः कुशिरित्येवमादयः ॥ ८३
शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते । बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८४
बलियों नामविख्यातो गणो विक्रान्तपौरुषः । + बाणस्य चेन्द्रमनसो लौहित्यमुपपद्यते ॥ ८५
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् । स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ॥
वरेण च्छन्दयामास सा च वव्रे वरं ततः । स तु तस्यै वरं प्रादात्प्रार्थितं भगवान्प्रभुः ॥
किमिच्छसीति चाप्युग्रो मारीचस्तामभाषत ॥ ८७
मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा । हतपुत्राऽस्मि भगवन्नादित्यैस्तव सूनुभिः ॥ ८८
शक्रहन्तारमिच्छेयं पुत्रं दृप्तंतपोन्वितम् । अहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥ ८९
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा । प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ९०
एवं भवतु भद्रं ते शुचिर्भव तपोधने । जनयिष्यति सत्पुत्रं शक्रहन्तारमाहवे ॥ ९१
पूर्णं वर्षशतं तावच्छुचिर्यदि भविष्यसि । पुत्रं त्रिलोकप्रवरमथ त्वं जनयिष्यसि ॥ ९२
एवमुक्त्वा महातेजास्तया समवसत्प्रभुः । तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ॥ ९३
गते भर्तरि सा देवी दितिः परमहर्षिता । कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ॥ ९४
तपस्तस्यां तु कुर्वत्यां परिचर्यां चकार ह । सहस्राक्षः सुरश्रेष्ठः परया गुणसंपदा ॥ ९५
अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च । न्यवेदयत्सहस्राक्षो यच्चान्यदपि किंचन ॥
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु लोकेषु दितिं परिचचार ह ॥ ९६
एवमाराधिता शक्रमुवाचाथ दित्तिस्तथा । ९७
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + तस्मिन्गणे हते देवैर्विक्रान्ते दुर्जयेऽमरैरित्यधिकं ख. पुस्तके ।
[अ०६७श्लो० ०९८-११९] वायुपुराणम् । २४९
(कश्यपीयप्रजासर्गः)
दितिरुवाच--
प्रीता तेऽहं सुरश्रेष्ठ दश वर्षाणि पुत्रक । अवाशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ ९८
जयलिप्सुं समाधास्ये लब्ध्वाऽहं तादृशं सुतम् । त्रैलोक्यविजयं पुत्र प्राप्स्यानि सह तेन वै ॥ ९९
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे । निद्रयाऽपहृता देवी जान्वोः कृत्वा शिरस्तदा ॥ १००
दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्धजाम् । तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ॥ १०१
तस्याः शरीरं विवृतं विवेशाथ पुरंदरः । प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम् ॥ १०२
अभिनत्सप्तधा तं तु कुलिशेन महायशाः ॥
भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा । रुरोद सस्वरं भीमं वेपमानः पुनः पुनः ॥ १०३
मा रोदीरिति तं गर्भं शक्रः पुनरभाषत ॥
तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः । कुलिशेन विभेदेन्द्रस्ततो दितिरबुध्यत ॥ १०४
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपातोदराद्वज्री मातृवचनगौरवात् ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥ १०५
अशुचिर्देवि सुप्ताऽसि पादयोर्गतमूर्धजा । तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ॥
भिन्नवान्गर्भमेतं ते बहुधा क्षन्तुमर्हसि ॥ १०६
तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता । सहस्राक्षं ततो वाक्यं सा सानुनयमब्रवीत् ॥ १०७
ममापराद्धाद्गर्भोऽयं यदि ते विफलीकृतः । नापराधोऽस्ति देवेश ऋषिपूत्र महाबल ॥ १०८
शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः । प्रियं तु कर्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ॥ १०९
भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि । वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥
मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ॥ ११०
पृथिव्या प्रथमस्कन्धो द्वितीयश्चैव भास्करे । सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ॥ १११
ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले । ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ॥ ११२
तानेते विचरन्त्वद्य काले काले ममाऽऽत्मजाः । वातस्कन्धानिमान्भूत्वा चरन्तु मम पुत्रकाः ॥ ११३
पृथिव्यां प्रथमस्कन्ध आमेघेभ्यो य आवहः । चरन्तु मम पुत्रास्ते सप्तमे प्रथमे गणे ॥ ११४
द्वितीयश्चापि मेध्येभ्य आसूर्यात्प्रवहस्तु यः । वातस्कन्धं द्वितीयं तु द्वितीयश्चरतां गणः ॥ ११५
सूर्योर्ध्वं तु ततः सोमादुद्वहो यस्तु वै स्मृतः । वातस्कन्धं तु तं प्राहुस्तृतीयश्चरतां गणः ॥ ११६
(* सोमादूर्ध्वं तथैर्क्षेभ्यश्चतुर्थः सुवहस्तु यः । चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ॥ ११७
यक्षेभ्यश्च तथैवोर्ध्वमाग्रहाद्विवहस्तु यः । पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरतां गणः ) ॥ ११८
ऊर्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः । चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ॥ ११९
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
३२