सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५

[अ० ३३ श्लो० ४१-६३] वायुपुराणम् । १०९

( स्वायंभुववंशवर्णनम् )

नाभेस्तु दक्षिणं वर्षं हिमाह्वं तु पिता ददौ । हेमकूटं तु यद्वर्षं ददौ किं पुरुषाय तत् ॥ ४१
नैषधं यत्स्मृतं वर्षं हरिवर्षाय तद्ददौ । मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥ ४२
नीलं तु यत्स्मृतं वर्षं रम्यायैऽत्पिता ददौ । श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हरिण्मते ॥ ४३
यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ । वर्षं माल्यवतं चापि भद्राश्वाय न्यवेदयत् ॥ ४४
गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५
अग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत । यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ ४६
इत्येतैः सप्तभिः कृत्स्नाः सप्तद्वीपा निवेशिताः । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ॥ ४७
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु । तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥ ४८
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ॥ ४९
नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तान्निबोधत । नाभिस्त्वजनयत्पुत्रं मरुदेव्यां महाद्युतिः ॥
ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥ ५०
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥ ५१
हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् । तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुबुर्धाः ॥ ५२
भरतस्याऽऽत्मजो विद्वान्सुमतिर्नाम धार्मिकः । बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत् ॥
पुत्रसंक्रामितश्रीको वनं राजा विवेश सः ॥ ५३
तैजसस्तत्सुतश्चापि प्रजापतिरमित्राजित् । तैजसस्याऽऽत्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ॥ ५४
परमेष्ठी सुतस्याथ निधने तस्य शोभनः । प्रतीहारः तस्य कुले तस्य नाम्ना जज्ञे तदन्वयात् ।
प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥ ५५
उन्नेता प्रतिहर्तुस्तु भुवस्तस्य सुतः स्मृतः । उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ॥ ५६
प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः । पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ ५७
गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट् । विराट्‌सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् ॥ ५८
धीमतश्च महान्पुत्रो महतश्चापि भौवनः । भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चाऽऽत्मजः ॥ ५९
अरीजस्य रजः पुत्रः शतजिद्रजसो मतः । तस्य पुत्रशतं त्वासद्विप्राजानः सर्व एव ते ॥ ६०
विश्वज्योतिष्प्रधाना यैस्तैरिमा वर्धिताः प्रजाः । तैरियं भारतं वर्षं (*सप्तखण्डं कृतं पुरा ॥ ६१
तेषां वंशप्रसूतैस्तु भुक्तेयं भारती धरा । कृतत्रेतादियुक्तानि युगाख्यानेकसंप्लुतिः ॥ ६२
येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः । स्वायंभुवेऽन्तरे पूर्वं ) शतशोऽथ सहस्रशः ॥ ६३


* धनुश्चिह्नान्तर्गतग्रन्थः ङ. पुस्तके नास्ति ।

११० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३३-३४ श्लो० ६४-६५-१-१६]
(जम्बूद्वीपवर्णनम्)

एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ॥ ६४
यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तेषां सृष्टिरियं लोके युगैः सह विवर्तते ॥ ६५
इति महापुराणे वायुप्रोक्ते स्वायंभुववंशानुकीर्तनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
आदितः श्लोकानां समष्ट्यङ्काः- २६४०

अथ चतुस्त्रिंशोऽध्यायः ।
जम्बूद्वीपवर्णनम् ।

ऋषय ऊचुः-
एवं प्रजासंनिवेशं श्रुत्वा च ऋषिपूंगवः । पप्रच्छ निपुणः सूतं पृथिव्यायामविस्तरौ ॥ १
कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभो । कियन्ति चैव वर्षाणि तेषु नद्यश्च का स्मृताः ॥ २
महाभूतप्रमाणं च लोकालोकौ तथैव च । पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ॥
[*एतत्प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ॥ ३

सूत उवाच-
अत ऊर्ध्वं प्रवक्ष्यापि पृथिव्यायामविस्तरम् । संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ॥ ४
यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः । महाभूतप्रमाणं च लोकालोकौ तथैव च ॥
पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ] ॥ ५
द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै । न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ॥ ६
सप्तद्वीपं तु वक्ष्यामि चन्द्रादित्यग्रहैः सह । येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७
अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत् । प्रकृतिभ्यः परं यच्च तन्नित्यं च प्रचक्ष्य(क्ष)ते
नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा । विस्तरान्मडलाच्चैव योजनैस्तन्निबोधत ॥ ९
शतमेकं सहस्राणां योजनानां प्रमाणतः । नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ॥ १०
सिद्धचारणगन्धर्वपर्वतैश्चोपशोभितम् । सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ॥
पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ॥ ११
जम्बूद्वीपः पृथुः श्रीमान्सर्वतः परिवारितः । नवाभिश्चाऽऽवृतः सर्वैर्भुवनैर्भूतभावनैः ॥
(+लावणेन समुद्रेण सर्वतः परिवारितः ॥ ) १२
जम्बूद्वीपस्य विस्तारात्समेन तु समंततः । प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः ॥
अवगाढा उभयतः समुद्रौ पूर्वपश्चिमौ ॥ १३
हिमप्रायश्च हिमवान्हेमकूटश्च हेमवान् । तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ॥ १४
चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्चतमः स्मृतः । प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥ १५
नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिबन्धनसंभूतो ब्रह्मणोऽव्यक्तजन्मनः ॥ १६


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । +इदमर्धं नास्ति ख. घ. पुस्तकयोः ।

[अ० ३४ श्लो० १७-३७] वायुपुराणम् । १११

( जम्बूद्वीपवर्णनम् )

पूर्व्वतः श्वेतवर्णोऽसौ ब्राह्मण्यं तस्य तेन तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ १७
भृङ्गपत्रनिभश्चासौ पश्चिमेन महाबलः । तेनास्य शूद्रता दृष्टा मेरोनानार्थकारणात् ॥ १८
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रता च स्यादिति वर्णाः प्रकीर्तिताः ॥
व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १९
नीलश्च वैदूर्यमयः श्वेतशृङ्गो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भस्तु शृङ्गवान् ॥ २०
एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २१
मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः । नवैव तु सहस्राणि विस्तीर्णः पर्वतस्तु सः ॥
मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥ २२
वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम् । वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्वताः ॥ २३
द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रवात् ॥ २४
जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥ २५
नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ २६
नवतिर्द्धावशीतिद्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥
संपातविषमैस्तैस्तु पर्वतैरावृतानि च । संततानि नदीभेदैरगम्यानि परस्परम् ॥ २७
वसन्ति तेषु सत्त्वानि नानाजातीनि भागशः ॥ २८
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् । हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥ २९
नैषधं हेमकूटं तु हरिवर्षं तदुच्यते । हरिवर्षात्परं चैव मेरोश्च तदिलावृतम् ॥
इलावृतप(तात्प)रं नीलं रम्यकं नाम विश्रुतम् । रम्यात्परतरं श्वेतं विश्रुतं तद्धिरण्मयम् ॥ ३०
हिरण्मयात्परं चापि शृङ्गवांस्तु कुरु स्मृतम् ॥ ३१
धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥
अर्वाक्च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्धं तु तदुत्तरम् ॥ ३२
वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ ३३
तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥
उदगायतो महाशैलो माल्यवान्नाम पर्वतः । योजनानां सहस्रोरुरानीलनिषधा यतः ॥ ३४
[*आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामादथ विस्तारान्माल्यवानिति विश्रुतः ] ॥ ३५
परिमण्डलयोर्मध्ये मेरुस्तनपर्वतः । चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः ॥ ३६
अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ॥
अव्यक्तात्पृथिवीपद्मं मेरुर्वैपर्वतकर्णिकम् । चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥ ३७


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

११२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ३४ श्लो० ३८–६३]
(जम्बूद्वीपवर्णनम्)

ततः सर्वाः समुत्पन्ना वृत्तयो द्विजसत्तमाः । नैककल्पार्जितैः पुण्यैर्विविधैः प्रागुपार्जितैः ॥ ३८
कृतात्मभिर्विनीतात्मा महात्मा पुरुषोत्तमः । महादेवो महायोगी जगज्ज्येष्ठो महेश्वरः ॥
सर्वलोकगतोऽनन्तो ह्यमूर्तित्वादजायत ॥ ३९
न तस्य प्राकृता मूर्तिमंसमेदोऽस्थिसंभवा । योगाच्चैवेश्वरत्वाच्च सर्वात्मा(त्म)गत एव सः ॥ ४०
तन्निमित्तं समुत्पन्नं लोकपद्मं सनातनम् । कल्पशेषस्य तस्याऽऽदौ कालस्य गतिरीदृशी ॥ ४१
तस्मिन्पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः । प्रजापतिपतिर्ब्रह्मा ईशानो जगतः प्रभुः ॥ ४२
तस्य बीजनिसर्गो हि पुष्करस्य यथार्थवत् । कृत्स्नः प्रजानिसर्गेण विस्तरेणेह कथ्यते ॥ ४३
यदब्जं वैष्णवं कार्यं ततस्तन्नाभितोऽभवत् । पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ४४
तदस्य लोकपद्मस्य विस्तरेण प्रकाशितम् । वर्णमानं विभागेन क्रमशः शृणुत द्विजाः ॥ ४५
महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः । ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ॥ ४६
नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते । पीतं तु दक्षिणं तस्य शृङ्गं कृष्णं तथाऽपरम् ॥ ४७
उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम् । मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ॥ ४८
तरुणादित्यवर्णाभो विधूम इव पावकः । चतुरशीतिसाहस्र उत्सेधेन प्रकीर्तितः ॥ ४९
प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु । स शरावास्थितः पूर्वं द्वात्रिंशन्मूर्धिन विस्तृतः ॥ ५०
विस्तारात्रिगुणश्चास्य परिणाहः समन्ततः । [*मण्डलेन प्रमाणेन त्र्यस्रेऽर्धं तु तदिष्यते ॥ ५१
चत्वारिंशलसहस्राणि योजनानां+] समन्ततः । अष्टाभिरधिकानि स्युःस्त्र्यस्रे मानं प्रकीर्तितम् ॥ ५२
चतुरस्रेण मानेन परिणाहः समन्ततः । ] चतुःषष्टिः सहस्राणि योजनानां ] विधीयते ॥ ५३
स पर्वतो महान्दिव्यो दिव्योपधिसमन्वितः । नैवभुरावृतः सर्वो जातरूपमयैः शुभैः ॥ ५४
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजे प्रदश्यन्ते शुभाश्चाप्सरसां गणाः ॥ ५५
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः । चत्वारो यस्य देशा वै नानापार्श्वेष्वधिष्ठिताः ॥ ५६
भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमः । उत्तरा कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ५७
कर्णिका तस्य पद्मस्य समन्तात्परिमण्डला । योजनानां सहस्राणि नवतिः षट्प्रकीर्तिताः ॥
चत्वारश्चाप्यशीतिश्च अन्तरा(र)न्तरधिष्ठिताः ॥ ५८
त्रिशतं च सहस्राणि योजनानां प्रमाणतः । तस्य केशरजालानि विस्तीर्णानि समन्ततः ॥ ५९
शतसाहस्रिकामाया साशीतिपृथुलायता । चत्वारि तस्य पत्राणि योजनानां चतुर्दिशम् ॥ ६०
तत्र याऽसौ मया पूर्वं कर्णिकेत्यभिशब्दिता । तां वर्ण्यमानामेकाग्राः समासेन निबोधत ॥ ६१
शताश्रिमेनं मेनेऽत्रिः सहस्राश्रिमृषिर्भृगुः । अष्टाश्रिमेनं सावर्णिश्चतुरस्रं तु भागुरिः ॥ ६२
व(वा)र्ष्याणिस्तु सामुद्रं शरावं चैव गालवः । ऊर्ध्वणीकृतं गार्ग्यः कोष्ठाकिः परिमण्डलम् ॥ ६३


* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

[अ० ३४ श्लो० ६४-९१] वायुपुराणम् । ११३
( जम्बूद्वीपवर्णनम )

यद्यद्यस्य हि यत्पार्श्वं पर्वताधिपतेर्ऋषिः । तत्तद्देवस्य वेदासौ ब्रह्मैवं वेद कृत्स्नशः ॥ ६४
मणिरत्नमयं चित्रं नानावर्णप्रभायुतम् । अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ॥ ६५
कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम् । सहस्रशतपत्रं तं विद्धि मेरुं नगोत्तमम् ॥ ६६
मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः । सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ॥ ६७
विमानयनैः श्रीमाद्भिः शतसंख्यैर्दिवौकसाम् । प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ॥ ६८
तस्य पर्वप्रहस्रेऽस्मिन्नानाश्रयविभूषिते । सर्वदेवनिकायानि सांनिविष्टान्यनेककः ॥ ६९
तमावसद्धोर्ध्वतले देवदेवश्चतुर्मुखः । ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ॥ ७०
महाभुवनसम्पूर्णैः सर्वैः कामफलप्रदैः । महापुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ॥ ७१
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता । नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ॥ ७२
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम् । महाविमानसंस्थस्य महिम्ना वर्तते सदा ॥ ७३
तत्र सार्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा । तदेव तेजसां राशिर्देवानां तत्र कीर्त्यते ॥ ७४
तत्राऽऽस्ते श्रीपतिः श्रीमान्स साक्षः पुरंदरः । उपास्थानस्त्रिदशैर्महायोगैः सुरर्षिभिः ॥ ७५
तत्र लोकपतेः स्थानमादित्यसमवर्चसः । महेन्द्रस्य महाराजः सर्वसिद्धैर्नमस्कृतम् ॥ ७६
तामिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम् । दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ॥ ७७
द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्वदक्षिणे । नानाधातुशतैश्चित्रैः सुरम्यमतितेजसम् ॥ ७८
नैकरत्नार्चिततलमनेकस्तम्भसंयुतम् । जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ॥ ७९
कूटागारैर्विनिक्षिप्तमनेकैरभ्रनोच्चमैः । महाविमानं प्राथितं भास्वरं जातवेदसम् ॥ ८०
सा हि तेजोवती नाम हुताशस्य महासभा । साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ॥ ८१
शिखाशतसहस्राढ्यो ज्वालामाली विभावसुः । स्तूयते हूयते चैव तत्र सार्षिगणैः सुरैः ॥ ८२
अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते । सविभागं च तेजश्च सर्व ए(मे)व न संशयः ॥ ८३
भोगान्तरमनुप्राप्त एकत्रतेजोविभुः स्मृतः । पृथक्त्वं च हि युक्त्या तु कार्यकारणमिश्रितम् ॥ ८४
तमाभं लोकलोकज्ञैस्तद्गीयैस्ततपराक्रमैः । महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ॥ ८५
तृतीयेऽप्यन्तरतट एवमेव महासभा । वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ॥ ८६
तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा । नाम्ना कृष्णाञ्जना नाम विरूपाक्षस्य धीमतः ॥ ८७
पञ्चमेऽप्यन्तरतटे एवमेव महासभा । वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती ॥
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ८८
परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे । वायौर्गन्धवती नाम सभा सर्वगुणोत्तरा ॥ ८९
सप्तमेप्यन्तरतटे नक्षत्राधिपतेः सभा । नाम्ना महोदया नाम शुद्धवैदूर्यवेदिका ॥ ९०
तथाऽष्टमेऽन्तरतट ईशानस्य महात्मनः । यशोवती नाम सभा सप्तकाञ्चनसुप्रभा ॥ ९१

१५