वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
अपत्यभाग्भवति परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ १०६
३०६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८३श्लो०१०६-१२९]
( श्राद्धकल्पः)
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु ।
अपत्यभाग्भवति परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ १०६
येन प्रोक्तोस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे । महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ॥ १०७
इत्येते पितरस्तात देवानामपि देवताः । सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ॥ १०८
प्रजापतिसुता ह्येते सर्वे चैव महात्मनः । आद्यो गणस्तु योगानां स नित्यो योगवर्धनः ॥ १०९
द्वितीयो देवतानां नु तृतीयो देवतागणिाम् । शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥ ११०
देवास्त्वेतान्यजन्ते वै सर्वेष्वेतेष्वव्यवस्थिताः आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ॥ १११
वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि । तथा संकरजाताश्च म्लेच्छाश्चैव यजन्ति वै ॥ ११२
पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम् । पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥
पुष्टिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ॥ ११३
देवकार्यादपि सूनो पितृकार्यं विशिष्यते । देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ॥ ११४
न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः । तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ॥ ११५
सर्वेषां रजतं पात्रमथवा रजतान्वितम् । पावनं सुत्तमं प्रोक्तं देवानां पितृभिः सह ॥ ११६
येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः । भूमौ कुशोत्तरायां च अपसव्यविधानतः ॥ ११७
सर्वत्र वर्तमानांस्ते पिण्डाः प्रीणन्ति वै पितॄन् । यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ॥ ११८
यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् । तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ॥ ११९
नाम गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम् । अपि योनिशतं प्राप्तांस्तृप्तिस्ताननुगच्छति ॥ १२०
एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना । पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ॥ १२१
इत्येते पितरो देवा देवाश्च पितरः पुनः । दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ॥ १२२
लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा । दानानि सह शौचेन तीर्थानि च फलानि च ॥ १२३
अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा । प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत्पुरा ॥ १२४
बृहस्पतिरुवाच--
इत्येतदङ्गिराः प्राह ऋषीणां शृण्वतां तदा । पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ॥ १२५
सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके । यस्मिन्गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ॥ १२६
संवत्सरशतान्पञ्च तत्रोपेता इति श्रुतिः । श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥ १२७
दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः । तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिनाम् ॥
लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना ॥ १२८
सूत उवाच--
एवं बृहस्पतिः पूर्वं पृष्टः पुत्रेण धीमता । प्रोवाच पितृवंशं तु यत्तद्वै समुदाहृतम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ॥ १२९
इति महापुराणे वायुप्रोक्ते श्राद्धकल्पे त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७४९१
[अ० ८४ श्लो० १-२५]
(श्राद्धकल्पः)
वायुपुराणम् ।
३०७
अथ चतुरशीतितमोऽध्यायः ।
श्राद्धकल्पे वरुणवंशवर्णनम् ।
ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः । परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम् ॥ १
ऋषय ऊचुः--
वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥ २
एवमुक्तस्ततः सूतस्तथाऽसौ लोमहर्षणः । शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ॥ ३
आख्यानकुशलो भूयः परं वाक्यमुवाच ह ।
सूत उवाच--
ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ॥ ४
वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैव प्रभावं च ब्रुवतो मे निबोधत ॥ ५
वरुणस्य पत्नी सामुद्री शुनादेवीत्युदाहृता । तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ॥ ६
कलिपुत्रौ महावीर्यौ जयश्च विजयश्च ह । वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥ ७
प्रजानामत्तुकामानामन्योन्यस्य प्रभाक्षिणौ । भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ॥ ८
कलिः सुरायां संजज्ञे तस्य पुत्रो मदः स्मृतः । त्वाष्ट्री हिंसा कलेर्भार्या ज्येष्ठा या निकृतिः स्मृता ॥
असूतान्यान्कलेः पुत्रांश्चतुरः पुरुषादकान् । नाकं विघ्नं च विख्यातं सद्रमं विधमं तथा ॥ १०
अशिरस्कस्तयोर्विघ्नो नाकश्चावाशरीरवान् । सद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥ ११
सद्रमस्य तथा पत्नी तामसी पूतना स्मृता । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥ १२
नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी । राक्षसास्तु महारौद्राः संध्याद्वयविचारिणः ॥ १३
रेवतीपूतनापुत्रा नैर्ऋता नामतः स्मृताः । ग्रहास्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥
स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ॥ १४
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नममसक्ता चरेत सदा ॥ १५
प्रभातस्य तु सा भार्या वसूनामष्टमस्य तु । विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ॥ १६
त्वष्टा विराजा रूपाणां धर्मपौत्र उदारधीः । कर्ता शिल्पसहस्राणां त्रिदशानां च वास्तुकृत् ॥ १७
यः सर्वेषां विमानानि देवतानां चकार ह । मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १८
प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना । विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ॥ १९
देवाचार्यस्य महतो विश्वकर्माऽस्य धीमतः । विश्वकर्मात्मजश्चैव विश्वकर्मा मयः स्मृतः ॥ २०
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी । त्वाष्ट्री सा सवितुर्भार्या पुनः संज्ञेति विश्रुता ॥ २१
असूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः । यमौ पुनरसूतौसौ यमं च यमुनां च ह ॥ २२
सा तु गत्वा कुरुन्देवी वडवारूपधारिणी । सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ॥ २३
असूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल । नासत्यं चैव दस्रं च मार्तण्डस्याऽऽत्मजावुभौ ॥ २४
ऋषय ऊचुः--
कस्मान्मार्तण्ड इत्येष विवस्वानुच्यते बुधैः । किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत ॥
एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ॥ २५
३०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८४श्लो०२६-५२]
(श्राद्धकल्पः)
सूत उवाच--
चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् । दृष्ट्वा गर्भबधाद्धीतः कश्यपो दुःखितोऽभवत् ॥ २६
अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत् । नैतदण्डं भवान्नूनं मार्तण्डस्त्वं भवानघ ॥ २७
न खल्वयं मृतोऽण्डस्थ इति स्नेहात्पिताऽब्रवीत् । तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ॥ २८
यन्मार्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते । तस्माद्दिवस्वान्मार्तण्डः पुराणज्ञैर्विभाष्यते ॥ २९
ततः प्रजाः प्रवक्ष्यामि मार्तण्डस्य विवस्वतः । विजज्ञे सवितुः संज्ञाभार्यायां तु त्रयं पुरा ॥ ३०
मनुर्यवीयान्सावर्णिः संज्ञायां च तथाऽश्विनौ । शनैश्चरश्च सप्तैते मार्तण्डस्याऽऽत्मजाः स्मृताः ॥ ३१
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महायशाः । तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः ॥
सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ॥ ३२
सा तु भार्या भगवतो मार्तण्डस्यातितेजसः । नातुष्यद्भर्तुरूपेण रूपयौवनशालिनी ॥ ३३
आदित्यस्य हि तद्रूपं मार्तण्डस्य हि तेजसा । गात्रेषु प्रतिरुद्धं वै नातिकान्ताभिभाववत् ॥ ३४
न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् । अज्ञानः कश्यपः स्नेहान्मार्तण्ड इति चोच्यते ॥ ३५
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । येनापि तापयामास त्रीँल्लोकान्कश्यपात्मजः ॥ ३६
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ॥ ३७
मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ततो यमो यमी चैव यमजौ संबभूवतुः ॥ ३८
शातवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः । असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥ ३९
महीमयी तु सा नारी तस्याश्छायासमुद्गता । प्राञ्जालिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥ ४०
वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ॥ ४१
त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया । इमौ च बालको मह्यं कन्या च वरवर्णिनी ॥ ४२
भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया । एवमुक्ताऽब्रवीत्संज्ञां संज्ञा या पार्थिवी तु सा ॥ ४३
आकेशग्रहणाद्देवि आशयं नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ॥ ४४
समाधाय च तां संज्ञा तथेत्युक्तां तया च सा । त्वष्टुः समीपमगमद्ब्रीडितेव तपस्विनी ॥ ४५
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् । भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ॥ ४६
सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः । वर्षाणां तु सहस्रं वै वसति स्म पितुर्गृहे ॥ ४७
भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः । अगमद्वडवा भूत्वाऽऽच्छाद्य रूपमनिन्दिता ॥
उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा ॥ ४८
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् । आदित्यो जनयामास पुत्रावादित्यवर्चसौ ॥ ४९
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभुः । श्रुतश्रवं तु धर्मज्ञं श्रुतकर्मणमेव च ॥ ५०
श्रुतश्रवा मनुः सोऽपि सावर्णिर्वै भविष्यति । श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ॥ ५१
मनुरेवाभवत्स वै सावर्ण इति बुध्यते । संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ॥ ५२
[अ०८४श्लो०५३-८२] वायुपुराणम्। ३०९
(श्राद्धकल्पः)
चकाराभ्याधिकं स्नेहं न तथा पूर्वजेषु वै । मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ॥ ५३
बहुशो यस्य मानस्तु ( अवमानितश्च बहुशः ) सापत्न्यादातिदुःखितः ।
तां वै रोषाच्च बालचाच्च भाविनोऽर्थस्य वै बलात् ॥ ५३
पदा संतर्जयामास संज्ञां वैवस्वतो यमः । सा शशाप ततः क्रोधात्सवर्णा जननी यमम् ॥ ५४
पदा तर्जयसे यस्मात्पितृभार्यां यशस्विनीम् । तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ ५५
यमस्तु तेन शापेन भृशं पीडितमानसः । मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् ॥ ५६
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः । बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ॥ ५७
शमोऽहमास्मि लोकेश जनन्या तपतां वर । तत्र प्रसादो नस्त्रातु ह्येतस्मान्महतो भयात् ॥ ५८
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः । 'असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ ५९
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् । न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ॥ ६०
क्रिमयो मांसमादाय यास्यन्ति तु महीं तव । ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ॥ ६१
कृतमेवं वचः सत्यं मातुस्तव भविष्यति । शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६२
आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु वै । तुल्येष्वप्याधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ ६३
सा तत्परिहरन्ती वै नाऽऽचचक्षे विवस्वतः । आत्मना स समाधाय योगं तथ्यमपश्यत ॥ ६४
तां शप्तुकामो भगवानान्नाशाय कुपितः प्रभुः । सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ॥ ६५
विवस्वानाथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् । त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥ ६६
निर्दग्धुकामं रोषेण सान्त्वयामास वै शनैः । तवातितेजसा युक्तमिदं रूपं न शोभते ॥ ६७
असहन्ती तु तत्संगा वने चरति शाद्वले । द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ॥ ६८
श्लाघ्यां यौवनसंपन्नां योगमास्थाय गोपते । अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥ ६९
रूपं निवर्तयेऽयं ते आद्यं श्रेष्ठमरिंदम । रूपं विवस्वतस्त्वार्सीच्चित्यमूर्ध्वमधस्तथा ॥ ७०
तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः । तस्मात्त्वष्टा स चक्रं तु बहु मेने महातपाः ॥ ७१
अनुज्ञातस्ततस्त्वष्टा रूपनिवर्तनाय तु । ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ॥ ७२
भ्रमिमारोप्य तत्तोजः शातयामास तस्य वै । तत्तु निर्भासितं तेजस्तेजसाऽपहतेन तु ॥ ७३
कान्तात्कान्ततरं द्रष्टुमशुभं शुशुभे ततः । ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥ ७४
अदृश्यां सर्वभूतानां तेजसा नियमेन च । अश्वरूपेण मार्तण्डस्तां मुखे समभावयत् ॥ ७५
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया । सा तन्निर्धमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ७६
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ७७
मार्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः । तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ७८
सा तं दृष्ट्वा तदा भार्या तुतोष च मुमोह च । यमस्तु तेन शापेन भृशं पीडितमानसः ॥ ७९
धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः । सोऽलभत्कर्मणा तेन शुभेन परमद्युतिः ॥ ८०
पितॄणामाधिपत्यं च लोकपालत्वमेव च । मनुः प्रजापतिस्त्वेवं सावर्णः स महायशाः ॥ ८१
भाव्यसौ नागते तस्मिन्मनुः सावर्णिकेऽन्तरे । मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ॥ ८२
३१० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८४-८५श्लो०८३-८६।१-१८]
(श्राद्धकल्पः)
भ्राता शनैश्चरस्तत्र ग्रहत्वं स तु लब्धवान् । त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत् ॥
महाप्रतिहतं युद्धे दानवपतिवारणे ॥ ८३
यवीयसी तयोर्या तु यमुना च यशस्विनी । अभवत्सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ॥ ८४
यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु सांप्रतम् । विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥ ८५
इदं तु जन्म देवानां शृणुयाद्वा पठेत् वा । वैवस्वतस्य पुत्राणां सप्तानां तु महौजसाम् ॥
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ ८६
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतोत्पत्तिवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७५५७
अथ पञ्चाशीतितमोऽध्यायः ।
श्राद्धकल्पे वैवस्वतमन्वंशवर्णनम् ।
सूत उवाच--
ततो मन्वन्तरेऽतीते चाक्षुषे देवतैः सह । वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ १
तस्य वैवस्वतो वक्ष्ये सांप्रतस्य महात्मनः । आनुपूर्व्येण वै विप्राः कीर्त्यमानं निबोधत ॥ २
मनोर्वैवस्वतस्येह सर्वमादाय सांप्रतम् । मनोः प्रथमजस्याऽऽसन्सप्त पुत्रास्तु तत्समाः ॥ ३
इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तस्तथा प्रांशुर्नाभागोऽरिष्ट एव च ॥
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ ४
ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत । स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्तत ॥ ५
अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः । मित्रावरुणयोरंशे मनुराहुतिमावपत् ॥ ६
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः ॥ ७
तामिलेत्यथ होवाच मनुर्दण्डधरः स्मृतः । अनुगच्छामि भद्रं ते तमिला प्रत्युवाच ह ॥ ८
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् । मित्रावरुणयोरंशे जाताऽस्मि वदतां वर ॥ ९
तयोः सकाशं यास्यामि मानो धर्मो हतोऽवधीत् । सैवमुक्त्वा पुनर्देवी तयोरन्तिकमागतम् ॥ १०
गत्वाऽन्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशोऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ॥
मनुनैवाहमुक्ताऽस्मि अनुगच्छस्व मामिति । तथा तु वदती साध्वीमिडामाश्रित्य तावुभौ ॥ १२
देवौ च मित्रावरुणाविदं वचनमूचतुः । अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥ १३
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि । आवयोस्त्वं महाभागे ख्यातिं कन्या प्रयास्यसि ॥ १४
सुद्युम्न इति विख्यातिस्त्रिषु लोकेषु पूजितः । जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ॥ १५
मानवः स तु सुद्युम्नः स्त्रीभावमगमत्प्रभुः । सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ १६
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । सोमपुत्राद्बुधाच्चास्या ऐलो जज्ञे पुरूरवाः ॥ १७
बुधात्सा जनयित्वा तु सुद्युम्नं पुनरागता । सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ १८