सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२२ श्रीतन्त्रालोकः ।
स्थानं-स्थापनमुद्रया भगवतोऽवस्थानम्, आसनं-
संनिधानमुद्रया पूजां प्रति औन्मुख्यं, निरोधः-तत्रै-
वाविचलत्त्वेनावस्थानम्, अर्घोऽष्टाङ्गः, संधानं मन्त्रा-
दिविषयम्, आवाहनं-अनभिमुखस्याभिमुखीकरणं,
विसर्जनम् - अभिमुखीभूतस्यानभिमुखीकरणम्,
एषामावाहनादिविसर्जनान्तानामसत्त्वे हेतुगर्भं विशे-
षणं - 'कर्तृ इत्यादि' कर्त्रादीनां हि विकल्पैकपरमार्थ-
त्वात्, प्रकाशस्य च परप्रमात्रेकात्मकत्वेनाविकल्प्य-
त्वात् न केनचिदपि व्यपदेशेन व्यपदेष्टुं शक्यते, इति
'नैष शक्तिः' इत्यायुक्तम् ॥२७॥
न चैतद्युक्तिमात्रशरणम्, अपि त्वागमेनापि
सिद्धम्, इति श्रीभर्गशिखां संवादयति ।
न सन्न चासत्सदस-
न्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था
किमप्येतदनुत्तरम् ॥२८॥
पं० २ ख० पु० पूज्यं प्रति इति पाठः ।
पं० ७ ख० पु० कर्त्रादयो हि इति पाठः, तदनुसारेण शक्यन्ते इति च समु-
चितः प्रतिभाति ।

प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं

श्लोक ३०] द्वितीयमाह्निकम्। २३
अयमित्यवभासो हि
यो भावोऽवच्छिदात्मकः।
स एव घटवल्लोके
संस्तथा नैष भैरवः ॥२६॥
लोके हि सजातीयव्यावृत्तौ यः कश्चिदर्थः
'अयमिति' पुरोवर्तित्वेनावभासते भावः, स एव
'सत्' इत्यभिधीयते, यथा - घट इति, समनन्तरव्या-
ख्यातस्वरूपः प्रकाशः पुनरनन्तभावनिर्भरो न तथा-
महासत्तात्मत्वेनानवच्छिन्नत्वात् नैवंरूपः - सच्छब्द-
व्यवहार्यो न भवति, इति यावत् ॥२८-२६॥
एवं तर्ह्यसच्छब्दव्यवहार्यो भवेत् ? इत्याशंक्याह
असत्त्वं चाप्रकाशत्वं
न कुत्राप्युपयोगिता ।
प्रकाश एव सर्वभावानां परा सत्ता इत्यसत्त्वं
नामाप्रकाशत्वमकिंचिद्रूपत्वमुच्यते, यथा - शशवि-
पं० २ क० पु० यो भावो वा चिदात्मक इति पाठः ।
पं० ५ क० पु० व्यावृत्ततायाः कश्चनार्थ इति पाठः ।
पं० ८ क० ख० पु० पुनरन्तर्भावेति पाठः ।
पं० ६ क० पु० महासत्तात्मत्वान्नैवमिति पाठः ।
पं० १२ ग० पु० असत्यं चाप्रकाशस्येति पाठः ।

प्रकाशः पुनर्न तथा इत्याह

२४ श्रीतन्त्रालोकः ।
षाणादेः, अत एव च तन्न कुत्रापि कस्यांचिदपि
अर्थक्रियायामुपयुक्तम् - न कांचिदप्यर्थक्रियां करो-
ति, इति यावत् ॥
प्रकाशः पुनर्न तथा इत्याह
विश्वस्य जीवितं सत्यं
प्रकाशैकात्मकश्च सः ॥३०॥
विश्वस्य - चेतनाचेतनात्मनः सर्वस्य, पारमार्थिकं
जीवितं - स्फुरत्तात्मकत्वेन अनुप्राणकं, नहि तेन
विना किंचिदपीदं प्रकाशते, इत्युक्तम् 'प्रकाशैकात्म-
कश्च' इति - एवमनेकरूपत्वादसच्छब्दव्यवहार्योऽपि,
न भवेदिति भावः ॥३०॥
अत एव सदसदात्मापि न, इत्याह
आभ्यामेव तु हेतुभ्यां
न द्वयात्मा न द्वयोज्झितः ।
सर्वात्मना हि भात्येष
केन रूपेण मन्त्यताम् ॥३१॥
आभ्यां - समनन्तरोक्ताभ्यामनवच्छिन्नत्वप्रका-

श्लोक ३१ ] द्वितीयमाह्निकम् । २५
शमानत्वलक्षणाभ्याम्, ननु यद्येवं तर्हि सदसदात्म-
करूषद्वयोत्तीर्णः स्यात् ? इत्याशंक्याह ‘न द्वयेत्यादि’
भावाभावावभासकालेऽपि स एव हि परमवभासते,
इति कथं सदसद्भ्यामप्युज्झितः स्यात् ? अत आह
‘सर्वात्मना हि भात्येष’ इति, — एवमेतत्परप्रमात्रे-
कात्म भवत्येव अन्यथा ह्यनवच्छिन्नरूपत्वात्कदाचि-
दपि विकल्पतां न यायात् इति तात्पर्यार्थः, यदुक्तम्
‘सतोऽवश्यं परमसत्सत्त्व तस्मात्परं विभो ।
त्वं चासतः सतश्चान्यस्तेनासि सद्सन्मयः ॥’
इति । तथा
‘न शान्तमुदितं वापि तव रूपं न मध्यमम् ।
रूपं रूपं तव हरे यन्न केनचिदुच्यते ॥’
इति, अतश्च केन तावत्कल्पितेन रूपेण एत-
दुच्यते इति न जानीमः, इयं हि दशा विकल्पोपहत-
बुद्धीनां मायाप्रमातृणां दुर्विज्ञेया — यथोक्तयुक्त्या
ज्ञातुमशक्यैवेत्यर्थः, साक्षात्कृतपरमात्मतत्त्वानामामवि-
पं० ५ क० पु० परप्रमाणको भवतीति पाठः ।
पं० १४ क० पु० केन तावत्क्रियते केनेति पाठः ।
४

२६ श्रीतन्त्रालोकः ।
कल्पवृत्तीनां पुनरेतत्स्वानुभूतिमात्ररूपपरानन्दच-
मत्कारघनत्वेन सर्वातिशायि भासते एव, इत्युक्तं
'किमप्येतदनुत्तरम्' इति ॥ ३१ ॥
न केवलमेतदत्रैवोक्तं यावदन्यत्रापि, इत्याह
श्रीमत्त्रिशिरसि प्रोक्तं
परज्ञानस्वरूपकम् ।
शक्त्या गर्भान्तर्वर्तिन्या
शक्तिगर्भं परं पदम् ॥३२॥
'परं ज्ञानं कथं देव' इति देवीप्रश्ननिर्णयार्थं ह्येत-
दत्र परज्ञानरूपं भगवतोक्तमित्याशयः, तदेव पठति
'शक्त्या' इत्यादि, यदेतत्परं पदं तच्छक्तिगर्भं, शक्ति-
रेव स्वातन्त्र्यविमर्शादिपदाभिधेया गर्भः सारं यस्य
तत्, सा च न तदतिरेकिणी, इत्याह 'शक्त्या गर्भा-
न्तर्वर्तिन्या' इति, यतस्तयैव स्वातन्त्र्याख्यया शक्त्या
गर्भोऽन्तरं प्रमात्रैकात्म्यं तस्यान्तः परा काष्ठा तेन
वर्तते तच्छीला-तया स्वस्वभावरूपयोपलक्षित-
मित्यर्थः, अन्यथा ह्यस्य परत्वमेव न स्यात्, यदुक्तम्
पं० ७ क० पु० गर्भान्तवासिन्या इति पाठः ।

प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'

श्लोक ३३ ] द्वितीयमाह्निकम् । २७
'स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
इति, अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव
एव तिष्ठति-सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत
एव शक्तिगर्भ-स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः
शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थो-
पाधिवशान्नानात्वेन व्यवह्रियत इति भावः, यदुक्तम्
'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥'
इति, तेन 'स्वतन्त्रो बोधः परमार्थः' इत्याद्युक्तनी-
त्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्र-
काश एव परं तत्त्वम्, इति तात्पर्यम् ॥ ३२ ॥
अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विक-
ल्प्यतां नैति, इत्याह
न भावो नाप्यभावो न
द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं
शक्तिस्थं शक्तिवर्जितम् ॥ ३३ ॥

२८ श्रीतन्त्रालोकः ।
अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा-
मगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमस-
कृत्स्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥
ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह
इति ये रूढसंवित्ति-
परमार्थपवित्रिताः ।
अनुत्तरपथे रूढा-
स्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥
इति - उक्तेन गुरूपदेशादिना, रूढा - तदैकात्म्य-
लाभादापादितप्ररोहा, या संवित्तिः, तस्या यः पर-
मार्थः - सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः - भेद-
विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः,
अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन
अनियन्त्रिताः - तन्निरपेक्षाः सन्तः, अनुत्तरपथे -
पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विका-
पं० १२ क० पु० विकारकारककालुष्यापनयेनेति पाठः ।
पं० १३ क० पु० तेनाभ्यतिरिक्तेनेति पाठः ।

श्लोक ३५ ] द्वितीयमाह्निकम् । २६
सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध-
तत्सामरस्या इत्यर्थः, तदुक्तम्,
'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् ।
केवलं चिद्विकासेन विकारनिकराञ्जहि ॥'
इति । तथा
'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।'
इति । तथा
'उपायो नापरः कश्चित्त्वसत्तावगमादृते ।
तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥'
इति ॥३४॥
ततश्च किम् ? इत्याह
तेषामिदं समाभाति
सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्ति-
भैरवाग्निविलापितम् ॥३५॥
तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया
पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं
'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं च ................. ॥'
पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः ।
पं० ६ क० पु० योगी स परम इति पाठः ।

३० श्रीतन्त्रालोकः ।
इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः,
यदुक्तम्
'यथा रुमायां पतिताः काष्ठपर्णोपलादयः ।
लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥'
इति ॥३५॥
अत एवाह
एतेषां सुखदुःखांश-
शंकातंकविकल्पनाः ।
निर्विकल्पपरावेश-
मात्रशेषत्वमागताः ॥३६॥
एषां न मन्त्रो न ध्यानं
न पूजा नापि कल्पना ।
न समय्यादिकाचार्य-
पर्यन्तः कोऽपि विभ्रमः ॥३७॥
न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य
एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह
'एषामित्यादि' कल्पना-स्थानादिका ॥ ३६-३७॥
पं० ७ क० पु० सुखदुःखानां शङ्केति पाठः ।
पं० ९ क० पु० परामर्शमात्रेति पाठः ।
पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।

श्लोक ३८ ] द्वितीयमाह्निकम् । ३१
ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्या-
शंक्याह
समस्तयन्त्रणातन्त्र-
त्रोटनाटंकधर्मिणः ।
नानुग्रहात्परं किंचि-
च्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥
समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – ‘इदं
कार्यम् इदं न’ इत्यादयो नियमाः, ता एव तन्यमान-
त्वात्तन्त्रं – पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां
विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंक-
स्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया
यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्संकोच
इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव निया-
मकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य
स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह
पं० ८ ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्दि-
दारणाधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।

३२ श्रीतन्त्रालोकः ।
'नानुग्रहांदिति' किंचिदिति - समयपरिपालनादि
॥ ३८ ॥
तदाह
स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना-
न्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् ।
यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः
कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ ३६ ॥
एष लोकः संकुचितः प्रमातृवर्गः तावत्
‘............अभिलाषो मलोऽत्र तु ।'
इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्ण-
मन्यतया 'किमपि' इति सामान्येन निर्देशात्सर्वमा-
त्मीयं कर्तव्यं, यत्नतः - आकांक्षणीयत्वेन, कलयन्
'तदसिद्धं यदसिद्धेन साध्यते ।'
इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं
परार्थं प्रत्यपि कांचन स्वल्पामपि स्वप्रवृत्तिं घट-
यते घटितापि वा तत्प्रवृत्तिर्न किंचित्कुर्यात् इति
भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृत-
पं० २ ख० पु० पारक्यमिति पाठः ।

श्लोक ३६ ] द्वितीयमाह्निकम् । ३३
निखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञाना-
पत्त्या स्वात्मनि कृतकृत्यत्वेन – आकांक्षणीयस्यैवा-
भावात् पूर्णः – अनन्योन्मुखतया स्वात्मन्येव विश्रा-
न्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं
कार्यं स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् –
अपरिम्लानं कृत्यं – लोकानुग्रह एवास्य कर्तव्य
इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्कर-
णीयमस्तीति भावः, यद्गीतं भगवता
'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥'
इति ।
'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥'
इति च ॥३६॥
द्विविधाश्च परानुग्रहाः–निमलसंविदोऽनिर्मल-
संविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरण-
मेवास्यानुग्रहकारित्वम्, इत्याह
पं० १ क० पु० ज्ञेयज्ञानापपत्त्या इति पाठः ।
५

३४ श्रीतन्त्रालोकः ।
तं ये पश्यन्ति ताद्रूप्य-
क्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्ताव-
त्येवास्यानुग्रहात्मता ॥४०॥
ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रश-
क्तिपातभाजो वा, तं—समनन्तरोक्तस्वरूपं, ताद्रूप्यक्र-
मेण पश्यन्ति 'निरुपायसमावेशभागयम्' इति ज्ञान-
पूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्सं-
वित्संक्रमात्
'......दीपाद्दीपमिवोदितम् ।'
इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन
तत्सदृशा एव भवन्ति इति शेषः, एवंरूपं सिद्धादि-
दर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव
संवादितम्
'सिद्धानां योगिनीनां च दर्शनम्............ ।'
इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य
अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा,
इत्यर्थः ॥ ४० ॥

श्लोक ४१ ] द्वितीयमाह्निकम् । ३५
ननु सर्वत्र दीक्षायाः
‘.........मुक्तिश्च शिवदीक्षया ।’
इत्याद्युक्त्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां
विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? इत्याशंक्याह
एतत्तत्वपरिज्ञानं
मुख्यं यागादि कथ्यते ।
दीक्षान्तं विभुना श्रीम-
त्सिद्धयोगीश्वरीमते ॥४१॥
एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य
परिज्ञानमेव मुख्यया वृत्त्या ‘यागहोमादि’ श्रीसिद्ध-
योगीश्वरीमतादौ - सर्वत्रैवागमे ‘विभुना’ कथ्यते
इति संबन्धः, अत एव च बाह्यं यागादि गौणम् -
इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्,
यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम्
‘नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते ।
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ॥’
इति ॥ ४१ ॥
तदेव पठति
पं० १४ क० पु० चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।

३६ श्रीतन्त्रालोकः ।
स्थण्डिलादुत्तरं तूरं
तूरादुत्तरतः पटः ।
पटाद्ध्यानं ततो ध्येयं
ततः स्याद्धारणोत्तरा ॥४२॥
ततोऽपि योगजं रूपं
ततोऽपि ज्ञानमुत्तरम् ।
ज्ञानेन हि महासिद्धो
भवेद्योगीश्वरस्त्विति ॥४३॥
स्थण्डिलं - यागार्थं गृहीतो भूप्रदेशः, तूरं -
पात्रादावुत्कीर्णं आकारविशेषः। ज्ञानस्य सर्वोत्कृष्टत्वे
हेतुमाह ‘ज्ञानेन’ इति, ज्ञानेन हि योगिनामपीश्वरः
स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वर-
शब्दयोरपि प्रयोगः ॥४२-४३॥
अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव
अनुग्रहकारित्वम्, इत्याह
सोऽपि स्वातन्त्र्यधाम्ना चे-
दप्यनिर्मलसंविदाम् ।

श्लोक ४६] द्वितीयमाह्निकम् । ३७
अनुग्रहं चिकीर्षुस्त-
द्भाविनं विधिमाश्रयेत् ॥४४॥
स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया - तत्त्रो-
टनायाः समनन्तरमेवोक्तत्वात् ॥४४॥
भावी च विधिः कीदृक् ? इत्याह
अनुग्राह्यानुसारेण
विचित्रः स च कथ्यते ।
परापराद्युपायौघ-
संकीर्णत्वविभेदतः ॥४५॥
'परापर' इत्येकशेषः, तेन - परः शाम्भवः, अपरः
आणवः, परापरः शाक्तः, संकीर्णत्वमुपायान्तर-
साहित्यात् ॥४५॥
न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयण-
मुपयुक्तं, यावत्तदभिधायकं शास्त्राद्यपि, इत्याह
तदर्थमेव चास्यापि
परमेश्वररूपिणः ।
पं० ३ क० पु० यन्त्रणायाः तत्त्रोटनस्येति पाठः ।

३८ श्रीतन्त्रालोकः ।
तदभ्युपायशास्त्रादि-
श्रवणाध्ययनादरः ॥४६॥
न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्या-
पि, इति अपिशब्दार्थः, यदुक्तम्
'शंकाशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति ।
न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ॥'
इति ॥४६॥
नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः
स्यात्? इत्याशंक्याह
नहि तस्य स्वतन्त्रस्य
कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसो-
ऽनुग्रहस्त्वनुपायकः ॥४७॥
नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वात-
न्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वा-
त्परार्थमस्य तत्स्वीकारः, यतः परेषामनिर्मलचित्त्वा-
दुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति-भावि-
विध्याश्रयणाद्यप्युक्तम् , यद्गीतं

श्लोक ४८] द्वितीयमाह्निकम्। ३६
'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥'
इति ॥४७॥
न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता,
पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति - निखिलस्य आह्नि-
कार्थस्याविगीततां दर्शयितुमाह
श्रीमदूर्भिमहाशास्त्रे
सिद्धसंतानरूपके ।
इदमुक्तं तथा श्रीम-
त्सोमानन्दादिदैशिकैः ॥४८॥
ऊर्मिमहाशास्त्र इति - श्रीमदूर्भिकौलसिद्धसंता-
नरूपके, इत्यनेन पादोवह्यां पारम्पर्येऽप्यम्लानत्वं
दर्शितम्, तत्र हि
'शून्यं न किंचित्तच्छून्यं त्वशून्यं शून्यता नहि।
यत्किंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ॥'
इति भगवत्या पृष्टो भगवान्
'आत्मा शून्य इह ज्ञेयः शिवधर्म्मैर्विनाकृतः ।
शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥'
इत्याद्युपक्रम्य

४० श्रीतन्त्रालोकः ।
'नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि ।
वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥
यद्भावि न तद्भावि यद्भावि न तदन्यथा ।
एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥
तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।'
इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशि-
कैः उक्तमिति - श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र
'भावनाकरणाभ्यां किं शिवस्य सततोदितेः ।
इति ।
'सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥'
इति च ॥४८॥
तदेव सर्वत्रावधातव्यमित्याह
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्
समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् ।
विलीने शंकाभ्रे हृदयगगनोल्लासिमहसः
प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४६॥
पं० १० क० पु० कारणमिति पाठः ।
पं० १३ क० पु० करणे नास्ति कृत्यं चेति पाठः ।
पं० १५ क० पु० तदेवमत्रापीति पाठः ।

श्लोक ४६] द्वितीयमाह्निकम्। ४१
गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः 'आत्मै-
वेश्वरः सर्वज्ञः सर्वकर्ता च' इत्यादिकानां युक्तीनां
प्रचयस्य या रचना-परपक्षबाधनस्वपक्षसाधनाधा-
यिका शास्त्रपरिपाटी, तया उन्मार्जनं - बौद्धाज्ञानोत्पुं-
सनं, तद्वशात् - बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्या-
दित्यर्थः । शास्त्रं - प्रभुसंमितमद्वैतागमं प्रति समा-
श्वासात्प्रत्ययादिति, व्यस्तात् - गुरुतः शास्त्रतः स्वतः
तीव्रतीव्रशक्तिभाजां, यद्वा समुदितात्-समस्तात्कथि-
तात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजां,
शंकाविकल्प एवावारकत्वादभ्रं, तस्मिन्विलीने सति,
हृदयं-विमर्श एव अनवच्छिन्नत्वाद्वगनं तत्रोच्चैर्भास-
नशीलं-ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव
ध्वान्तस्य स्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्म-
कस्य अज्ञानस्य, जयिनः प्रभोः-विश्वात्मकत्वेन प्रभव-
नशीलस्य परमात्मनः, चरणान् - चरेर्गत्यर्थत्वाद आण-
वादीनि ज्ञानानि, यूयं-समनन्तरोद्दिष्टाः तीव्रतीव्रा-
दिशक्तिपातभाजः, स्पृशत - यथोत्तरं स्वात्ममयतयैव
पं० ७ ख० पु० शास्त्रात् स्वस्माद्यद्वा तीव्र इति पाठः।
६