तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 352, कुल 368 में से
संदर्भ में पढ़ें३० श्रीतन्त्रालोकः ।
इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः,
यदुक्तम्
'यथा रुमायां पतिताः काष्ठपर्णोपलादयः ।
लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥'
इति ॥३५॥
अत एवाह
एतेषां सुखदुःखांश-
शंकातंकविकल्पनाः ।
निर्विकल्पपरावेश-
मात्रशेषत्वमागताः ॥३६॥
एषां न मन्त्रो न ध्यानं
न पूजा नापि कल्पना ।
न समय्यादिकाचार्य-
पर्यन्तः कोऽपि विभ्रमः ॥३७॥
न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य
एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह
'एषामित्यादि' कल्पना-स्थानादिका ॥ ३६-३७॥
पं० ७ क० पु० सुखदुःखानां शङ्केति पाठः ।
पं० ९ क० पु० परामर्शमात्रेति पाठः ।
पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।