तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 357, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ४१ ] द्वितीयमाह्निकम् । ३५
ननु सर्वत्र दीक्षायाः
‘.........मुक्तिश्च शिवदीक्षया ।’
इत्याद्युक्त्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां
विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? इत्याशंक्याह
एतत्तत्वपरिज्ञानं
मुख्यं यागादि कथ्यते ।
दीक्षान्तं विभुना श्रीम-
त्सिद्धयोगीश्वरीमते ॥४१॥
एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य
परिज्ञानमेव मुख्यया वृत्त्या ‘यागहोमादि’ श्रीसिद्ध-
योगीश्वरीमतादौ - सर्वत्रैवागमे ‘विभुना’ कथ्यते
इति संबन्धः, अत एव च बाह्यं यागादि गौणम् -
इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्,
यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम्
‘नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते ।
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ॥’
इति ॥ ४१ ॥
तदेव पठति
पं० १४ क० पु० चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।