तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
DevanagariSanskritpublished368 पृष्ठ
पृष्ठ 358, कुल 368 में से
संदर्भ में पढ़ेंपृष्ठ 358
३६ श्रीतन्त्रालोकः ।
स्थण्डिलादुत्तरं तूरं
तूरादुत्तरतः पटः ।
पटाद्ध्यानं ततो ध्येयं
ततः स्याद्धारणोत्तरा ॥४२॥
ततोऽपि योगजं रूपं
ततोऽपि ज्ञानमुत्तरम् ।
ज्ञानेन हि महासिद्धो
भवेद्योगीश्वरस्त्विति ॥४३॥
स्थण्डिलं - यागार्थं गृहीतो भूप्रदेशः, तूरं -
पात्रादावुत्कीर्णं आकारविशेषः। ज्ञानस्य सर्वोत्कृष्टत्वे
हेतुमाह ‘ज्ञानेन’ इति, ज्ञानेन हि योगिनामपीश्वरः
स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वर-
शब्दयोरपि प्रयोगः ॥४२-४३॥
अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव
अनुग्रहकारित्वम्, इत्याह
सोऽपि स्वातन्त्र्यधाम्ना चे-
दप्यनिर्मलसंविदाम् ।