सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 356, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 356

३४ श्रीतन्त्रालोकः ।
तं ये पश्यन्ति ताद्रूप्य-
क्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्ताव-
त्येवास्यानुग्रहात्मता ॥४०॥
ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रश-
क्तिपातभाजो वा, तं—समनन्तरोक्तस्वरूपं, ताद्रूप्यक्र-
मेण पश्यन्ति 'निरुपायसमावेशभागयम्' इति ज्ञान-
पूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्सं-
वित्संक्रमात्
'......दीपाद्दीपमिवोदितम् ।'
इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन
तत्सदृशा एव भवन्ति इति शेषः, एवंरूपं सिद्धादि-
दर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव
संवादितम्
'सिद्धानां योगिनीनां च दर्शनम्............ ।'
इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य
अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा,
इत्यर्थः ॥ ४० ॥