तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 353, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३८ ] द्वितीयमाह्निकम् । ३१
ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्या-
शंक्याह
समस्तयन्त्रणातन्त्र-
त्रोटनाटंकधर्मिणः ।
नानुग्रहात्परं किंचि-
च्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥
समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – ‘इदं
कार्यम् इदं न’ इत्यादयो नियमाः, ता एव तन्यमान-
त्वात्तन्त्रं – पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां
विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंक-
स्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया
यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्संकोच
इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव निया-
मकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य
स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह
पं० ८ ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्दि-
दारणाधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।