सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२५८ श्रीतन्त्रालोकः ।
अयमेव च शास्त्रार्थः इत्याह
इति ज्ञानचतुष्कं य-
त्सिद्धिमुक्तिमहोदयम् ।
तन्मया तन्यते तन्त्रा-
लोकनाम्न्यत्र शासने ॥२४५॥
इतीति तन्त्रालोके - तन्त्राणां पारमेश्वराणाम्
आलोक इव आलोकः, तानि आलोकयति प्रकाश-
यति इति वा । इति - उक्तस्वरूपं यत् ज्ञानचतुष्कं,
किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति
कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने
तन्यते - विस्तरेण प्रकाश्यते इत्यर्थः ॥२४५॥
अथ
'तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते ।
किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥'
इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णया-
त्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तद-
ङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते
पं० १४ क० पु० न्यायो न्यायाङ्गं तेनेति पाठः ।

श्लोक २४७] प्रथमाह्निकम् । २५६
तत्रेह यद्यदन्तर्वा
बहिर्वा परिमृश्यते ।
अनुद्घाटितरूपं त-
त्पूर्वमेव प्रकाशते ॥२४६॥
अन्तः - मानसविज्ञानादौ, अनुद्घाटितरूप-
मिति - अनुल्लिखितविशेषं, सामान्यधर्मात्मकम्
इत्यर्थः ॥ २४६ ॥
अयमेव च प्रायः 'संशयः' इत्युच्यते इत्याह
तथानुद्घाटिताकारा
निर्वाच्येनात्मना प्रथा ।
संशयः कुत्रचिद्रूपे
निश्चिते सति नान्यथा ॥२४७॥
तथा-प्राथमिकत्वेन अनुद्घाटितः करचरणादि-
विशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वता-
दिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्य-
तरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन
पं० १५ क० पु० अन्यतरधर्मे विशेषेति पाठः ।

२६० श्रीतन्त्रालोकः ।
नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण
विशिष्टा या प्रथा-प्रतीतिः सा संशयः, स हि
ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्र-
कोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति
उदियात् । तदाह 'कुत्रचित्' इत्यादि-कस्मिंश्चित्
सामान्यधर्मावच्छेदिनि धर्मिणि इत्यर्थः । नान्यथा
इति-सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा
इति यावत् ॥२४७॥
एतदेव विभज्य दर्शयति
एतत्किमिति मुख्येऽस्मि-
न्नैतदंशः सुनिश्चितः ।
संशयोऽस्तित्वनास्त्यादि-
धर्मानुद्घाटितात्मकः ॥२४८॥
एतत्किमिति-परामर्शात्मा संशयः, 'स्थाणुर्वा
पुरुषो वा' इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव
विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च
किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात्
सुष्ठु निश्चितः । ननु
पं० ३ क० पु० धर्मस्याप्यधिगमे वक्रकोटरत्वेति च पाठः ।

श्लोक २४८ ] प्रथमाह्निकम् । २६१
‘नियतोभयांशावलम्बी विमर्शः संशयः ।’
इति संशयस्य लक्षणं, तत्र चेत् एकः कश्चिदंशो
निश्चितः तत्कृतं तेन, इत्याह ‘संशयः’ इत्यादि । अ-
स्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादिर्येषां
विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रित आत्मा
स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि
धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का
वार्ता अन्येषां धर्माणां ? इति सर्वेषामेव धर्माणाम्
अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं
मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकारा-
भिधायक एव इति भावः ॥२४८॥
तदाह
किमित्येतस्य शब्दस्य
नाधिकोऽर्थः प्रकाशते ।
अधिकः इति एतच्छब्दार्थात् ॥
तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह
पं० २ क० पु० चेत् य एतदंश इति पाठः ।
पं० ४ क० पु० तदस्तित्वनास्त्यादि इति पाठः ।
पं० ७ क० पु० निश्चितत्वाद् दुर्घटनं न वृत्तमिति पाठः ।
पं० १० क० पु० लिखिताकारत्वाभिधायके एव इति पाठः ।

२६२ श्रीतन्त्रालोकः ।
किं त्वनुन्मुद्रिताकारं
वस्त्वेवाभिदधात्ययम् ॥२४६॥
अयम् इति किं-शब्दः ॥२४६॥
संशयस्य च मुख्यत्वं क्वचिदमुख्यत्वे सात युज्यत
इत्यस्यामुख्यत्वमपि दर्शयितुमाह
स्थाणुर्वा पुरुषो वेति
न मुख्योऽस्त्येष संशयः ।
भूयःस्थधर्मजातेषु
निश्चयोत्पाद एव हि ॥२५०॥
न मुख्यः इति - पूर्ववत् सर्वेषामेव धर्मांणाम्
अनुद्घाटितरूपत्वाभावात्, यतः स्थाण्वादिनियत-
परामर्शन्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां
धर्मांणाम् एष निश्चयात्मा प्रत्ययः ॥२५०॥
ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसंभवात्
नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन
विकल्प एव भवेत् ? इत्याशङ्क्याह

पं० ७ क० पु० मुख्यस्त्वेव संशय इति पाठः ।
पं० ८ क० पु० भूयःसुधर्मेति पाठः ।
पं० १३ क० पु० धर्मांणामेव निश्चयेति पाठः ।

श्लोक २५१] प्रथमाह्निकम्। २६३
आमर्शनीयद्वैरूप्या-
नुद्घाटनवशात्पुनः ।
संशयः स किमित्यंशे
विकल्पस्त्वन्यथा स्फुटः ॥२५१॥
आमर्शनीयं स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य
अनुद्घाटनं - वक्रकोटरत्वादि विशेषरूपतयानावि-
ष्करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय
एव । 'स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः
किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत्
किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणां
अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च निय-
तविशेषधर्मानवगमात् अमुख्यत्वम्-इति विशेषः ।
विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति
नानुद्घाटितरूपत्वम्, तदाह 'विकल्पस्त्वन्यथा
स्फुटः' इति । अन्यथा इति - आमर्शनीययोर्द्वयोरपि
व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं
पं० ३ क० पु० किमप्यंशे इति पाठः ।
पं० १३ ख० पु० उभयोरिन्दोरिति पाठः ।
पं० १४ क० पु० नान्यतद्रूपत्वमिति पाठः ।

२६४ श्रीतन्त्रालोकः ।
संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम्।
शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध
एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता
प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात्
यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते
तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः
इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां
यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य
त्रिविधा प्रवृत्तिः-उद्देशो, लक्षणं, परीक्षा च इति,
नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च
प्रथममवश्यमुपादानं कार्यम्-अनुद्दिष्टस्य लक्षण-
परीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षाम-
शास्त्रस्य प्रणयनमेव न घटते-इत्यस्यापि तत्र
अङ्गत्वम् ॥ २५१ ॥
ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ?
इति चेत्, न चैतत्-परस्परानुषक्ततयैव अत्र एषां
पं० ४ क० पु० धर्मत्वायपि इति पाठः ।
पं० ११ क० पु० अनुद्दिश्य लक्षणेति पाठः ।
प० १२ ख० पु० प्राणनायनासिद्धेरिति पाठः ।

श्लोकः २५२] प्रथमाह्निकम् । २६५
निमित्तत्वाभिधानात् । संशयित एव हि अर्थः केन-
चिदभिधीयमानः शास्त्रेण उद्देशादिद्वारेण निर्णीयते
इति, अत एव च स्वरूपभेदेऽपि एवं शास्त्रप्रवृत्तौ
अनुद्घाटितात्मप्रथात्मकेन समानेन रूपेण कारण-
त्वमस्ति इति प्रतिपादयितुमाह
तेनानुद्घाटितात्मत्व-
भावप्रथनमेव यत्
प्रथमं स इहोद्देशः
प्रश्नः संशय एव च ॥२५२॥
तेन – पूर्वोक्तेन न्यायेन अनुद्घाटितात्मत्वेन भा-
वस्य वस्तुमात्रस्य प्रथमं यत् प्रथनं स एव इहोद्देशः –
प्रश्नः संशयश्च इति, तत्र संशयस्य तावदेवंरूपत्वं
समनन्तरमेव उक्तम्, उद्देशे च अनुद्घाटितत्वेनैव
वस्तुनः प्रथनं रूपं – नामधेयमात्रेणैव पदार्थानामभि-
धानात् । प्रश्नेऽपि एवं वाच्यम्, अन्यथा हि निर्णया-
त्मत्वे प्रतिवचनादस्य विशेषो न स्यात् ॥२५२॥
पं० ७ ख० पु० भावाप्रथनमिति पाठः ।
पं० ११ क० पु० प्रथमं रूपमिति पाठः ।
पं० १५ क० पु० प्रश्नस्यैवं वाच्यमिति पाठः ।
३४

२६६ श्रीतन्त्रालोकः ।
तत्र संशयितेऽर्थे प्रश्नः प्रवर्तते, इति तन्निर्णयान-
न्तरं निर्णेतव्यः प्रश्नः, इति प्राप्तावसरं तत्सतत्त्वमेव
वक्तुमाह
तथानुद्घाटिताकार-
भावप्रसरवर्त्मना ।
प्रसरन्ती स्वसंवित्तिः
प्रष्ट्री शिष्यात्मतां गता ॥२५३॥
इह अद्वयनये 'परमार्थसती संविदेव सर्वम्' इति
प्रष्टृप्रतिवक्तृरूपगुरुशिष्याद्यात्मनो भेदस्य तावदनु-
पपत्तिः इति । तथा पूर्वोक्तेन प्रकारेण अनुद्घाटि-
ताकारः - सर्वभावनिर्भरत्वात् संविदेकरूपो, योऽसौ
भावः - पारमार्थिकं पूर्णस्वभावं वस्तु, तस्य यः
प्रसरः - पश्यन्त्यादिदशाक्रमेण अवरोहः, तदेव
वर्त्म, तेन प्रसरन्ती - वैखर्यादिरूपतामासादयन्ती,
स्वसंविदेव, संकुचिता, प्रमात्रात्मशिष्यभूमिकाम्
अवभासयन्ती 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५३॥
कुत्र कथं चास्याः प्रष्टृत्वम् ? इत्याह
पं० १३ क० पु० क्रमेण नावरोह इति पाठः ।

श्लोकः २५५ ] प्रथमाह्निकम् । २६७
तथान्तरपरामर्श-
निश्चयात्मतिरोहितेः ।
प्रसरानन्तरोद्भूत-
संहारोदयभागपि ॥२५४॥
यावत्येव भवेद्बाह्य-
प्रसरे प्रस्फुटात्मनि ।
अनुन्मीलितरूपा सा
षष्टी तावति भरायते ॥२५५॥
तथा – परमाद्वयमयत्वेन, आन्तरः – प्रमात्रैकात्म्य-
रूपो, योऽसौ परामर्शः, तस्य निश्चयो – दाढ्यं,
तदात्मनस्तिरोहितेः – उत्तरोत्तरस्य रूपस्य पूर्वपूर्व-
त्रानवस्थितेः, प्रसरात् – बाह्योन्मुख्यात्, अनन्तर-
मुद्भूतौ यौ संहारश्च – पराद्यात्मनो रूपस्य स्वात्मन्येव
विश्रान्तिः, उदयश्च – पश्यन्त्याद्यात्मना रूपेण
बहिरुद्भवः तौ भजते, तद्रूपा हि सा संवित् यावति
प्रस्फुटात्मनि – ग्राह्यग्राहकयुगलकाद्याभासस्वभावे
पं० ६ क० पु० अस्फुटात्मता इति पाठः ।
पं० १३ ख० पु० संहार उदयश्च पराद्यात्मना रूपेण बहिरुद्भवस्तावितीयान्
पाठः ।

२६८ श्रीतन्त्रालोकः ।
बाह्यप्रसरे, अनुन्मीलितरूपा - संविद्रूपत्वेन अनव-
भासमाना भवेत्, तावत्येव अनुद्घाटितात्मत्वेन
प्रथनात् 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५४॥२५५॥
न केवलं संविदः प्रष्टृत्वमेव अस्ति, यावत् प्रश्ना-
दिरूपत्वमपि इत्याह
स्वयमेवं विबोधश्च
तथा प्रश्नोत्तरात्मकः ।
गुरुशिष्यपदेऽप्येष
देहभेदो ह्यतात्त्विकः ॥२५६॥
तदुक्तं
'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥'
इति । तथा
'प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता ।'
इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षा-
दुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ?
पं० १ ख० पु० रूपेणावभासमानेति पाठः ।
पं० १२ क० पु० वाक्यैस्तन्त्रमाधारभेदत इति पाठः ।
पं० १४ क० पु० द्वयं देवीति पाठः ।
पं० १६ क० पु० अनयोरभेदरूपत्वमिति पाठः ।

श्लोकः २५८ ] । प्रथमाह्निकम् । २६८
इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः ।
बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि
तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥
तदाह
बोधो हि बोधरूपत्वा-
दन्तर्नानाकृतीः स्थिताः ।
बहिराभासयत्येव
द्राक्सामान्यविशेषतः ॥२५७॥
बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष-
णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः –
तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन-
मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव-
भासयत्येव इति वाक्यार्थः ॥२५७॥
तत्र सामान्यस्य किं नाम बहिरवभासनम् ?
इत्याह
स्रक्ष्यमाणाविशेषांशा-
कांक्षायोग्यस्य कस्यचित् ।
पं० ११ क० पु० निरवलम्बमेवेति पाठः ।
पं० १४ क० पु० बहिरवभानमिति पाठः ।

२७० श्रीतन्त्रालोकः ।
धर्मस्य सृष्टिः सामान्य-
सृष्टिः सा संशयात्मिका ॥२५८॥
स्रक्ष्यमाणाः - स्वालक्षण्येन उल्लासयिष्यमाणा,
ये विशेषांशाः, तत्र
'निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।'
इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा -
औन्मुख्यं, तत्र योग्यस्य - तदौन्मुख्याभावेऽपि सर्व-
गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित्
नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः
सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म-
प्रथारूपत्वात् 'संशयः' इति - विशेषाकांक्षानुगुण-
सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥
एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह
स्रक्ष्यमाणो विशेषांशो
यदा तूपरमेत्तदा ।
निर्णयो मातृरुचितो
नान्यथा कल्पकोटिभिः ॥२५९॥
पं० १६ क० पु० निर्णये मातृरुचिते इति पाठः ।

श्लोकः २६० ] प्रथमाह्निकम् । २७१
यदा पुनर्निश्चयोपयोगिनां सर्वविशेषाणां सृष्ट-
त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् - विशेषविषया
सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा-
रूपत्वात् 'स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः
स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम्
इत्युक्तं 'मातुरुचितः' इति । प्रमाता हि यावदेव
'ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं
भवति इति भावः, अन्यथा पुनः स कदाचिदपि
न भवेत् - प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह
'नान्यथा कल्पकोटिभिः' इति ॥ २५६ ॥
न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल-
क्षणादिरूपत्वमपि इत्याह
तस्याथ वस्तुनः स्वात्म-
वीर्याक्रमणापाटवात् ।
उन्मुद्रणां तयाकृत्या
लक्षणोत्तरनिर्णयाः ॥२६०॥
पं० ५ क० पु० प्रमात्रिच्छयैव निर्बन्ध इति पाठः ।
पं० ९ क० ग० पु० मात्रिच्छायामेव विश्रान्तेरिति पाठः ।
पं० ११ ख० पु० निश्चयमात्रत्वमिति पाठः ।
पं० १६ क० पु० निर्णयमिति पाठः ।

२७२ श्रीतन्त्रालोकः ।
तस्य – विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्यं –
तदितरपरावृत्तत्वं, तस्य आक्रमणं – स्वात्मना विष-
यीकरणं, तत्र पाटवं – नैराकांक्ष्यात्तीव्रत्वं, ततो यत्
तेनैव आकारेण उन्मुद्रणं – प्रतिनियतस्वस्वरूपावि-
ष्करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात्
'लक्षणम्' इति 'उत्तरम्' इति 'निर्णय' इति चोच्यते ।
तत्र – असाधारणस्तत्त्वावबोधको धर्मो लक्षणं,
तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो
निर्णयः ॥२६०॥
ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि
लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह
निर्णीततावद्धर्मांश-
पृष्ठपातितया पुनः ।
भूयो भूयः समुद्देश-
लक्षणात्मपरीक्षणम् ॥२६१॥
पं० १ क० पु० स्वात्मवीर्यमिति समस्तपाठः ।
पं० ५ क० पु० तदुद्घाटिताऽप्रथममयत्वेति पाठः ।
पं० ११ क० पु० नियतवत्कथमिति पाठः ।
पं० १२ ख० पु० निर्णीतं तावदिति पाठः ।

श्लोक २६३ ] प्रथमाह्निकम् । २७३
निर्णीतो - निर्णयविषयीकृतः, तावान् - नियत-
लक्षणलक्ष्यो, योऽसौ धर्मांशः - तद्विषयतया पौनः-
पुन्येन यः समुद्देशः, यच्च लक्षणं - साधारणासाधा-
रणधर्मनिरूपणं, तदात्मकं, पुनः परितः - सर्वतो
निःशेषप्रतिपन्नप्रतिनेपेण ईक्षणं - परीक्षा इति
वाक्यार्थः ॥२६१॥
एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह
दृष्टानुमानौपम्याप्त-
वचनादिषु सर्वतः ।
उद्देशलक्षणावेक्षा-
त्रितयं प्राणिनां स्फुरेत् ॥२६२॥
एतदेव क्रमेण दर्शयति
निर्विकल्पितमुद्देशो
विकल्पो लक्षणं पुनः ।
परीक्षणं तथाध्यक्षे
विकल्पानां परम्परा ॥२६३॥
पं० २ क० पु० लक्षणलक्ष्यो योशो धर्मेति पाठः ।
पं० ५ क० पु० प्रतिनेपेण लक्षणमिति पाठः ।
पं० ६ क० पु० सर्वश इति पाठः ।
पं० १४ क० पु० विकल्पे प्रीणितं स्फुरेदिति पाठः ।
३५

२७४ । श्रीतन्त्रालोकः ।
नगोऽयमिति चोद्देशो
धूमित्वादग्निमानिति ।
लक्ष्यं व्याप्त्यादिविज्ञान-
जालं त्वत्र परीक्षाम् ॥२६४॥
उद्देशोऽयमिति प्राच्यो
गोतुल्यो गवयाभिधः ।
इति वा लक्षणं शेषः
परीक्षोपमितौ भवेत् ॥२६५॥
स्वःकाम ईदृगुद्देशो
यजेतेत्यस्य लक्षणम् ।
अग्निष्टोमादिनेत्येषा
परीक्षा शेषवर्तिनी ॥२६६॥
उद्देशः इति – आलोचनमात्रस्य अनुद्घाटितात्म-
प्रथारूपत्वात् । लक्षणम् इति – नीलमिति विकल्पेन
निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पा-
नाम् इति – अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव
पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः ।
पं० १० ख० पु० यजेतेस्य स्वलक्षणमिति पाठः ।

श्लोक १६६ ] प्रथमाह्निकम् । २७५
च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् ।
उद्देशः इति – नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा-
टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति – साध्य-
धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या-
प्तिः– अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयो-
रविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् ।
अयमिति – पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटिता-
त्मत्वेन प्रथनात् । प्राच्यः इति – प्रथमो धर्मिविशेषान-
वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति – प्रमा-
णदशायां, गवयशब्दवाच्योऽयम् इति – फलदशायां
च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये,
तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म-
प्रथारूपत्वात् लक्षणत्वम् । शेषः इति – सास्नादिम-
द्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति –
स्वःकामः इत्येव । अस्य इति – स्वःकामस्य । लक्ष-
पं० १ क० पु० इत्येषा परीक्षोद्देश इति पाठः ।
पं० ५ क० ख० साध्यवर्तिसाधनेति पाठः ।
पं० ६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः ।
पं० ११ क० पु० विशेषावच्छेदभावित्वादिति पाठः ।
पं० १३ ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः ।

२७६ श्रीमत्तन्त्रालोकः ।
णाम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त-
रेणानिर्णयात् । शेषवर्तिनी इति
'शेषः परार्थत्वात् ।'
इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य-
ता इत्यर्थः । परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग-
कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३ ॥ २६४ ॥
२६५ ॥ २६६ ॥
ननु स्त्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः
'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु-
चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि
अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु-
वादपुरःसरं प्रतिक्षिपति ।
विकल्पस्रक्ष्यमाणान्य-
रुचितांशसहिष्णुनः ।
वस्तुनो या तथात्वेन
सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥
पं० २ क० पु० शेषवर्तिनेति शेष इति पाठः ।
पं० ६ क० पु० निस्तुषीकरणवदिति पाठः ।
पं० १० क० पु० तदानीन्तनस्येति पाठः ।
पं० १४ क० पु० सहिष्णव इति पाठः ।

श्लोक २६८ ] प्रथमाह्निकम्। २७७
तदैव संविच्चिनुते
यावतः स्रक्ष्यमाणता ।
विकल्पेन – तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट-
त्वात्, तदपेक्षया स्रक्ष्यमाणाः – लक्षणात् उल्लस-
यिष्यमाणा, अत एव अन्ये – ये सामान्यव्यतिरिक्ताः
प्रमातुः संतोषादायकत्वाच्च, रुचिता – इष्टाः, ये
अंशा – विशेषाः, तान् – अर्थात् व्याप्यत्वेन सहते
तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः,
तथात्वेन – स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेष-
सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः – अभिधानं,
तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता
तावत्, तदैव – उद्देशावसरे, संविच्चिनुते – अनुसंधत्ते
इत्यर्थः ॥२६७॥
तत्र हेतुः
यतो ह्यकालकलिता
संधत्ते सार्वकालिकम् ॥२६८॥
हि-शब्दो वाक्यालङ्कारे ॥२६८॥
पं० ३ क० पु० विकल्पे तत्प्रधानेति पाठः ।