तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 273, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २५१] प्रथमाह्निकम्। २६३
आमर्शनीयद्वैरूप्या-
नुद्घाटनवशात्पुनः ।
संशयः स किमित्यंशे
विकल्पस्त्वन्यथा स्फुटः ॥२५१॥
आमर्शनीयं स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य
अनुद्घाटनं - वक्रकोटरत्वादि विशेषरूपतयानावि-
ष्करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय
एव । 'स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः
किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत्
किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणां
अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च निय-
तविशेषधर्मानवगमात् अमुख्यत्वम्-इति विशेषः ।
विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति
नानुद्घाटितरूपत्वम्, तदाह 'विकल्पस्त्वन्यथा
स्फुटः' इति । अन्यथा इति - आमर्शनीययोर्द्वयोरपि
व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं
पं० ३ क० पु० किमप्यंशे इति पाठः ।
पं० १३ ख० पु० उभयोरिन्दोरिति पाठः ।
पं० १४ क० पु० नान्यतद्रूपत्वमिति पाठः ।