तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 287, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २६८ ] प्रथमाह्निकम्। २७७
तदैव संविच्चिनुते
यावतः स्रक्ष्यमाणता ।
विकल्पेन – तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट-
त्वात्, तदपेक्षया स्रक्ष्यमाणाः – लक्षणात् उल्लस-
यिष्यमाणा, अत एव अन्ये – ये सामान्यव्यतिरिक्ताः
प्रमातुः संतोषादायकत्वाच्च, रुचिता – इष्टाः, ये
अंशा – विशेषाः, तान् – अर्थात् व्याप्यत्वेन सहते
तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः,
तथात्वेन – स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेष-
सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः – अभिधानं,
तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता
तावत्, तदैव – उद्देशावसरे, संविच्चिनुते – अनुसंधत्ते
इत्यर्थः ॥२६७॥
तत्र हेतुः
यतो ह्यकालकलिता
संधत्ते सार्वकालिकम् ॥२६८॥
हि-शब्दो वाक्यालङ्कारे ॥२६८॥
पं० ३ क० पु० विकल्पे तत्प्रधानेति पाठः ।