तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 274, कुल 368 में से
संदर्भ में पढ़ें२६४ श्रीतन्त्रालोकः ।
संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम्।
शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध
एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता
प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात्
यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते
तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः
इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां
यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य
त्रिविधा प्रवृत्तिः-उद्देशो, लक्षणं, परीक्षा च इति,
नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च
प्रथममवश्यमुपादानं कार्यम्-अनुद्दिष्टस्य लक्षण-
परीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षाम-
शास्त्रस्य प्रणयनमेव न घटते-इत्यस्यापि तत्र
अङ्गत्वम् ॥ २५१ ॥
ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ?
इति चेत्, न चैतत्-परस्परानुषक्ततयैव अत्र एषां
पं० ४ क० पु० धर्मत्वायपि इति पाठः ।
पं० ११ क० पु० अनुद्दिश्य लक्षणेति पाठः ।
प० १२ ख० पु० प्राणनायनासिद्धेरिति पाठः ।