तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 269, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २४७] प्रथमाह्निकम् । २५६
तत्रेह यद्यदन्तर्वा
बहिर्वा परिमृश्यते ।
अनुद्घाटितरूपं त-
त्पूर्वमेव प्रकाशते ॥२४६॥
अन्तः - मानसविज्ञानादौ, अनुद्घाटितरूप-
मिति - अनुल्लिखितविशेषं, सामान्यधर्मात्मकम्
इत्यर्थः ॥ २४६ ॥
अयमेव च प्रायः 'संशयः' इत्युच्यते इत्याह
तथानुद्घाटिताकारा
निर्वाच्येनात्मना प्रथा ।
संशयः कुत्रचिद्रूपे
निश्चिते सति नान्यथा ॥२४७॥
तथा-प्राथमिकत्वेन अनुद्घाटितः करचरणादि-
विशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वता-
दिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्य-
तरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन
पं० १५ क० पु० अन्यतरधर्मे विशेषेति पाठः ।