सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 279, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 279

श्लोकः २५८ ] । प्रथमाह्निकम् । २६८
इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः ।
बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि
तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥
तदाह
बोधो हि बोधरूपत्वा-
दन्तर्नानाकृतीः स्थिताः ।
बहिराभासयत्येव
द्राक्सामान्यविशेषतः ॥२५७॥
बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष-
णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः –
तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन-
मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव-
भासयत्येव इति वाक्यार्थः ॥२५७॥
तत्र सामान्यस्य किं नाम बहिरवभासनम् ?
इत्याह
स्रक्ष्यमाणाविशेषांशा-
कांक्षायोग्यस्य कस्यचित् ।
पं० ११ क० पु० निरवलम्बमेवेति पाठः ।
पं० १४ क० पु० बहिरवभानमिति पाठः ।