सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 101, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 101

तृतीयाध्याये पञ्चमखण्डः । ८१
अथोक्ता विष्टुतिस्त्रयस्त्रिꣳशेन संगतेत्याह—
अन्तो वै त्रयस्त्रिꣳशो यथा महावृक्षस्याग्रꣳ सृ-
प्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया
नेदीयःसंक्रमात् संक्रामति ॥ २ ॥
षडहस्तोमापेक्षयास्यान्तत्वं कश्चित्पुरुषो महावृक्षस्याग्रम् अन्ति-
कतमां शाखामलम्ब्यारुह्य ततो नेदीयः संक्रमात्संक्रामति एवमेतया
विष्टुत्या नेदीयःसंक्रमाख्यया नेदीयस्यान्तिकतमे संख्याविशेषे
संक्रामति ॥ २ ॥
अथैनां प्रतिष्ठाहेतुत्वेन प्रशꣳसति—
पञ्चभिर्विहितास्तिस्रः परिचराः पाङ्क्ताः पशव
एतावान् पुरुषो यदात्मा प्रजा जाया यत्पञ्चभिर्विद-
धाति तिस्रः परिचरा भवन्ति यजमानमेव तत्पशुषु
प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते ॥ ३ ॥
त्रिणवस्य प्रथमविष्टुत्यर्थवादवद्व्याख्येयम् । अत्र त्वयं विशेषः ।
परिचरास्तिस्रश्च यजमानपुत्रपत्नीस्थानीयाः तथासति प्रजया जाया-
सहितं यजमानमेव पशुषु स्तोता स्थापितवान् भवति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथास्यैव स्तोमस्योद्यत्याख्यां विष्टुतिमाह—
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स ए-
कयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स
सप्तभिस्त्रयोदशभ्यो हिङ्करोति स सप्तभिः स तिसृभि-
रुद्यती त्रयस्त्रिꣳशस्य विष्टुतिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
स्वर्गकामस्यैषा विष्टुतिरिति प्रदर्शयंन्निमां प्रशꣳसति—
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तु-
वीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानोऽग्रादग्रꣳरोहत्यभिक्रामन्ती विष्टुतिरभिक्रा-