सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 102, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 102

८२ ताण्ड्यमहाब्राह्मणे

न्या एवाभिक्रान्तेन हि यज्ञस्य॒र्ध्नोति तस्मादेतया स्तो-
तव्यमृद्ध्या एव ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
अथास्यैव विष्टुत्यन्तरमाह—
त्रयोदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स
पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चाभिः स तिसृभिः
स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः
स तिसृभिः प्रत्यवरोहिणी त्रयस्त्रिꣳशस्य विष्टुतिः ॥ १॥
त्रयोदशभ्य एकादशभ्यो नवभ्य इति संख्याया उत्तरोत्तरमवरो-
हणादेषा प्रत्यवरोहिणी ॥ १ ॥
एतदेव सदृष्टान्तमुपपादयति—
यथा महावृक्षस्याग्रꣳ सृप्त्वा शाखायाः शाखामा-
लम्भमुपावरोहेदेवमेतयेमं लोकमुपावरोहति प्रतिष्ठायै २॥
यथा कश्चिदुन्नतस्य वृक्षस्याग्रमारुह्योपरितनायाः शाखायाः शा-
खामारम्भमवलम्ब्यावलम्ब्य पृथिव्यामुपावरोहेत् एवमेव त्रिवृदादि-
क्रमेणानुष्ठाय षष्ठेऽहनि त्रयस्त्रिꣳशेनाधिकसंख्येन स्वर्गमारुह्यैतया वि-
ष्टुत्येमं लोकमुपावरोहति प्रतिष्ठायै अस्मिन् लोके चिरावस्था-
नार्थम् ॥ २ ॥
अथैनामायुर्हेतुत्वेन प्रशꣳसति—
त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव
प्रैति प्राणमभ्युदेति सर्वमायुरेति न पुरायुषः प्रमीयते
य एतया स्तुते ॥ ३ ॥
पृष्ठ्यषडहस्य प्रथमेऽहनि त्रिवृत् प्रयुज्यते षष्ठेऽहनि त्रयस्त्रिꣳशः
उत्तमे पर्याये नवभ्यो हिंकरोतीति विधानादन्ते च त्रिवृत् प्रयुज्यते ।
अतस्त्रिवृता प्रैति प्रक्रमते त्रिवृतैवोदेत्युद्गच्छति परिसमापयति प्राणा-
पानव्यानरूपेण वृत्तित्रयात्मको यः प्राणोऽस्ति स त्रिवृत्स्थानीयो भवति
तथासति प्राणेनैव प्रक्रमसमाप्तीकृते भवत एवं प्राणस्य त्यागात् यज-
मानः सर्व्वं सम्पूर्णमायुरेति ततः पूर्व्वन्न म्रियते ॥ ३ ॥