ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 115, कुल 518 में से
संदर्भ में पढ़ेंवैष्णवी । यदि तृतीयसवन एतद्देवत्यानि शस्त्राणि न शस्येरन् प्रस्थि-
तयाज्यादेवतास्तुत्यभावेन क्रतुरपूर्णः स्यात् । उक्थेषु च प्रथमशस्त्रं
मैत्रावरुणं द्वितीयमैन्द्राबार्हस्पत्यं तृतीयमैन्द्रावैष्णवं एतेषु तृतीयस-
वने सवनान्तरवत् प्रस्थितयाज्यदेवतानां प्रशंसा जातेति यज्ञक्रतुः
सम्पूर्णो भवति । इत्थमन्तर्भूतेन संख्याद्वयेन प्रशस्तविहितया अतिरात्र-
संख्ययापि प्रशंसति यदिंत्यादिना । अत्र रात्रिशब्देन त्रयः पर्यायाः
सन्धिः स्तोत्रं तच्छस्त्राणि च लक्ष्यन्ते । रात्रिर्भवतीति यत्तत् सर्वेषां
स्तुतशस्त्राणां परिगृहीतत्वात् सर्वस्य सम्पूर्णस्य यज्ञस्य प्राप्त्यै भवति ।
न च यदेषोऽतिरात्रो भवतीति च यज्ज्योतिष्टोमो भवति यदुक्थो
भवति यद्रात्रिरित्यादिवाक्यत्रयेण पृथक् पृथक् कर्म्मविधिरिति मन्त-
व्यम् । वैश्वानरं द्वादशकपालंनिर्वपेत् पुत्रे जात इति विहितायां जात्ये-
ष्ट्यां यदष्टाकपालो भवति यन्नवकपालो भवतीत्यादिवद्युक्तानुवाद-
त्वेन स्तुतिपरत्वात् ॥ ६ ॥
क्रमप्राप्तस्य चतुर्विंशस्य बहुवक्तव्यसद्भावात्पृथग्बहुकामः इदा-
नीमभिप्लवपृष्ठ्ययोर्ह्नां संग्रहेण क्लृप्तिमभिदधान आदावाभिप्लविकपूर्वे
त्र्यहं विधातुं प्रस्तौति—
स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरीतिमे वै
लोका एते स्तोमा अयमेव ज्योतिरयम्मध्यमो गौरसा-
वुत्तम आयुः ॥ ७ ॥
स पूर्वोक्तः प्रजापतिः एतान् स्तोमान् स च स्तोमशब्देन
त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते । तानि ज्योतिर्गौरायुरीति
एतन्नामकान्यपश्यत् । तत्र ज्योतिरग्निष्टोमसंस्थः गौरायुषो
रुक्थसंस्थे ज्योतिष इयं स्तोमक्लृप्तिः । त्रिवृद्बहिष्पवमानं
पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि
पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमसामेति । अथ
गोष्टोमस्य पञ्चदशो बहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिन
ꣳ सवनमेकविꣳशं तृतीयसवनम् । अथायुष्टोमस्य त्रिवृद्बहिष्पव-
मानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनꣳ सवनमेकविꣳशं तृती-
यसवनमिति । एते उक्ता स्तोमा इमे लोका वै भूरादिकाः खलु कः
कतमो लोक इति बुभुत्सायामाह अयमेव लोको ज्योतिः अयम्मध्यमों
ऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः स्तोमत्रयस्य
लोकत्रयेण सह संख्यासाम्यात् तत्शब्दता एतैः त्रिभिः स्तोमैः सा-
धनेस्त्रीन् लोकान् प्राजनयदिंति शेषः ॥ ७ ॥