सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 114, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 114

एषः प्रजापतिना दृष्टोऽतिरात्रः गवामयनस्य प्रथममहर्भवतीति
यत् तेन सत्राननुतिष्ठन्तो यजमाना अहोरात्रे एव प्रजनयन्ति उत्पा-
दयन्ति स्वाधीने कुर्व्वन्तीत्यर्थः । तथा सति तयोः स्वाधीनयोः प्रति-
तिष्ठन्ति प्रतिष्ठिता भवन्ति । तत्र यद्यपि यद्वृत्तयोगात्सिद्धवदनुवादता
प्रतिभाति तथापि यदाग्नेयोष्टाकपाल इतिवदप्राप्तत्वादतिरात्रस्य वि-
धेयता द्रष्टव्या । न केवलमहोरात्रयोः प्रतिष्ठा किन्तु तत्सम्पाद्यात्मकं
प्रतिष्ठितं सम्वत्सरमपि प्राप्नुवन्तीत्याह एतावानित्यादिना ॥ ५ ॥
अथैनमतिरात्रमवयुज्य प्रशंसति—
यज्ज्योतिष्टोमो भवति यज्ञमुखन्तदृध्नुवन्ति यदुक्थो
यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्त्यै ॥ ६ ॥
अथ षोडशिकोऽयमतिरात्र इत्युक्तं, क्लृप्तो ज्योतिष्टोमोतिरात्रः
स षोडशिक इति । अथ तद्व्यतिरिक्ताभिस्तिसृभिः संस्थाभिरवयुज्य
स्तूयते । यद्यपि सर्वेषामपि ज्योतिष्टोमत्वमस्ति तथापि उक्थातिरात्र-
संस्थयोः पृथक् वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्देन
उच्यते । ज्योतीँषि त्रिवृदादयः स्तोमा यस्य स ज्योतिष्टोमः। तथा च
तैत्तिरीयकं—'त्रिवृत्पञ्चदश सप्तदश एकविँश एतानि ज्योतीँषि
यत् एतस्य स्तोमाः, इति । यज्ज्योतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्म-
को भवति ज्योतिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या 'एष वाव प्रथ-
मो यज्ञानामिति' श्रुतेः । तत्तेन यज्ञमुखं यज्ञानां मुखभूतर्माग्निष्टोमं प्रा-
प्य 'आध्नुवन्ति' सत्रिणः समृद्धा भवन्ति । तथा तस्मिन्नतिरात्रे
उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतुरन्तर्भवतीति यत् तत् यज्ञक्रतोः
सम्पूर्णस्य यज्ञस्य अनन्तरयाय अपरित्यागाय भवति । उक्थसंस्थायां
हि क्रतुः सम्पूर्णो भवति यथा पूर्व्वयोः सवनयोः पञ्चदश पञ्चदश स्तो-
त्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात् । अग्निष्टोमस्त्वसंपूर्णः
क्रतुः उक्तहेतोरभावात् । अपि च त्रिष्वपि सवनेषु प्रस्थिता याज्या-
देवताः शस्त्रैः प्रशस्यन्ते यथा हि प्रातःसवने मैत्रावरुणस्य प्रस्थित-
याज्या देवता मित्रावरुणौ शस्त्रेऽपि तावेव प्रशस्येते। ब्राह्मणाच्छँसिन
इन्द्रप्रस्थितयाज्या देवता सैव तदीयशस्त्रेण स्तूयते तथा माध्यन्दिन-
सवनस्य सर्वेन्द्रत्वात् प्रस्थितयाज्यासु शस्त्राणि चेन्द्राण्येव तथा तृती-
यसवने मैत्रावरुणस्येन्द्रावरुणा सुतया इति । ऐन्द्रावरुणी प्रस्थित-
याज्या इन्द्रश्च सोमं पिबतं बृहस्पतिः ऐन्द्राबार्हस्पत्या ब्राह्मणाच्छँ-
सिनः प्रस्थितयाज्या इन्द्राविष्णूअपि पिबतमित्यच्छावाकस्य चैन्द्रा-