ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 104, कुल 518 में से
संदर्भ में पढ़ें८४ ताण्ड्यमहाब्राह्मणे
अथ अष्टमः खण्डः ।
इत्थन्तु पृष्ठ्यषडहस्य त्रिवृदादयः षट्स्तोमाः क्रमेण विहिताः ।
'अथ छन्दोगानां चतुर्विꣳशश्चत्वारिꣳशोष्टाचत्वारिꣳश इति त्रयस्तो-
माः, तत्र प्रथमस्य स्तोमस्यैका विष्टुतिः सा प्रदर्श्यते—
अष्टाभ्यो हिङ्करोति स तिसृभिः स चतसृभिः स
एकयाऽष्टाभ्यो हिङ्करोति स एकया स तिसृभिः स
चतसृभिरष्टाभ्यो हिङ्करोति स चतसृभिस्स एकया
स तिसृभिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
अथैतां प्रशꣳसति—
पशवो वै छन्दोगा यदष्टाभ्योऽष्टाभ्यो हिङ्करोति
अष्टाशफाः पशवः शफशस्तत्पशूनाप्नोति ॥ २ ॥
पशुसाधनत्वाच्छन्दोगानां पशुत्वमेवं भवति त्रिष्वपि पर्यायेष्व-
ष्टाभ्यो हिङ्करोतीति यत्तत्तेन पशवश्चाष्टाशफास्तत्पशून् शफशः शफ-
द्वारेणाप्नोति ॥ २ ॥
अथैतां प्रकारान्तरेण स्तौति—
चतसृभिर्विहितैका परिचरा चतुष्पादाः पशवो
यजमानः परिचरा यच्चतसृभिर्विदध्यादेका परिचरा
भवति यजमानमेव तत्पशुषु प्रतिष्ठापयत्येषा वै प्रति-
ष्ठिता चतुर्विꣳशस्य विष्टुतिः प्रतितिष्ठति य एतया
स्तुते ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य अष्टमः खण्डः ।
अथ नवमः खण्डः ।
अथ चतुश्चत्वारिꣳशस्य तिस्रो विष्टुतयः तत्र प्रथमामाह—
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादश-
भिः स एकया, चतुर्दशभ्यो हिङ्करोति स एकया स