ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 103, कुल 518 में से
संदर्भ में पढ़ेंतृतीयाध्याये सप्तमखण्डः । ८३
एषा केषाञ्चिन्नित्येत्याह—
तामेताङ्कराद्विष उपासते तस्मात्ते सर्व्वमायुर्य्यन्ति ॥४॥
कराद्विषो नाम केचित् शाखिविशेषा गोत्रविशेषा वा ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
अथ तस्यैवान्त्यां विष्टुतिमाह—
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिरेका-
दशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभि-
स्सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः॥१॥
स्पष्टार्थः ॥ १ ॥
अथैतां प्रशंसति—
यो वै त्रयस्त्रिꣳशमेकविꣳशे प्रतिष्ठितं वेद प्रतिति-
ष्ठति प्रतिष्ठा वा एकविꣳशः स्तोमानां यदेताः सप्त त्रय-
स्त्रिꣳशस्योत्तमा भवन्ति सप्तविधैकविꣳशस्य विष्टु-
तिरेकविꣳश एव तत् त्रयस्त्रिꣳशं प्रतिष्ठापयति प्रति-
तिष्ठति य एतया स्तुते ॥ २ ॥
यः खलु त्रयस्त्रिꣳशमेकविꣳशे प्रतिष्ठितं जानाति स प्रति-
तिष्ठति । कथं तस्य प्रतिष्ठालाभः ? य एकविꣳशस्तोमानां मध्ये
प्रतिष्ठाहेतुः खलु सर्वप्रकृतिभूतो ह्यग्निष्टोम एकविꣳशेन सन्ति-
ष्ठत इति तस्य प्रतिष्ठितत्वम् । त्रयस्त्रिꣳशस्य कथमेकविꣳशे
प्रतिष्ठानमित्यत आह--अस्यां विष्टुतौ त्रयस्त्रिꣳशस्योत्तमे पर्य्याये
सप्तभ्य इति विहिता एताः सप्तर्च उत्तमा भवन्ति एकविꣳशस्य वि-
ष्टुतिः सप्तधा एकैकस्मिन् पर्य्याये सप्तर्चो भवन्ति यद्यस्मादेवं तस्मा-
देकविꣳश एव त्रयस्त्रिꣳशं प्रतिष्ठापयति । अतो य एतया स्तुते स
यजमानः प्रतितिष्ठति ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य सप्तमः खण्डः ।