ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
षष्ठाध्याये प्रथमः खण्डः । १७५
अथ षष्ठोऽध्यायः।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
चतुर्थे पञ्चमे चैव गवामयनमीरितम् ।
सर्वप्रकृतिभूतोऽयमग्निष्टोम इहोच्यते ॥
तमेतमग्निष्टोमं विवक्षुराह—
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतम-
ग्निष्टोममपश्यत्तमाहरत्तेनेमाः प्रजा असृजत ॥ १ ॥
प्रजापतिर्ब्रह्मा हिरण्यगर्भः । अकामयत कामितवान् । किमिति ? उच्यते ।
बहु स्याम् इदानीमेक एव सन् नानारूपो भवेयं तदर्थं प्रजायेयेति स्वरू-
पानुमर्द्देनैव प्रकर्षेण नानारूपेणोत्पद्येयमिति । स एवं कामयमानः एत-
मग्निष्टोमं प्रजननसाधनरूपमपश्यत् दृष्टवान् ‘यज्ञायज्ञीय’ इत्यस्यामृ-
च्युत्पन्नेनाग्निष्टोमसाम्ना समाप्तेरस्याग्निष्टोम इति नाम सम्पन्नम् ।
तमग्निष्टोममाहरत् अन्वतिष्ठत तेनाहृतेन इमा दृश्यमानाः प्रजाः असृजत
सृष्टवान् । अत्र यस्मात् प्रजापतिराहरत् तस्मादन्यैरयमग्निष्टोमोऽनुष्ठा-
तव्य इति विधिरुन्नेयः । ‘यत् स्तूयते तद्विधीयत’ इति न्यायात् ॥ १ ॥
कथं प्रजाः सृष्टवानिति ? तत्राह—
एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतै-
कादशेन च मासा संव्वँत्सरस्य ता द्वादशेन च स्तोत्रे-
णाग्निष्टोमस्य पर्य्यगृह्णात् द्वादशेन च मासा संव्वँत्स-
रस्य ॥ २ ॥
सन्त्यग्निष्टोमे द्वादश स्तोत्राणि ‘द्वादशाग्निष्टोमस्य स्तोत्राणी’ति
श्रुतेः। तत्रैकादशेन वै स्तोत्रेणाग्निष्टोमस्य सम्बन्धिना तथा संवत्सरस्य
गवामयनसत्रस्य सम्बन्धिना एकादशेन च मासा मासेनोभाभ्यां सि-
सृक्षुः प्रजापतिः ताः प्रजा असृजत । पूर्वं गवामयनप्रस्तावे गवामयनेन
सर्वमसृजतेति वर्णितत्वात् तदवयवभूतेन एकादशेन मासेन सह इदा-
नीं सृष्ट्यभिधानमेकादशस्य स्तोत्रस्य स्तुत्यर्थे । एवमुत्तरत्रापि द्रष्टव्यम् ।
ताः सृष्टाः प्रजाः अग्निष्टोमस्य द्वादशेन स्तोत्रेण संव्वँत्सरस्य गवामय-
नस्य द्वादशेन मासेन पर्य्यगृह्णात् आत्मसात् कृतवान् । लोके एकादश-
द्वादशयोर्मासयोरनतिक्रमेण प्रसवः प्रजायते ॥ २ ॥
१७६ ताण्ड्यमहाब्राह्मणे
उक्तलक्षणानुष्ठानेन तदेव लभ्यत इति प्रशंसति—
तस्मात्प्रजा दशमासो गर्भं भृत्वैकादशमनु प्रजा-
यन्ते तस्माद्द्वादशन्नाभ्यतिहरन्ति द्वादशेन हि परिगृ-
हीतास्तद्य एव वेवँद् परि जाताः प्रजा गृह्णाति प्र जाता
जनयन्ति ॥ ३ ॥
यस्मात् प्रजापतिरेकादशेन प्रजा असृजत तस्माल्लोके प्रजाः स्त्रियः
दशमासो दशमासान् गर्भं भृत्वा धारयित्वा एकादशमनु एकादशे
मासि प्रजायन्ते प्रजनयन्ति । यस्मात् द्वादशेन प्रजापतिः पर्यगृह्णात् त-
स्माद् द्वादशमासमभिलक्ष्यी कृत्य नातिहरन्ति गर्भन्न धारयन्ति । अनति-
क्रमणे कारणमाह—हि यस्मात् द्वादशेन स्तोत्रेण परिगृहीताः प्रजाः
गृह्णाति परिग्रहं करोति न कदाचित्तं परित्यजतीत्यर्थः । किञ्च जाता
अनुकृत्य ताः प्रजाः प्रजनयति उत्पादयति ॥ ३ ॥
अथ प्रजापतेः सृष्टिप्रसङ्गे किञ्चिदर्थमाह—
तासां परिगृहीतानामश्वतर्यत्यक्रामत्तस्या अनु-
हाय रेत आदत्त तद्वडवायान्न्यमाड्यस्माद्वडवा द्विरेता-
स्तस्मादश्वतर्यप्रजा आत्तरेता हि ॥ ४ ॥
तासां प्रजापतिना परिगृहीतानां प्रजानाम्मध्ये अश्वतर्यत्यक्रामत्
अतिक्रम्यागच्छत् । तामनुहायानुगम्य तस्या रेतः प्रजोत्पादनसाधनं
वीर्य्यं आदत्त स्वीकृतवान् । आदाय वडवायां न्यमाट् निमार्ज्जनं स्थापन-
मकरोत् । यस्मादेवन्तस्माद्वडवा द्विरेता स्वकीयरेतसा सह द्विरेता अभूत्
अश्वमश्वतरञ्च रेतोद्वयसामर्थ्यात् प्रसूत इत्यर्थः । रेतस आहृतत्वात् अ-
श्वतर्यप्रजा अनपत्याभूत् अश्वतर्याः कदाचिदश्वतरोऽन्योऽश्वो वा न
जायत इत्यर्थः । सा आत्तरेता हि परित्यक्तप्रजननसामर्थ्या खलु । अयम-
र्थः । सर्वोऽपि तैत्तिरीयके स्पष्टमाम्नायते 'अग्निष्टोमेन वै प्रजा असृजत ता
अग्निष्टोमेनैव पर्यगृह्णात 'तासां परिगृहीतानामश्वतर्यत्यक्रामत्तस्या
अनुहाय रेत आदत्ते' त्यादिना ॥ ४ ॥
अथास्या दक्षिणाऽनर्हतां विषयविशेषे तदर्हताञ्चाह—
तस्माददक्षिणीयाऽति हि सा यज्ञमरिच्यतातिरि-
क्तस्य दक्षिणा स्यात्सलोमत्वाय षोडशिनः स्तोत्रेदेयाऽति-
रिक्तो वै षोडश्यतिरिक्त एवातिरिक्तां ददाति ॥ ५ ॥
?
Wait, look closely at line 15: above यज्ञं, is that a candrabindu?
Wait, no, it's यज्ञं॑ or is it just a smudge?
Wait, look at line 17: ऋतुस्तस्मात्त्रिवृत्स्तोमानां - no accents anywhere!
Line 16: मसृजत तं गायत्रीच्छन्दो... - no accents!
Line 18: त्री च्छन्दसामग्निर्दैवतानां... - no accents!
Line 19: ऋतूनां तस्माद्ब्राह्मणो मुखेन... - no accents!
Line 20: सृष्टः ॥ ६ ॥ - no accents!
This entire book has NO Vedic svara accents!
Wait, but what is that mark above यज्ञं in line 15?
It looks like an anusvara with a slight printing defect or ink squash, or maybe यज्ञँ? But यज्ञं सृजेयेति is followed by सृ, so in Sāmaveda sometimes gum/anunāsika is marked, but here it's just a bindu with an ink mark, or maybe यज्ञं. Let's look at line 8: तत्राश्वतरीन्दद्याद्यजमान -> रीन्दद्याद्य.
Wait, let's look at यज्ञं in line 15 again. It's
उक्तार्थविदुषः फलमाह—
करोति मुखेन ँवीर्य्यं य एव ँवेद ॥ ७ ॥
एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यङ्करोति मुखसाध्येन स्वा-
ध्यायप्रवचनादिनैवाभीष्टं साधयति इत्यर्थः ॥ ७ ॥
अथ पञ्चदशस्तोमत्रिष्टुभादीनां सृष्टिमाह—
स उरस्त एव बाहुभ्यां पञ्चदशमसृजत तन्त्रिष्टु-
प्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म
ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो-
देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्य्यो बाहुभ्याꣳ हि
सृष्टः ॥ ८ ॥
सः प्रजापतिरुरस्त एव । तस्यैव च व्याख्यानं बाहुभ्यामिति । पञ्चद-
शस्तोमं तृचगतानां तिसृणामृचां त्रिष्वपि पर्यायेषु पञ्चवारावृत्ति-
साध्यं पञ्चदशस्तोममसृजत । एवमुत्तरत्र सप्तदशादी
:प्तदशं स्तोममसृजत । तमनु जगतीच्छन्दोऽन्वसृज्यत । तदनु क्रमेण विश्वे-
देवा देवता वैश्यो मनुष्यो वर्षा ऋतुरश्वान्वसृज्यत । तस्मात्प्रजोत्पादकप्रज-
-ननादुत्पन्नत्वात् वैश्यजातीयोऽद्यमानो भक्ष्यमाणो राजादिभिर्धनैरपहि-
यमाणोऽपि न क्षीयते किन्तु पशुपालनादिना समृद्धो भवत्येव । तत्र हेतुः
प्रजननाद्धि सृष्ट इति । तस्मादु तस्मादेव कारणात् स वैश्यो बहुपशुर्भ-
वति । तत्रोपपत्तिरुच्यते-वैश्वदेवो हि जागतो विश्वैर्देवैः सह सृष्टत्वात्
असावपि वैश्वदेवस्तस्मादित्यर्थः । वैश्वदेवत्वमस्य बहुपशुत्वे हेतुः ।
जागतः जगत्या सहोत्पन्नत्वात् असौ जगतीसम्बन्धो भवति । वर्षा ह्यस्य-
-र्तुरित्ययमपि बहुपशुत्वे हेतुः-एतत् स्तोमसम्बन्धस्योपलक्षणम् । अनेन
वैश्यस्य सप्तदशस्तोम
१८० ताण्ड्यमहाब्राह्मणे
यस्मादयं पत्तः सृष्टः । किञ्च तस्मात्प्रजापतेः प्रतिष्ठारूपपादतः सृष्ट-
त्वादयमेकविंशस्तोम इतरस्तोमानाम्मध्ये प्रतिष्ठा भवति । एक-
विंशस्तोमेन यज्ञायज्ञीयेनाग्निष्टोमस्य समाप्तेरस्य प्रतिष्ठात्वम् । हि
यस्मादेकविंशः प्रतिष्ठायाः सृष्टः । अत इत्यर्थः । तस्मात्पादतोनि-
कृष्टप्रदेशादुत्पन्नत्वात् अनुष्टुप्छन्दस्यनु तृतीयार्थमित्यर्थः । अनोः
कर्म्मप्रवचनीयत्वात् छन्दांसीति द्वितीया । अनुसवनप्रयुक्तैर्गायत्र्यादि-
च्छन्दोभिः सह न व्यूहन्ति पृष्ठ्यादिषु छन्दसां व्यूहे क्रियमाणे स्वस्था-
न एवानुष्टुभं प्रयुञ्जते न तस्य स्थानेऽन्यद्गायत्र्यादिकं छन्दः तेषां वा
स्थानेऽनुष्टुभं प्रयुञ्जत इत्यर्थः ॥ ११ ॥
किमर्थमेवमिति तत्राह—
पापवसीयसो विधृत्यै ॥ १२ ॥
पापमध्रस्थानादुत्पन्नमनुष्टुप्छन्दः । वसीयः पुण्यं सुखाद्युत्तम-
स्थानोत्पन्नं गायत्र्यादिकं तदुभयस्य विधृत्यै विधारणाय असाङ्कर्याये-
त्यर्थः ॥ १२ ॥
अथ वेदितुः फलमाह—
विधृतिः पापवसीयसो भवति य एव ँवेद ॥ १३ ॥
यदुक्तमर्थज्ञानातिशयाय पुण्यद्वयस्य विधृतिः विवेचनको भवति
तस्मिन्नुभे समानाश्रयणे स्त इत्यर्थः ॥ १३ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य प्रथमः खण्डः ॥ ६ ॥ १ ॥
अथ द्वितीयः खण्डः ।
तदेवमग्निष्टोमोक्थस्य जोतिष्टोमस्य प्राधान्येन त्रिवृदादिस्तोमच-
तुष्टयस्य च सृष्टिरुक्ता । इदानीं तेष्वेव हि तत् ज्ञातव्यमित्याह—
यो वै स्तोमानुपदेशनवतो वेदोपदेशनवान्भवति ॥ १ ॥
वै शब्दो वाक्यालङ्कारे । यः पुमान् स्तोमान् त्रिवृदादीन् उपदेशन-
वतो वक्ष्यमाणोपदेशेन युक्तान् वेद जानाति सोऽप्युपदेशनवान् भवति
वक्ष्यमाणेन प्राणादिदेवतावान् भवति ॥ १ ॥
के ते उपदेशा इति ? तानाह—
प्राणो वै त्रिवृदूर्द्धमासः पञ्चदशः सव्वँत्सरः सप्तदश
आदित्य एकविंᳪश एते वै स्तोमा उपदेशनवन्त उपदे-
शनवान् भवति य एव ँवेद ॥ २ ॥
षष्ठाध्याये द्वितीयः खण्डः । १८१
यस्तु त्रिवृत्स्तोमोऽस्ति 'प्राणो वै त्रिवृदिति' ड्यावृत्त्या नवर्चः स-
म्पद्यन्ते । मुख्यः प्राणोऽपि शीर्षण्यैः सप्तप्राणैः अर्वाग्वृत्तिभ्यां प्राणद्वया-
भ्यां सह नवं प्राणात्मकः । अतो नवभेदसाम्यात् त्रिवृत्प्राण इति स्तूयते ।
यथा पञ्चदशस्तोमोऽप्यर्द्धमासात्मकः पञ्चदशभिरहोभिर्युक्तत्वात् तत्सं-
ख्यासाम्येन स्तुतिः । योऽयं सप्तदशस्तोमः स संवत्सरः 'द्वादशमा-
साः पञ्चर्त्तवो हेमन्तशिशिरयोः समासेन तावान् संवत्सर' इति श्रुतेः ।
सप्तदशसंख्यासाम्यादसौ सप्तदश इत्युच्यते । योऽयमेकविंशस्तोमः स
आदित्य एव "द्वादशमासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य इत्ये-
कविंश" इति श्रुतेरादित्यस्यैकविंशत्वात् तत्संख्यासाम्येनास्यादित्य-
त्वम् । एते स्तोमा उक्तास्त्रिवृदादय उपदेशनवन्तः त्रिवृदादीनां प्राणा-
द्यात्मादिकथनमेवोपदेशनं तद्वन्तः । शिष्टं गतम् ॥ २ ॥
अथोक्तस्तोमचतुष्टयस्य प्रसङ्गेन त्रिणवत्रयस्त्रिंशयोरप्युपदेशन-
वत्त्वमाह—
इमे वै लोका।स्त्रिणवास्त्रिणवस्य वै ब्राह्मणेनेमे लोका-
स्त्रिष्पुनर्नवा भवन्ति ॥ ३ ॥
त्रिणवस्वरूपस्य त्रिवृत् त्रयात्मकत्वविधानेन इमे भूरादयो लोकाः
त्रिः पुनर्नवा (१) भवन्ति त्रित्वसंख्योपेताः सन्तःपुनर्नवसंख्याका भवन्ति
'त्रयो वा इमे त्रिवृतो लोका' इति श्रुतेः एकैकस्य त्रिवृत्त्वान्मिलित्वा
नवसंख्याकत्वम् । लोकत्रयस्याश्रयस्य स्तोमस्य त्रैलोक्यात्मकत्वमेवो-
पदेशनवत्त्वम् ॥ ३ ॥
अथोक्तार्थविदुषः फलमाह—
एषु लोकेषु प्रति तिष्ठति य एव ँवेद ॥ ४ ॥
स्पष्टोऽर्थः । यद्वा त्रिणवस्य वा इत्यादिकमेवं वेदेत्यन्तं वेदितुः
फलं त्रिणवस्य वै ब्राह्मणेनेमे वै लोकास्त्रिणव इति ध्यानज्ञानेन इमे
लोकास्त्रिष्पुनर्नवेषु जानानः प्रतिष्ठितो भवति ॥ ४ ॥
अथ त्रयस्त्रिंशस्योपदेशनवत्त्वमुच्यते—
देवता वाव त्रयस्त्रिंशोऽष्टौ ऽवसव एकादश रु-
द्रा द्वादशादित्याः प्रजापतिश्च ऽवषट्कारश्च त्रय-
स्त्रिंशौ ॥ ५ ॥
अयं त्रयस्त्रिंशस्तोमः। देवता वाव देवता एव। उक्ते स्तोमे देवतासु
च एकत्वापादकं संख्यासाम्यमुपपादयति—अष्टौ वसव इत्यादिना ॥५॥
( १ ) अत्र बहुव्रीहौडच्प्रत्ययः ।
१६ ता०
१८२ ताण्ड्यमहाब्राह्मणे
अथ विदुषः फलमाह—
स देवेन यज्ञेन यजते य एव ँवेद ॥ ६ ॥
यः पुमानेवं जानाति स देवेन सन्निहितदेवकेन यज्ञेन यजते। उक्त-
देवतात्मकत्वमेवास्य स्तोमस्योपदेशनवत्त्वम् ॥ ६ ॥
अथ प्रकारान्तरेण त्रयस्त्रिंशं स्तोतुमाह—
यो वा अधिपति ँवेदाधिपतिर्भवति त्रयस्त्रिं५शो
वै स्तोमानामधिपतिः पुरुषः पशूनाम् ॥ ७ ॥
त्रयस्त्रिंशो वै त्रयस्त्रिंशः खलु स्तोमानामधिपतिः। उक्तस्तोमेभ्यो-
ऽधिकसंख्योपेतत्वात्। पुरुषस्यापि अधिपतित्वोपन्यासः स्तोमदृष्टा-
न्तत्वेन तस्यैव स्तुत्यर्थः ॥ ७ ॥
अथ पुरुषस्याधिपतित्वमेवोपपादयति—
तस्मान्न्यञ्चोऽन्ये पशवोऽदन्त्युदूर्ध्वः पुरुषोऽधिप-
तिर्हि सः॥ ८ ॥
तस्मात्पुरुषस्याधिपतित्वात् अन्ये पुरुषव्यतिरिक्ता गवाश्वादयः
पशवो न्यञ्चोऽवाङ्मुखाः सन्तः अदन्ति भक्षयन्ति तृणानि, पुरुष ऊ-
र्ध्वमुखः सन् भुङ्क्ते। ऊर्ध्वत्वे हेतुं विवृणोति-स पुरुषः अधिपतिः खलु ॥८॥
अथ विदुषः फलमाह—
आधिपतिः समानानां भवति य एव ँवेद ॥ ९ ॥
स्पष्टोऽर्थः ॥ ९ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य द्वितीयः खण्डः ॥ ६ ॥ २ ॥
अथ तृतीयः खण्डः।
अथ संख्याक्रमेणाग्निष्टोमं प्रथमं विवक्षुस्तं बहुफलसाधनत्वेन
प्रशंसति—
एष वाव यज्ञो यदग्निष्टोमः ॥ १ ॥
एष वाव एष एव मुख्यो यज्ञो यदग्निष्टोमः। अग्निष्टोम इति सर्वफ-
लसाधनत्वेन मुख्यत्वादेष एव यज्ञः। इतरे त्वेकैकफलसाधनत्वाज्जघन्या
इत्यर्थः ॥ १ ॥
अथ तदेवाह—
एकस्मा अन्यो यज्ञः कामायाह्रियते सर्व्वेभ्योऽ-
ग्निष्टोमः ॥ २ ॥
...wait, is itशातिःorशतिः? Look at the character: It has शthenा? Wait! In शातिः: The letter शis preceded by what? No, it'sशwithा: शा! Wait, why would it be शा? Misprint for शतिः! The text in sutra is तच्चतुर्विंशतिः. In line 14 it broke at तच्चतुर्विं-. Then line 15 printed शातिश्चतुर्विंvशतिरर्द्धमासाः. Wait, let's look at शातिःvsशतिः: Wait, look at शinशस्त्राणि(line 14): the left loop ofश. Now look at the first letter in line 15: It is शा! It clearly has a vertical line for the long vowel ाafterश! So it's printed शातिश्चतुर्विंvशतिरर्द्धमासाः! Wait, look at र्द्धमासाः: र्द्ध` with double dha.
Line 16:
वोऽनु प्रजायन्ते तेन पशव्यः समृद्धः ॥ ४ ॥
Wait, is there space before ॥ ४ ॥? Yes: समृद्धः ॥ ४ ॥.
अस्य ज्योतिष्टोमस्य किञ्ज्योतिष्टोमत्वं किं कारणकत्वमित्याहुर्ब्रह्म-
वादिनः ? अयं यज्ञस्त्रिवृदादिभिः संस्तुतः सन् विराजं सम्पद्यते । 'दशा-
क्षरा विवराडि'ति श्रुतेः। दशसंख्या सम्पद्यत इत्यर्थः। तथा सति विराजत
इति विराडिति व्युत्पत्त्या छन्दसां मध्ये विराट् ज्योतिः । एवं च स्तो-
मानां मध्ये विराट् द्वारा सम्पत्तेरयं ज्योतिष्टोम इत्युच्यत इति । विरा-
जेन दशसंख्याधिक्यक्लृप्तिश्चेत्थमवगन्तव्या प्रातःसवने बहिष्पवमा-
नस्त्रिवृदतो नवस्तोत्रीया भवन्ति । आज्यस्तोत्राणि चत्वारि तानि पञ्च-
दशानि षष्टिस्तोत्रीया भवन्ति । तदुभयम्मिलित्वा एकोनसप्ततिस्तोत्री-
या भवन्ति । माध्यन्दिने सवनेऽपि पञ्चदश माध्यन्दिनः पवमानः पृष्ठ-
स्तोत्राणि चत्वारि अपि सप्तदश स्तोमानि मिलित्वा अशीतिस्तोत्रीया
भवन्ति । तृतीयसवनेऽपि सप्तदश आर्भवः पवमानः । एकविंशस्तोमम-
ग्निष्टोमस्तोत्रं मिलित्वा अष्टत्रिंशत्स्तोत्रीया भवन्ति । सवनत्रयं मिलित्वा
नवत्यधिकं शतस्तोत्रीया भवन्ति । अतश्च दशशो भागे सति अन्ते द-
शावशिष्यन्ते । एवं दशसंख्योपेतविवराट्त्वसम्पत्तेस्तत्सम्बन्धादस्य
ज्योतिष्टोमत्वम् ॥ ६ ॥
अथ विदुषः फलमाह—
ज्योतिः समानानां भवति य एव ँवेद ॥ ७ ॥
ऋज्वर्थः ॥ ७ ॥
अथाग्निष्टोममेव प्रकारान्तरेण प्रशंसति—
ज्येष्ठयज्ञो वा एष यदग्निष्टोमः ॥ ८ ॥
अग्निष्टोम इति योऽस्ति एष ज्येष्ठयज्ञः खलु देवानां ज्येष्ठः प्रजापतिः
'हिरण्यगर्भः समवर्त्तताग्र' इत्यादिस्तुतेः । तत्सम्बन्धादस्य ज्येष्ठत्वम्
'प्रजापतिर्वा एष यज्ञो यदग्निष्टोम' इति श्रुतिः ॥ ८ ॥
अथामुमेव पक्षं प्रजापतेः श्रेष्ठत्वसम्पादनद्वारा पुनः प्रशंसति—
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नाति-
ष्ठन्त स एतमग्निष्टोममपश्यत्तमाहरत्ततोऽस्मै प्रजाः
श्रैष्ठ्यायातिष्ठन्त ॥ ९ ॥
पूर्वं प्रजापतिना सृष्टाः । अस्मै स्रष्ट्रे प्रजापतये श्रैष्ठ्याय श्रेष्ठभा-
वाय नातिष्ठन्ते अमुं श्रेष्ठमिति नाज्ञासिष्ट । इतरत् सुज्ञानम् ॥ ९ ॥
अथ विदुषः फलमाह—
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एव ँवेद ॥ १०॥
स्पष्टोऽर्थः ॥ १० ॥
पूर्वं ‘मुखत एव त्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यते’त्यादिना
च्छन्दश्चतुष्टयस्य सृष्टिरुक्ता तत्रादितस्त्रयाणामेव सवनत्रयसम्बन्धो
दृश्यते कथन्तुरीयस्य तत्सम्बन्ध इति ब्रह्मवादिनः शङ्कामुपक्षिपन्ति—
यद्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनꣳ
सवनञ्जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दोऽनुष्टु-
बिति ॥ ११ ॥
यद्यदि तु इदानीमिति वक्ष्यमाणप्रकारेणाहुर्ब्रह्मवादिनः तेषामुक्ति-
प्रकारमाह—गायत्रं गायत्र्या सम्बद्धं प्रातःसवनं, प्रातःसवने गायत्र्या
सम्बन्धो दृश्यत इत्यर्थः । एवमुत्तरयोरपि योज्यम् । तर्हि एवं सति तुरी-
यञ्चतुर्थमनुष्टुप् छन्दः क कुतः सवनं सम्बध्यत इत्येवं यद्याहुरिति
समन्वयः । तदा वक्ष्यमाणमुत्तरं ब्रूयादिति शेषः ॥ ११ ॥
अनुष्टुप्सम्बन्धः किमर्थं पृच्छ्यत इति तत्राह—
छन्दसां वा अन्ववल्गुप्तिं यजमानोऽन्ववलुप्यते ॥ १२॥
छन्दसां गायत्र्यादीनां चतुर्णाम्मध्ये यस्यापि छन्दसोऽवलुप्तिं
नाशमनु यजमानोऽप्यनुक्रमेणानुलुप्यते नश्यति । अत उक्तः प्रश्नो
युक्त इत्यर्थः ॥ १२ ॥
अथ तस्योत्तरमाह—
अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा
त्रिष्टुब् द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभमा-
प्नोति यजमानस्यानावलोपाय ॥ १३ ॥
गायत्र्याः पादस्य स्वतोऽष्टावक्षराणि हिङ्कारो बहिष्पवमानस्याद्यो-
ऽक्षरः तेन सह नव सम्पद्यन्ते । माध्यन्दिनस्य पवमानस्यान्त्यायां त्रि-
ष्टुभि एकादशाक्षराणि । आर्भवपवमानस्यान्त्यायां जगत्यां द्वादशाक्ष-
राणि सहिङ्कारच्छन्दस्त्रयगताक्षराणि मिलित्वा द्वात्रिंशतिः सम्पद्यते ।
अनुष्टुबपि द्वात्रिंशदक्षरा तथा सति त्रिभिरेव छन्दोभिः सहिङ्कारैरनु-
ष्टुभमाप्नोति स्तोताऽसावनुष्टुप् स्वावयवैस्त्रिभिः सहिङ्कारैः अष्टाक्षरा-
दिरूपैश्छन्दस्त्रयं व्याप्य तद्वारा सवनत्रयमथाप्नोतीत्युक्तं भवति । असा-
वाप्तिर्यजमानस्थानवलोपायाविनाशाय भवति एवन्तुरीयस्य छन्दसः
सवनत्रयसम्बन्धन्तूत्तरं ब्रूयुरित्यभिप्रायः ॥ १३ ॥
उक्तार्थविज्ञानं सङ्कोचविस्तराभ्यां प्रशंसति—
यो वा अनुष्टुभꣳ सर्व्वत्रापिꣳ सवनान्यन्वायत्तां
१८६ ताण्ड्यमहाब्राह्मणे
व्वेद॑ स॒र्व्वत्रा॒प्त्यापि॑ र्भ॑वत्ये॒षा वा॒ अनु॒ष्टुप् स॒र्व्वत्रा॑पिः
सवनान्यन्वायत्ता तद्य॒ एव॒ं व्वेद॑ स॒र्व्वत्रा॒प्त्यापि॑ र्भ-
वति ॥ १४ ॥
योवा यः कश्चिदपि पुरुषः अनुष्टुभं सर्व्वत्रापिं सर्वत्र यज्ञे आप्तिर्व्याप्तिः
तां वेद जानाति । कथन्तस्या व्याप्तिरिति तामाह—सवनानि त्रीण्यपि
अनुक्रमेणायत्तां गायत्र्याद्यक्षरद्वारेण संख्याप्राप्तां वेद अस्य वेदितुः
सर्वत्र आप्तिर्व्यापनं अप्रतिहतसञ्चारो भवति । का सा अनुष्टुप् एषा
वै छन्दोऽक्षरसमाहारसिद्धा खल्वनुष्टुप् उक्तलक्षणोपेता । तद्य एवमि-
त्यादेरुपसंहारार्थत्वादपुनरुक्तिः ॥ १४ ॥
अथ पूर्वविहितं स्तोमचतुष्टयं यज्ञनिर्वाहकत्वेन प्रशंसति—
यद्वै राजा॑नोऽध्वानं॑ धावय॒न्ति येऽश्वा॑ना ँ॑वीर्य्य॑व-
त्तमास्तान् यु॒ञ्जते॑ त्रि॒वृतप॑ञ्चद॒शः स॑प्तद॒श ए॑कविं॒श ए॒ते
वै स्तोमा॑ना ँ॑वीर्य्य॑वत्तमास्ताने॒व यु॑ङ्क्ते स्व॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै ॥ १५ ॥
यद्वै यदा वा खलु राजानः संग्रामकर्त्तारः अध्वानं आजिमार्गं धाव-
यन्ति गमयन्ति रथान् तदा ते ये अश्वानाम्मध्ये वीर्य्यवत्तमा अतिश-
येन वीर्य्योपेता अश्वाः सन्ति तान् युञ्जते योजयन्ति रथेषु । अयं दृष्टा-
न्तः । एवमुद्गाता स्तोमानाम्मध्ये त्रिवृदादयोऽतिशयेन वीर्य्यवत्तमाः
अतस्तानेव युङ्क्ते स्वर्गप्राप्तिसाधने यज्ञे । तत्तेषां योजनं स्वर्गस्य लोकस्य
समष्ट्यै सम्यक् प्राप्तये सम्पद्यते ॥ १५ ॥
एवं प्रशस्य स्तोमचतुष्टयमग्निष्टोमस्य प्रतिष्ठासाधनविधत्ते—
चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्याै ॥१६॥
अग्निष्टोमश्चतुष्टोमो भवति विहितत्रिवृदादिस्तोमचतुष्टयं निर्वर्त्य
कर्त्तव्यः। स चतुष्टोमः प्रतिष्ठा वै प्रतिष्ठारूपः खलु यथा पादचतुष्टयोपे-
तोऽश्वादिः प्रतिष्ठितो भवति तद्वदयमपीति भावः। सा चतुष्टोमक्लृप्तिः
प्रतिष्ठित्त्यै यजमानस्य स्थैर्याय भवति ॥ १६ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य तृतीयः खण्डः ॥ ६ ॥ ३ ॥
अथ चतुर्थः खण्डः ।
अथोद्गातृव्यापारात्मकं प्रथमं कर्म ज्ञापनार्थमौदुम्बर्य्युच्छ्रय णन्त-
Wait, what does Sayana write here?
"इति समुद्रः सन् तस्य हृदये" or "इति समुद्रः सन्, तस्य"?
Wait, is it "समुद्रः सन्"? In Sanskrit, "समुद्रः सन्" = "being the samudra".
Wait, look at the letters in line 29:
समुद्रः सन् तस्य - wait, the letter after स has a vertical line, a horizontal line, and two dots.
Wait, is it स + न्? Look at न् in गच्छतो वा यज्ञस्य सदने स्थाने सादया- (line 26-27).
Wait, look at स in line 29:
It is स then a letter, wait, is it स न् ः?
Wait, no, look at the two dots: they are aligned vertically, like a visarga: :.
Is it सद्ः? No word सद्ः exists.
Wait, could it be समुद्रः सन्:? No, why visarga after सन्?
Wait! Could it be समुद्रः सन् where the two dots are just colon or broken danda?
Wait, look at line 13: जपे'न्नमः समुद्राये'ति ॥ १ ॥
Look at line 29: समुद्रः सन् - wait, could it be समुद्रः सन् तस्य
१८८ । ताण्ड्यमहाब्राह्मणे ।
मन्त्रगतमायुःशब्दं व्याचष्टे—
यज्ञो वा आयुस्तस्य तत्सदनं क्रियते ॥ ४ ॥
य आयुः स यज्ञो वै । अत्रायुःशब्देन यज्ञोऽभिधीयत इत्यर्थः । अस्य
व्युत्पत्तिर्म्मन्त्रव्याख्यानावसरे प्रदर्शिता। तत्तेन मन्त्रेण आयुःशब्दप्रयो-
गेण तस्य यज्ञस्यैव सदनं क्रियते ॥ ४ ॥
अथावतश्छायायामिति मन्त्रभागं व्याचष्टे—
यज्ञो वा अवति तस्य सा च्छाया क्रियते ॥ ५ ॥
योऽयं यज्ञः स खलु अवति रक्षति यजमानमतोऽवनात् यज्ञस्यैव
च्छाया कृता भवति ॥ ५ ॥
समुद्रस्येति भागस्य सदोरूपतां दर्शयति—
मध्यतो वा आत्मनो हृदयन्तस्मान्मध्ये सदस औदु-
म्बरी मीयते ॥ ६ ॥
आत्मनो यजमानस्य हृदयम्मध्यतो वै मध्ये खलु तस्मात्तदानुरू-
प्याय सदसो मध्यदेशे औदुम्बरी मीयते प्रक्षिप्यते । मन्त्रेसमुद्रशब्दा-
भिधेयस्य ब्राह्मणे सदःशब्देन व्यवहारात्तस्य सदश एवार्थो विवक्षित
इत्युक्तं भवति ॥ ६ ॥
अथौदुम्बर्य्यनुमन्त्रणे योऽयं मन्त्रः ‘नमः समुद्राय नमः समुद्रस्य
चक्षुषे मामा यूनर्व्वाहासीदूर्ग्गस्यूर्जोदा ऊर्ज्जम्मे देह्यूर्ज्जम्मे धेह्यन्नम्मे
देह्यन्नम्मे धेही’त्यादि मन्त्रोऽस्ति तत्र नमः समुद्रायेति वाक्यद्वयं व्याचष्टे-
“नमः समुद्राय नमः समुद्रस्य चक्षुष” इत्याह व्वाग्वै
समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यामेव तन्नमस्करोति ॥७॥
वाचो निरवधिकत्वात्समुद्र इत्युच्यते, वाग्रूपसमुद्रस्य मनसः पूर्व्व-
रूपत्वात् समुद्रचक्षुरित्यनेन मन उच्यते। ‘मनः पूर्वरूपं वागुत्तररूप’-
मिति हि श्रुतिः कौषीतकिनः, तत्तथा सत्यमुं भागं पठन्नुद्गाता वाचो
मनसश्च नमस्कारं कृतवान् भवति ॥ ७ ॥
मामा यूनर्व्वैत्यमुं भागं व्याचष्टे—
“मामा यूनर्व्वाहासीदि”त्याह साम वै यूनर्वा सा-
म्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन् ॥ ८ ॥
यूनर्वा यूनर्व्वर्चः पुरुषं यूनक्ति प्राप्नोतीति यूनर्वा साम वै तत्-
था सत्येतत् पाठेन साम्न एव नमस्करोति ॥ ८ ॥
आर्त्विज्यं करिष्यन्नुद्गाता एतदेव विवृणोति—
“यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति
षष्ठाध्याये चतुर्थः खण्डः । १८९
न साम्नो हीयते नैनꣳ सामापहते ॥ ९ ॥
यः पुमान् एवमुक्तरीत्या साम्ने नमस्कृत्य साम्ना सामगाननिमि-
त्तेनार्त्विज्यं करोति स साम्नः सकाशान्न हीयते न वियुक्तो भवति। एन-
मुद्गातारं साम न अपहते न परित्यजति सामाप्यनेन न दुष्टं भवति।
तच्चैवं परार्थे प्रयुक्तवानिति न हिनस्तीत्यर्थः ॥ ९ ॥
न केवलमस्य सामकृतबाधाभावः किन्तु अन्यदीयानिन्दापि न प्राप्नो-
तीत्याह—
य एनमनुव्याहरति स आर्त्तिमार्च्छति ॥ १० ॥
योऽन्यः पुमानेनमुक्तप्रकारेणार्त्विज्यकारिणमनुव्याहरति अधि-
क्षिपति स एवार्त्तिमधिक्षेपप्रयुक्तामार्च्छति सर्वतः प्राप्नोति ॥ ११ ॥
अथोर्गसीत्यादि मन्त्रभागमुपादाय तत्तात्पर्य्यमाह—
"ऊर्गस्यूर्जोदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं
मे धेहि" प्रजापतेर्व्वा एतदुदरं यत्सद् ऊर्गुदुम्बरो यदौ-
दुम्बरी मध्ये सदसो मीयते मध्यत एव तत्प्रजाभ्योऽ-
न्नमूर्जन्दधाति ॥ ११ ॥
मन्त्रभागस्यायमर्थः, हे उदुम्बरि त्वम् ऊर्गसि अन्नमसि देवानाम्-
हविर्भागे उत्पन्नत्वादत ऊर्जोदा अन्नस्य दात्री भवसि, ऊर्जम्मे मह्यं
देहि, तथाच मे मयि ऊर्जन्धेहि स्थापय। मे इति 'सुपांसुलुग्'त्यादिना
सप्तम्याः शेभावे रूपसिद्धिः। उक्तएवार्थः। अन्नम्मे देहीति शब्दान्तरेणो-
क्त–सद इति। यत एतत् प्रजापतेः उदरं खलु उदुम्बर इति यत्तत् ऊर्ग्
अन्नमेवात एव मध्यदेश उदर एव प्रजननात् अन्नसिद्ध्यर्थमन्नम् ऊर्जं द-
धाति स्थापितवान् भवतीत्यर्थः। तथा सति यदौदुम्बरी सदसो मध्ये
मीयते तत् मध्ये ऊर्ग्स्थापनमेव प्रजानां जीवनाय तेषामुदरे अन्नं
स्थापितं भवतीत्यर्थः। अन्नमित्यूर्जमित्यस्य व्याख्यानम् ॥ ११ ॥
एतदेव व्यतिरेके दोषप्रदर्शनेन द्रढयति—
तस्माद्यत्रैषा यातयामा क्रियते तत् प्रजा अशना-
यवो भवन्ति ॥ १२ ॥
तस्मान्मन्त्रेण स्थापनादन्नं दधाति। यस्मादेवमतः। यत्रैषा औदु-
म्बरी यातयामा मन्त्रराहित्येन गतरसा सती क्रियते तत्तत्र देशे प्रजा
अशनायवः क्षुधिता भवन्ति। यस्मादेवं तस्मान्मन्त्रेण स्थापनादन्नं द-
धातीति सम्बन्धः ॥ १२ ॥
१९० ताण्ड्यमहाब्राह्मणे
मध्यतोऽन्नं दधातीत्युक्तं किं तन्मध्यमत्र विवक्षितं कथं वा तत्रा-
न्ननिधाने प्रजानां तृप्तिर्भवतीति तत्राह—
साम दे॒वानामन्न॑ꣳ साम्न्ये॒व तद्दे॒वेभ्यो॒ऽन्न॒मूर्ज्जन्द॑-
धाति॒ स ए॒व तदूर्जिꣳ श्रितः प्र॒जाभ्य॒ ऊर्जं॒ विभ॑जति॥१३॥
तस्य सामोपजीवनं प्रायच्छदिति, सामविधाने उक्तत्वादन्नवत्
प्रीतिकरत्वाद्वा देवानामन्रं साम तत्तथा सति साम्न्येव देवानामन्रभूते
सामनि ऊर्जमन्नन्दधाति किमर्थं ? देवेभ्यः देवांस्तर्पयितुम् । स इति श्रित
इति च लिङ्गव्यत्ययः । तत्तथा स एव तदेव देवानामन्रभूतम् ऊर्जि अन्ने
श्रितं साम प्रजाभ्य एषामर्थाय ऊर्जं विभजति प्रयच्छति ॥ १३ ॥
अथौदुम्बरिप्रसङ्गात् उद्गात्रादी
प्रपाठक ११-१५ (दशरात्र एवं संवत्सर सत्र निरूपण)
षष्ठाध्याये पञ्चमः खण्डः । १९१
दिशामभिष्ट्यै दिशामभिप्रीतया इति ब्रूयादित्यस्मात् सर्वासु दिक्ष्वन्नं
विद्यते सर्वा ह्यभीष्टाः प्रीता इति सर्वासु दिक्षु पूर्वरीत्या आर्त्वि-
ज्यकरणन्दिशामभीष्ट्यै तिसृणामपि दिशामभितो यागाय पूजनाया-
भिप्राप्तये वा भवति तथा दिशां सर्वासामभिप्रीतये अभिप्रीणनाय
भवति एकाामपि दिशमनतिहाय सम्भावनायेत्यर्थः । एवमुत्तरं ब्रूयात्,
यस्मादेवं तस्मात् सर्वासु दिक्षु अन्नं विद्यते लभ्यत इत्यर्थः । उक्तार्थ-
स्थैयोपपादनं सर्वा हीति । यस्मात् सर्वा अपि दिशः अभीष्टाश्च
प्रीताश्च तस्मात्सर्वासु दिक्षु अन्नं विद्यत इति युक्तम् ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथ समन्त्रकं द्रोणकलशस्य प्रोहणं विवक्षुस्तस्योत्पत्तिमाह-
प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशो-
चत्तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्द्धा-
नमुदहन् स द्रोणकलशोऽभवत्तस्मिन् देवाः शुक्रमगृह्णत
तां वै स आयुषाऽर्त्तिमत्यजीवत् ॥ १ ॥
प्रजापतिरकामयतेत्युक्तार्थम्। तस्य शोचतः आदित्यो मूर्ध्नोऽसृ-
ज्यत सृष्टोऽभूत् । स सृष्ट आदित्यः तस्य प्रजापतेर्मूर्द्धानं मस्तकप्रदेशं
स्वोत्पत्त्यर्थं उदहन् ऊर्द्ध्वे घातितवान् । स भिन्नो मूर्द्धा द्रोणकलशोऽभ-
वत् । तस्मिन् कलशे देवाः शुक्रं शुक्लं दीप्तं सोमरसं प्रत्यगृह्णत गृहीत-
वन्तः । स प्रजापतिः । आयुषा शिरोभङ्गात् क्षीणेनायुष्येण या आर्त्तिर-
भूत् तामार्त्तिमत्यजीवत् अतिक्रम्य चिरकालं जीवितवान् स्वशिरोभा-
गकपाले आप्यायकस्य सोमरसस्य धारणेन आर्त्तिं पर्यहरदित्यर्थः ॥१॥
अथोक्तार्थवेदनं प्रशंसति-
आयुषाऽर्त्तिमतिजीवति य एव ँवेद ॥ २ ॥
योऽन्य एवमुक्तमर्थं जानाति स आयुषा नैमित्तिकायुःक्षयेण जनिता
या आर्त्तिः तामतिजीवति अतिक्रम्य शतवर्षं जीवति ॥ ३ ॥
इदानीं समन्त्रकं द्रोणकलशप्रोहणं विधत्ते-
तं प्रोहे "द्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि
प्रजापतेर्मूर्द्धाऽस्यत्यायुपात्रमसीदमहम्मां प्राञ्चं प्रोहामि
तेजसे ब्रह्मवर्चसाये"ति ॥ ३ ॥
१९२ ताण्ड्यमहाब्राह्मणे
तं प्रजापतिशिरस्त उत्पन्नं कलशं वानस्पत्य इत्यादिना मन्त्रेण प्राञ्चं
प्रोहेत् प्रेरयेत् । एतत्प्रोहणमध्वर्य्वादिभिस्त्रिभिरपि कर्त्तव्यं, तथा च
सूत्रम् 'ऋतमसीति द्रोणकलशमालभ्य ऽवानस्पत्योऽसीति प्रोहेयुरि'ति
अयं मन्त्रः पूर्वं व्याख्यातः ॥ ३ ॥
अथ मन्त्रस्य प्रथमभागस्य तात्पर्यं व्याचष्टे—
यदाह ऽवानस्पत्य इति सत्येनैवैतं तत्प्रोहति ॥ ४ ॥
मन्त्रे उद्गाता वानस्पत्य इति यदाह तत्तेन एनं द्रोणकलशं सत्ये-
नैव प्रोहति । वस्तुतो द्रोणकलशस्य वनस्पतिविकारत्वात् सत्य इति
'बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ती'ति एतेन मन्त्रभागेनैव प्रो-
हणं कृतवान् भवति ॥ ४ ॥
अथ द्वितीयभागस्य तात्पर्यमाह—
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता
तमेव तद्युनक्ति ॥ ५ ॥
तं बृहस्पतिमेव युनक्ति प्रेरयति ॥ ५ ॥
अथ तृतीयचतुर्थभागयोस्तात्पर्यमाह—
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया
यद्द्रोणकलशो यदाह प्रजापतेर्मूर्द्धेति प्रजापतेर्ह्येष मूर्द्ध
उदहन्यत ॥ ६ ॥
द्रोणकलशस्य प्रजापतेर्मूर्द्धरूपत्वमुक्तप्रकारेण स्पष्टन्तत्सम्बन्धा
देव स प्राजापत्य इत्युच्यते ॥ ६ ॥
अथ पञ्चमस्य तात्पर्यमाह—
यदाहा"त्यायु
षष्ठाध्याये पञ्चमः खण्डः । १९३
इति विदुषः फलमाह—
देवपात्री भवति य एव ँवेद ॥ ८ ॥
य उक्तार्थज्ञः स देवपात्री देवपात्रं द्रोणकलशस्तद्वान् भवति। सोम-
यागानुष्ठाता भवतीत्यर्थः ॥ ८ ॥
अथ प्रासङ्गिकं किञ्चिदाह—
ब्राह्मणं पात्रे न मीमाँसेत यं ब्राह्मणमिव मन्यते
प्र देवपात्रमाप्नोति न मनुष्यपात्राच्छिद्यते ॥ ९ ॥
ब्राह्मणं पात्रे पात्रभावे अयं पात्रं भवति न वेति न मीमांसेत विचार-
न्न कुर्यात्। किं ब्राह्मणब्रुवमात्रेण न मीमांसितव्यं नेत्याह-यं पुरुषं ब्राह्म-
णमिव मन्येत। इव शब्द एवकारार्थः। जात्या ब्राह्मणमेव यदि निश्चिनु-
यात् तदा तद्विषयं वृत्तविद्यादिसद्भावासद्भावान्न मीमांसेतेत्यर्थः। तथा
च स्मृतिः 'न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा। हृदये कल्पयेद्देवं
सर्वदेवमयोद्विज' इति। एवं यस्मिन्विचारमकृत्वा पात्रमेवेति यो निश्चयं
करोति तस्य तदेव पात्रमन्वेति विद्यातपोयुक्ते यत्फलं भवति तत्तस्मि-
न्नपि भवतीत्यर्थः। किञ्च स पुमान् मनुष्यपात्रान्न छिद्यते मनुष्याणां
पात्रं भवतीत्यर्थः ॥ ९ ॥
उक्तं द्रोणकलशप्रोहणं हविर्द्धानादधः कर्त्तव्यं तत्राक्षगतवागवरो-
धनायेति वक्ष्यति। अतो वागक्षरसम्बन्धं वक्तुमाख्यायिकामाह—
वाग्वै देवेभ्योऽपक्रामत्सापः प्राविशत्तां देवाः पुन-
रयाचँस्ता अब्रुवन्यत्पुनर्द्द्याम किन्नस्ततः स्यादिति
यत्कामयध्व इत्यब्रुवँस्ता अब्रुवन्देवास्मासु मनुष्या
अपूतं प्रवेशयाँस्तेनासँमृष्टा असामेति ॥ १० ॥
पुरा देवेभ्यः सकाशात् स्वयमात्मानं प्रकाशयन्ती वाक् अपक्रामत्
आत्मानमप्रकाश्यापगताभूत् 'वै शब्दः श्रुत्यन्तरप्रसिद्ध्यर्थः' तथाच तै-
त्तिरीयकं' वाग्वै देवेभ्योऽपक्रामत् यज्ञायातिष्ठमानेत्यादि। सापगता
अपः प्राविशत् तां वाचं पुनर्यज्ञार्थमयाचन् प्रार्थयन् ताश्च पुनरब्रुवन्
किमिति यत्पुनर्द्द्याम यच्छाम नोऽस्माकं ततः किं फलं स्यादिति पृ-
ष्टास्ते देवाः तर्हि यत्फलं कामयध्व इत्यब्रुवन् ताश्च पृष्टाः पुनरब्रुवन्
हे देवाः अपूतमपूतादिकं अस्मासु मनुष्याः तदुपलक्षिताः सर्वे प्राणि-
नः प्रवेशयान् प्रवेशयेयुः। लोडूबहुवचनस्येदं रूपम्। तेनापूतेन असंमृ-
ष्टाः संसर्गरहिताः। असाम भवेम ॥ १० ॥
१७ ता०
१९४ ताण्ड्यमहाब्राह्मणे
उक्तार्थब्रह्मविदः फलमाह-
शुद्धा अस्मा आपः पूता भवन्ति य एव ँवेद॥११॥
स्पष्टोऽर्थः ॥ ११ ॥
अथाप्राप्ताया वाचो वनस्पतीन् प्रवेशमाह-
सा पुनर्त्तार्त्यक्रामत् सा ऽवनस्पतीन् प्राविशत्तान्दे-
वाः पुनरयाचँस्तान्न पुनरददुस्तानशपन् स्वेन वः कि-
ष्कुणा ऽवज्रेण वृश्चान्निति तस्माद्वनस्पतीन् स्वेन किष्कु-
णा ऽवज्रेण वृश्चन्ति देवशप्ता हि ॥ १२ ॥
पुनर्त्तार्ति अद्भिः पुनर्हता सा अत्यक्रामत् । अतिक्रम्य सा वनस्पतीन्
प्राविशत् । प्रविष्टां तां देवाः इत्यादि अशपन्नित्यन्तः स्पष्टः । शापप्रका-
रमाह-वो युष्मान् स्वेन स्वसम्बन्धिना वानस्पत्येन किष्कुणा दण्डेन
युक्तेन वज्रेण परश्वादिना वृश्चान् वृश्च्युरिति । यस्मादेवन्तस्मादिदा-
नीमपि स्वेन किष्कुणा वज्रेण वृश्चन्ति । हि यस्माद्वनस्पतयो देवैः श-
प्ताः । अत इत्यभिप्रायः ॥ १२ ॥
इदानीमक्षसम्बन्धं वक्तुं प्रविष्टाया वाचश्चतुर्द्धा विभागमाह-
ता ँवनस्पतयश्चतुर्द्धा ऽवाचं व्यँन्यदधुर्दुन्दुभौ ऽवीणा-
यामक्षे तूणवे तस्मादेषा ऽवदिष्ठैषा ऽवल्गुतमा ऽवाग्वा
ऽवनस्पतीनां देवाना ँ ह्येषा ऽवागासीत् ॥ १३ ॥
तान्तेषु प्रविष्टां वाचं वनस्पतयश्चतुर्द्धा चतुःप्रकारं व्यन्यदधुः वि-
भज्य निधनमकुर्वन् । केष्विति उच्यते-दुन्दुभौ भेर्य्यां वीणायां वेणु-
निर्म्मिततन्तुसम्बद्धायां विपञ्च्याम्। अक्षे रथादिचक्रयोर्मध्यवर्त्तिनि ति-
र्यग्दण्डे। तूणवे धनुषि गुणे। तस्मादुक्तपदार्थप्रवेशादेषैव वाक् वदिष्ठा
अतिशयेन वक्त्री। अत एषैव वल्गुतमा चारुतमा वाक् या श्रोतृमनोहादि-
नीत्यर्थः । एषेत्युक्तं केत्याह-या वनस्पतीनां वनस्पतिविकाराणां दुन्दु-
भ्यादीनां सम्बन्धिनी। उक्तस्यैव विवरणं देवानां हीति । यस्मात् दुन्दु-
भ्यादिषु प्रविष्टा वाक् वदिष्ठा वल्गुतमा च अतः खलु देवानां
योग्यासीत् ॥ १३ ॥
इदानीमक्षस्थवागवरोधनाय तदधः कलशप्रोहणन्तदुपरि दशाप-
वित्रस्थापनञ्च विधत्ते-
अधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति तस्या ऽवाचो ऽवरु-
ध्या उपर्युपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव ऽवाचं प-
रिगृह्णन्ति ॥ १४ ॥