ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 202, कुल 518 में से
संदर्भ में पढ़ें१८२ ताण्ड्यमहाब्राह्मणे
अथ विदुषः फलमाह—
स देवेन यज्ञेन यजते य एव ँवेद ॥ ६ ॥
यः पुमानेवं जानाति स देवेन सन्निहितदेवकेन यज्ञेन यजते। उक्त-
देवतात्मकत्वमेवास्य स्तोमस्योपदेशनवत्त्वम् ॥ ६ ॥
अथ प्रकारान्तरेण त्रयस्त्रिंशं स्तोतुमाह—
यो वा अधिपति ँवेदाधिपतिर्भवति त्रयस्त्रिं५शो
वै स्तोमानामधिपतिः पुरुषः पशूनाम् ॥ ७ ॥
त्रयस्त्रिंशो वै त्रयस्त्रिंशः खलु स्तोमानामधिपतिः। उक्तस्तोमेभ्यो-
ऽधिकसंख्योपेतत्वात्। पुरुषस्यापि अधिपतित्वोपन्यासः स्तोमदृष्टा-
न्तत्वेन तस्यैव स्तुत्यर्थः ॥ ७ ॥
अथ पुरुषस्याधिपतित्वमेवोपपादयति—
तस्मान्न्यञ्चोऽन्ये पशवोऽदन्त्युदूर्ध्वः पुरुषोऽधिप-
तिर्हि सः॥ ८ ॥
तस्मात्पुरुषस्याधिपतित्वात् अन्ये पुरुषव्यतिरिक्ता गवाश्वादयः
पशवो न्यञ्चोऽवाङ्मुखाः सन्तः अदन्ति भक्षयन्ति तृणानि, पुरुष ऊ-
र्ध्वमुखः सन् भुङ्क्ते। ऊर्ध्वत्वे हेतुं विवृणोति-स पुरुषः अधिपतिः खलु ॥८॥
अथ विदुषः फलमाह—
आधिपतिः समानानां भवति य एव ँवेद ॥ ९ ॥
स्पष्टोऽर्थः ॥ ९ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य द्वितीयः खण्डः ॥ ६ ॥ २ ॥
अथ तृतीयः खण्डः।
अथ संख्याक्रमेणाग्निष्टोमं प्रथमं विवक्षुस्तं बहुफलसाधनत्वेन
प्रशंसति—
एष वाव यज्ञो यदग्निष्टोमः ॥ १ ॥
एष वाव एष एव मुख्यो यज्ञो यदग्निष्टोमः। अग्निष्टोम इति सर्वफ-
लसाधनत्वेन मुख्यत्वादेष एव यज्ञः। इतरे त्वेकैकफलसाधनत्वाज्जघन्या
इत्यर्थः ॥ १ ॥
अथ तदेवाह—
एकस्मा अन्यो यज्ञः कामायाह्रियते सर्व्वेभ्योऽ-
ग्निष्टोमः ॥ २ ॥