सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 204, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 204

अस्य ज्योतिष्टोमस्य किञ्ज्योतिष्टोमत्वं किं कारणकत्वमित्याहुर्ब्रह्म-
वादिनः ? अयं यज्ञस्त्रिवृदादिभिः संस्तुतः सन् विराजं सम्पद्यते । 'दशा-
क्षरा विवराडि'ति श्रुतेः। दशसंख्या सम्पद्यत इत्यर्थः। तथा सति विराजत
इति विराडिति व्युत्पत्त्या छन्दसां मध्ये विराट् ज्योतिः । एवं च स्तो-
मानां मध्ये विराट् द्वारा सम्पत्तेरयं ज्योतिष्टोम इत्युच्यत इति । विरा-
जेन दशसंख्याधिक्यक्लृप्तिश्चेत्थमवगन्तव्या प्रातःसवने बहिष्पवमा-
नस्त्रिवृदतो नवस्तोत्रीया भवन्ति । आज्यस्तोत्राणि चत्वारि तानि पञ्च-
दशानि षष्टिस्तोत्रीया भवन्ति । तदुभयम्मिलित्वा एकोनसप्ततिस्तोत्री-
या भवन्ति । माध्यन्दिने सवनेऽपि पञ्चदश माध्यन्दिनः पवमानः पृष्ठ-
स्तोत्राणि चत्वारि अपि सप्तदश स्तोमानि मिलित्वा अशीतिस्तोत्रीया
भवन्ति । तृतीयसवनेऽपि सप्तदश आर्भवः पवमानः । एकविंशस्तोमम-
ग्निष्टोमस्तोत्रं मिलित्वा अष्टत्रिंशत्स्तोत्रीया भवन्ति । सवनत्रयं मिलित्वा
नवत्यधिकं शतस्तोत्रीया भवन्ति । अतश्च दशशो भागे सति अन्ते द-
शावशिष्यन्ते । एवं दशसंख्योपेतविवराट्त्वसम्पत्तेस्तत्सम्बन्धादस्य
ज्योतिष्टोमत्वम् ॥ ६ ॥
अथ विदुषः फलमाह—
ज्योतिः समानानां भवति य एव ँवेद ॥ ७ ॥
ऋज्वर्थः ॥ ७ ॥
अथाग्निष्टोममेव प्रकारान्तरेण प्रशंसति—
ज्येष्ठयज्ञो वा एष यदग्निष्टोमः ॥ ८ ॥
अग्निष्टोम इति योऽस्ति एष ज्येष्ठयज्ञः खलु देवानां ज्येष्ठः प्रजापतिः
'हिरण्यगर्भः समवर्त्तताग्र' इत्यादिस्तुतेः । तत्सम्बन्धादस्य ज्येष्ठत्वम्
'प्रजापतिर्वा एष यज्ञो यदग्निष्टोम' इति श्रुतिः ॥ ८ ॥
अथामुमेव पक्षं प्रजापतेः श्रेष्ठत्वसम्पादनद्वारा पुनः प्रशंसति—
प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नाति-
ष्ठन्त स एतमग्निष्टोममपश्यत्तमाहरत्ततोऽस्मै प्रजाः
श्रैष्ठ्यायातिष्ठन्त ॥ ९ ॥
पूर्वं प्रजापतिना सृष्टाः । अस्मै स्रष्ट्रे प्रजापतये श्रैष्ठ्याय श्रेष्ठभा-
वाय नातिष्ठन्ते अमुं श्रेष्ठमिति नाज्ञासिष्ट । इतरत् सुज्ञानम् ॥ ९ ॥
अथ विदुषः फलमाह—
तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एव ँवेद ॥ १०॥
स्पष्टोऽर्थः ॥ १० ॥