सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 201, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 201

षष्ठाध्याये द्वितीयः खण्डः । १८१
यस्तु त्रिवृत्स्तोमोऽस्ति 'प्राणो वै त्रिवृदिति' ड्यावृत्त्या नवर्चः स-
म्पद्यन्ते । मुख्यः प्राणोऽपि शीर्षण्यैः सप्तप्राणैः अर्वाग्वृत्तिभ्यां प्राणद्वया-
भ्यां सह नवं प्राणात्मकः । अतो नवभेदसाम्यात् त्रिवृत्प्राण इति स्तूयते ।
यथा पञ्चदशस्तोमोऽप्यर्द्धमासात्मकः पञ्चदशभिरहोभिर्युक्तत्वात् तत्सं-
ख्यासाम्येन स्तुतिः । योऽयं सप्तदशस्तोमः स संवत्सरः 'द्वादशमा-
साः पञ्चर्त्तवो हेमन्तशिशिरयोः समासेन तावान् संवत्सर' इति श्रुतेः ।
सप्तदशसंख्यासाम्यादसौ सप्तदश इत्युच्यते । योऽयमेकविंशस्तोमः स
आदित्य एव "द्वादशमासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य इत्ये-
कविंश" इति श्रुतेरादित्यस्यैकविंशत्वात् तत्संख्यासाम्येनास्यादित्य-
त्वम् । एते स्तोमा उक्तास्त्रिवृदादय उपदेशनवन्तः त्रिवृदादीनां प्राणा-
द्यात्मादिकथनमेवोपदेशनं तद्वन्तः । शिष्टं गतम् ॥ २ ॥
अथोक्तस्तोमचतुष्टयस्य प्रसङ्गेन त्रिणवत्रयस्त्रिंशयोरप्युपदेशन-
वत्त्वमाह—
इमे वै लोका।स्त्रिणवास्त्रिणवस्य वै ब्राह्मणेनेमे लोका-
स्त्रिष्पुनर्नवा भवन्ति ॥ ३ ॥
त्रिणवस्वरूपस्य त्रिवृत् त्रयात्मकत्वविधानेन इमे भूरादयो लोकाः
त्रिः पुनर्नवा (१) भवन्ति त्रित्वसंख्योपेताः सन्तःपुनर्नवसंख्याका भवन्ति
'त्रयो वा इमे त्रिवृतो लोका' इति श्रुतेः एकैकस्य त्रिवृत्त्वान्मिलित्वा
नवसंख्याकत्वम् । लोकत्रयस्याश्रयस्य स्तोमस्य त्रैलोक्यात्मकत्वमेवो-
पदेशनवत्त्वम् ॥ ३ ॥
अथोक्तार्थविदुषः फलमाह—
एषु लोकेषु प्रति तिष्ठति य एव ँवेद ॥ ४ ॥
स्पष्टोऽर्थः । यद्वा त्रिणवस्य वा इत्यादिकमेवं वेदेत्यन्तं वेदितुः
फलं त्रिणवस्य वै ब्राह्मणेनेमे वै लोकास्त्रिणव इति ध्यानज्ञानेन इमे
लोकास्त्रिष्पुनर्नवेषु जानानः प्रतिष्ठितो भवति ॥ ४ ॥
अथ त्रयस्त्रिंशस्योपदेशनवत्त्वमुच्यते—
देवता वाव त्रयस्त्रिंशोऽष्टौ ऽवसव एकादश रु-
द्रा द्वादशादित्याः प्रजापतिश्च ऽवषट्कारश्च त्रय-
स्त्रिंशौ ॥ ५ ॥
अयं त्रयस्त्रिंशस्तोमः। देवता वाव देवता एव। उक्ते स्तोमे देवतासु
च एकत्वापादकं संख्यासाम्यमुपपादयति—अष्टौ वसव इत्यादिना ॥५॥
( १ ) अत्र बहुव्रीहौडच्प्रत्ययः ।
१६ ता०