तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
, रु॒ anudatta, डो plain.
ब्रह्म॑: ब्र plain, ह्म॑ udatta.
वि॒ष्णुश्च॑: वि॒ anudatta, ष्णु plain, श्च॑ udatta.
ना॒र-: ना॒ anudatta, र plain, hyphen.
Line 15:
सि॒ꣳहस्तथै॑व च । आ॒दि॒त्योऽग्नि॒श्च॑ दु॒र्गिश्च॑ क्रमेण द्वाद॒शाम्भ॑सि । *म मं व च
Wait! Look at *म मं व च or *म मं वं चु?
Let's check the letters in line 15 after द्वाद॒शाम्भ॑सि ।:
*म - asterisk, then म
मं - म with anusvara? Or पं? It's मं.
व - व with anudatta? Look underneath व: there is an anudatta line व॒?
Wait, look at line 15-16:
Line 15 ends with: *म मं व च or *म मं व॒ च॒?
Under व there is a horizontal stroke! Under च there is a horizontal stroke: च॒!
Wait, is the last
[ अनु० २ ] सभाष्यो दशमप्रपाठकः । ८१३
एव तलवकारोपनिषदि ब्रह्मविद्यामूर्तिप्रस्तावे · ब्रह्मविद्यामूर्त्तिः पठ्यते-"बहुशोभमानामुमां
हैमवतीं तां होवाच” इति । तद्विषयः परमात्मा तयोमया सह विद्यमानत्वात्ससोमः, स
च सानौ हृदयपुण्डरीके बृहद्ब्रह्म यथा भवति तथा वावृधे वृद्धिं प्राप्तः । पूर्वमविद्या-
वृतत्वेन संकुचितो जीवो भूत्वा तस्यामविद्यायां विद्ययाऽपनीतायां ब्रह्मत्वाविर्भावात्स
वृद्ध इत्यवभासत इत्यर्थः । स च सोमः सुवानो जनानां धर्माधर्मयोः प्रेरकः । इन्दुः
फलदानेन चाऽऽह्लादहेतुः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपानि-
षदि भाष्ये प्रथमोऽनुवाकः ॥ १ ॥
अथ द्वितीयोऽनुवाकः ।
तत्रा(अथा)निष्टपरिहारार्थत्वेन जप्य मन्त्रांस्तत्र प्रथमामृचमाह—
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेद॑ः ।
स न॑ः पर्षदति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥इति।
वेदांसि वेदनानि ज्ञानानि तानि जातान्युत्पन्नानि यस्मादग्नेः सोऽयं जातवेदाः ।
आधानेन संस्कृतेऽग्नौ पश्चात्कर्तव्यविषयाणि ज्ञानान्युत्पद्यन्ते तस्मै जातवेदसे याग-
काले लतात्मकं सोमं सुनवामाभिषुतं करवाम । स्वयं सर्वं वेत्तीति वेदोऽग्निः, स
चारातीयतोऽस्मास्वरातित्वं कर्तुमिच्छतः पुरुषान्निदहाति नितरां भस्मी करोति ।
किंच सोऽग्निर्नोऽस्माकं विश्वा दुर्गाणि सर्वा आपदोऽतिपर्षत, अतिशयेन नाशि-
तवानित्यर्थः । किंच यथा लोके नावा सिन्धुं समुद्रं [नाविकःस्तारयति तथाऽग्निर्दुरिता
दुरितानि पापान्यातिशयेन] तारयतीति शेषः ।
द्वितीयामृचमाह—
ता॒म॒ग्निव॑र्णां॒ तप॑सा ज्वल॑न्तीं वैरोच॒नीं क॑र्मफ॒लेषु॒ जुष्टाम्॑ ।
दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नम॑ः; इति ।
येयं वन(?)दुर्गाकल्पादिषु वन(?)शास्त्रेषु प्रसिद्धा तां दुर्गां देवीं शरणं प्रपद्ये ।
कीदृशीम् । [ अग्निवर्णाम् , ] अग्निसमानवर्णाम् । तपसा स्वकीयेन संतापेन ज्वल-
न्तीमस्मच्छत्रून्दहन्तीम् । विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचनः परमात्मा
तेन दृष्टत्वाद्वैरोचनीम् । कर्मफलेषु स्वर्गपशुपुत्रादिषु निमित्तभूतेषु जुष्टामुपासकैः
सेविताम् । हे सुतरासि सुष्ठु संसारतरणहेतो देवि तरसे तारयित्र्यै तुभ्यं नमोऽस्तु ।
८१४ परिशिष्टत्वेन संगृहीतः— [ अनु० २ ]
तृतीयामाह—
अग्ने॒ त्वं पार॒या नव्यो॑ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः, इति ।
हेऽग्ने नव्यः स्तोतव्यस्त्वमस्मान्स्वस्तिभिः क्षेमकारिभिरुपायैर्विश्वा दुर्गाण्यति
सर्वा आपदोऽतिशयेन लङ्घयित्वा पारय संसारपारं(पर)तीरं नय । नोऽस्माकं त्वत्प्र-
सादात्पूश्च निवासयोग्या पुरी पृथ्वी सा विस्तीर्णा भवतु । उर्वी सस्यनिष्पादनयोग्या
भूमिरपि बहुला भवतु । त्वं च तोकाय तनयायास्मदपत्याय तदीयपुत्राय च शंयो-
र्भवेह सुखस्य मिश्रयिता भव ।
चतुर्थीमाह—
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न नावा॑ दु॒रिता॑ऽतिप॒र्षि ।
अग्ने॑ अत्रिव॒न्मन॑सा गृणा॒नोऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म्, इति ।
हे जातवेदो दुर्गहा सर्वासामापदामपहन्ता विश्वानि त्वं दुरिता सर्वाणि पापानि
नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपर्षि अतिशयेन तारयसि । हेऽग्नेऽत्रिवदा-
ध्यात्मिकादितापत्रयरहितत्वेनात्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः “आत्मौपम्येन भूतानां
दयां कुर्वीत मानवः” इत्येतच्छास्त्रमनुसृत्य “सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः”
इत्येवं मनसा यथा सर्वदा भवति ( भावयति ) तथा त्वमपि मनसा गुणान उच्चा-
रयन्भावयन्नस्माकं तनूनामविता रक्षिता भूत्वा बोधि बुध्यस्व सावधानो भवेत्यर्थः ।
पञ्चमीमाह—
पृत॑ना॒जितँ॑* सह॑मानमु॒ग्रम॒ग्निं हु॑वेम पर॒मात्स॒धस्था॑त् ।
स नः॑ पर्षदति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्देवो अति॑दु॒रिताऽत्य॒ग्निः, (*१), ।
पृतना परकीयसेना तां जयतीति पृतनाजित्तम् । अत एव सहमानं शत्रूनभिभव-
न्तमुग्रं भीतिहेतुमग्निं परमादुत्कृष्टात्सधस्थात्स्वकीयैर्भृत्यैः सहावस्थानदेशाद्धुवेमाऽऽ-
हयामः । स न इत्यादि पूर्ववत् । किंचाग्निर्देवः क्षामदस्मानपराधिनः क्षममाणोऽति-
दुरिताऽतिशयितानि पातकानि ब्रह्महत्यादीन्यति लङ्घयतीति शेषः ।
षष्ठीमृचमाह—
प्र॒त्नोषि॑ क॒मीड्यो॑ अ॒ध्व॒रेषु॑ सना॒च्च होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चाग्ने॑ त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑ज॒स्व, इति ।
- व. पुस्तकेऽय ङ्को नास्ति ।
१ क. ॰हर्ता त्वं ।
[ अनु० ३ ] सभाष्यो दशमप्रपाठकः । ८१५
हेऽग्ने त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रतनोषि विस्तार-
यसि । सनाच्च कर्मफलस्य दाताऽपि सन्हो[ता हो]मनिष्पादको नव्यः स्तुत्योऽपि
भूत्वा सत्सि सीदसि यागदेशे तिष्ठसि । अतो हेऽग्ने स्वां च स्वकीयामपि तनुवं
पिप्रयस्व स्वकीयहविषा प्रीणय । ततोऽस्मभ्यं च सौभगं शोभनभाग्योपनीतत्वमा-
यजस्व सर्वतो देहि ।
सप्तमीमृचमाह—
गोभि॑र्जुष्ट॒मयु॑जो॒ निषि॑क्तं॒ तवे॑न्द्र॒ विष्णो॒रनु॒संच॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि संवसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्* [२] । इति
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वितीयोऽनुवाकः ॥ २ ॥
हे इन्द्र वयं तव व्यत्ययेन त्वामनुसंचरेम । भृत्या इव त्वत्सेवका भवेमेत्यर्थः ।
तव कथंभूतस्य । न युज्यते पापैर्दुःखैश्चेत्ययुक्तस्यायुजः । तथा विष्णोः सर्वया-
गेषु व्यापकशीलस्य । किमुद्दिश्य, गोभिर्धेनुभिर्जुष्टं निषेवितममृतधाराभिनिषिक्तं महा-
भाग्यमुद्दिश्येति शेषः । किंच सर्वे देवा मां मादयन्तां वाञ्छितप्रदानैर्हर्षयन्तु । कुत्र ।
इह लोके भूमौ । सर्वे देवाः कथंविधाः, नाकस्य पृष्ठमुपरिभागमभि सर्वतः संव-
सानो व्यत्ययेन संवसाना आश्रित्य विद्यमानाः । मां कथंभूतम् । वैष्णवीं विष्णु-
संबन्धिनीं भक्तिं कुर्वाणमिति शेषः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
───
इतः परं पापक्षयार्थद्वाराऽन्नकामस्य होममन्त्रानाह । भूसंस्काराद्याज्यसंस्कारान्तं
स्वगृह्योक्तविधया कर्म कृत्वैतैर्मन्त्रैराज्यं मन्त्रलिङ्गादन्नं वा होतव्यम् । अयं प्रधानयागः
स्विष्टकृदादि च पुनर्गृह्येण विधिना कर्तव्यम्—
भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒
स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॒रन्नं॑
- एतदग्रे “ अग्निश्चत्वारिं च ” इति परिगणनं क्वचित्प्रसिद्धम् ।
१ व. ॥ ६ ॥
च॒न्द्रम॑से दिग्भ्यः॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा
पि॒तृभ्यो॒ भूर्भु॒वः॒ सुव॒रन्नमोम् ( ३ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि तृतीयोऽनुवाकः ॥ ३ ॥
भूर्भुवः सुवरिति त्रीणि पदान्यव्ययानि त्रैलोक्याधिष्ठानदेवतावाचकानि च ।
भूः पृथिव्यधिष्ठानदेवता मह्यमन्नं दद्यादिति शेषः । तदर्थं च चरुरूपमन्नं मयाऽस्मि-
न्स्मार्ताग्नौ स्वाहा सुहुतमस्तु । कस्मै । अग्नये पृथिव्यधिष्ठिताय पृथिव्या अग्न्य-
धिष्ठात्र्यै च । पर्यायद्वयेऽप्यित्थमेव व्याख्याप्रकारः । चतुर्थपर्याये तु भूः, भुवः, सुवः,
एतास्तिस्रोऽधिष्ठात्र्यो मह्यमन्नं दद्युरिति शेषः । समानमन्यत् । एवं प्रधानयाग(गं)
स्विष्टकृता कृत्वाऽन्ते प्रा
[ अनु० ५-६ ] सभाष्य दशमप्रपाठकः । ८१७
भूरादयस्तिस्रो लोके प्रसिद्धा इदमाहुतिद्रव्यं स्वीकृत्यास्मत्पापं निवारयन्त्विति
शेषः । हेऽग्ने त्वमपि मत्प्रार्थितमोम्, कर्तुमङ्गी कुरु ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्ताया-
याज्ञिक्यामुपनिषदि भाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
महत्त्वकामस्य तत्फलका होममन्त्रा उच्यन्ते—
भूर॒ग्नये॑ च पृथि॒व्यै च॑ म॒हते॑ च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑-
क्षाय॑ च म॒हते॑ च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ म॒हते॑ च॒
स्वाहा॒ भूर्भुव॒: सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ म॒हते॑ च॒
स्वाहा॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒: सुव॑र्मह॒रोम्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
पञ्चमोऽनुवाकः ॥ ५¹ ॥
तिस्रो देवता महर्महत्त्वं सर्वपूज्यत्वं दद्युरिति शेषः । महत् इत्यग्न्यादीनां विशेषणं
वचनलिङ्गविपरिणामेना[न्यत्राप्य]न्वेतव्यम् । एतत्सर्वं मान्त्रिक्यो देवता ओमङ्गी-
कुर्वन्तु । समानमन्यत् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
पूर्वत्र भूरग्नय इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होममन्त्रा उक्ताः । अथ प्रति-
बन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्थं होममन्त्रा उच्यन्ते—
पा॒हि नो॑ अग्न॒ एन॑से॒ स्वाहा॒ । पा॒हि नो॑ विश्व॒वेद॑से॒ स्वाहा॒ ।
य॒ज्ञं पा॑हि विभावसो॒ स्वाहा॒ । सर्वं॑ पाहि शतक्रंतो॒ स्वाहा॒, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
षष्ठोऽनुवाकः ॥ ६² ॥
१ व. १९ ॥ २ ग. २० ॥
१०२
८१८ परिशिष्टत्वेन संगृहीतः— [ अनु० ७-८ ]
हेऽग्ने नोऽस्मानेनसो ज्ञानप्रतिबन्धकात्पापात्पाहि रक्ष । तुभ्यमिदं स्वाहा सुहु-
तमस्तु । नोऽस्माकं विश्ववेदसे कृत्स्नतत्त्वज्ञानसिद्ध्यर्थं पाहि तत्साधनसंपादनेन
पालय । तदर्थं तुभ्यमिदं स्वाहा सुहुतमस्तु । विशेषेण भानं दीप्तिर्विभा सैव वसु धनं
यस्याग्नेः सोऽयं विभावसुः । हे विभावसो यज्ञं विविदिषाहेतुत्वेनास्माभिरनुष्ठी-
यमानं पाहि, निर्विघ्नेन समाप्तिं नीत्वा पालय । शतसंख्याः क्रतवो येनाग्निना निष्पा-
द्यन्ते सोऽयं शतक्रतुः । हे शतक्रतो सर्वं ज्ञानसाधनं गुरुशास्त्रादिकं पाहि ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
पुनरपि पूर्वोक्तप्रयोजनकाहुतिचतुष्टयमन्त्रा उच्यन्ते—
पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यू३॑न् तृती॑-
य॑या । पा॒हि गी॒र्भिस्ति॒सृभि॑र्वसो॒ स्वाहा॑ , इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तमोऽनुवाकः ॥ ७ ॥
हेऽग्ने हे वसो जगन्निवासहेतो त्वमेकर्ग्वेदलक्षणया गिराऽभिष्टुतः सन्नोऽस्मा-
न्पाहि । तदर्थमिदमाज्यं तुभ्यं स्वाहा सुहुतमस्तु । स्वाहाशब्दः सर्वत्रानुषज्यते ।
उतापि च द्वितीयया यजुर्वेदरूपया गिराऽभिष्टुतः सन्नोऽस्मान्पाहि स्वाहा । किंच
तृतीयया सामवेदात्मिकया गिराऽभिष्टुतः सन्नः संबन्ध्यूर्जमन्नमन्नरसं च पाहि स्वाहा।
अपि चर्यजुःसामाथर्वणरूपाभिश्चतसृभि[र्गीर्भिर्वाभि]ष्टुतः सन्नः पाहि स्वाहा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमोऽनुवाकः ।
अथ ( थ ) ज्ञानप्रतिपादककृत्स्नवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह—
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पश्छ॒न्दोभ्य॒श्छन्दाँ॒स्यावि॑वेश॑ ।
सचा॑ꣳ शिख्यः पु॒रोवाचोप॑निष॒दिन्द्रो॑ ज्ये॒ष्ठ इन्द्रि॑याय
१ घ. ०१ ॥
[ अनु० ९ ] सभाव्यो दशमप्रपाठकः । ८१९
ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॑: सुव॒श्छन्द॒ ओम् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिष-
द्यष्टमोऽनुवाकः ॥ ८¹ ॥
यः प्रणवश्छन्दसां वेदानां मध्य ऋषभ ( भो ) ज्येष्ठो विश्वरूपः सर्वजगदा-
त्मकः । एतदेवर्षभत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम् । तादृशः प्रण-
वश्छन्दोभ्यो वेदेभ्यः प्रादुर्भूत इति शेषः । वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः ।
स पुनश्छन्दांसि गायत्र्यादीन्याविवेश । छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः ।
तथा च प्रपञ्चसारेऽभिहितम्—" अस्य [ तु ] वेदादित्वात्सर्वम [ नूनां ] प्रयु-
ज्यते ह्यादौ " इति । तेन प्रणवेन प्रतिपाद्य इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्पु-
रोवाच । उपनिषदू (षदं ब्र ) ह्य [ विद्यां ] वेदान्तसिद्धान्तमुक्तवान् । कीदृश
इन्द्रः । सचां सतां शिक्क्यः सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिमिश्च प्राप्तुं शक्यः ।
ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः । किमर्थं विद्यामुक्तवान्, तदुच्यते । ऋषिभ्य
ऋषीणामन्तर्मुखानां ( णां ) जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्याय । अतोऽहं तत्प्रति-
बन्धनिवारणाय देवेभ्यश्च पितृभ्यश्च नमस्करोमि । भूर्भुवःसुवर्लोकत्रयावस्थितं छन्दो
मन्त्रब्राह्मणात्मकं वेदमों प्राप्नोति ( मि ) ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्येऽष्टमोऽनुवाकः ॥ ८ ॥
अथ नवमोऽनुवाकः ।
—————
अथ लब्धानां वेदानामहविस्मरणाय जप्यं मन्त्रमाह—
नमो॒ ब्रह्म॑णे धार॑णं मे अ॒स्त्वनि॑राकरणं धारयि॑ता भूयासं॒
कर्ण॑योः श्रु॒तं मा च्योद्वं ममा॒मुष्य॒ ओम् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमपाठके नारायणोपनिषदि
नवमोऽनुवाकः ॥ ९³ ॥
ब्रह्मणे जगत्कारणाय नमोऽस्तु । तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयोर्धारण-
मस्तु । अनि Flaकरणं निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूया-
सम् । अमुष्येत्थं प्रार्थयमानस्य मम कर्णयोर्यत्किंचिद्वेदशास्त्रादिकं यदा कदाचि-
—————————————————————————————————————————————
१ व. २२ ॥ २ छ. °दर्थार्थाय । अ° । ३ व. २३ ॥
८२० परिशिष्टत्वेन संगृहीतः— [ अनु० १०–११ ]
दपि श्रुतमासीत्तत्सर्वं [ हे ] देव मा च्योढ्वं मा विनाशय । ततोऽहमों प्राप्नुयां
स्थिरं धारणामिति शेषः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः ।
अथ ज्ञानसाधनं चित्तैकाग्र्यरूपं तपोऽस्ति, " मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं
तपः " इति श्रुतेः । तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति । यद्वा तथाविध-
तपःसिद्ध्यर्थं जप्यं मन्त्रमाह—
ऋ॒तं तप॑ः स॒त्यं तप॑ः श्रु॒तं तप॑ः शा॒न्तं तपो॑
दम॒स्तप॑ः शम॒स्तपो॒ दानं॒ तपो॑ य॒ज्ञं तपो॒
भूर्भुवः॒ सुव॒र्ब्रह्मै॒तदुपा॑स्यै॒तत्तप॑ः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
दशमोऽनुवाकः ॥ १०* ॥
ऋतं मनसा यथार्थवस्तुचिन्तनम् । सत्यं वाचा यथार्थ भाषणम् । श्रुतं वेदस्य
पूर्वोत्तरभागार्थावबोधायोभयोर्मीमांसयोः श्रवणम् । शान्तं शान्तिर्बा[ह्येन्द्रियाभ्यन्तरे-
न्द्रियोपरतिः ] दमो दमनं यथोक्तोपवासादिभिः शरीरकर्षणम् । शमः शत्रुष्वपि
क्रोधराहित्यम् । दानं धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्तम् । यज्ञोऽग्निहोत्रा-
दीनि [ कर्माणि ] तदेतत्सर्वमर्वाचीनं तपः । भूरादिलोकत्रयात्मकविराड्देव(ह)रूपं
यद्ब्रह्मास्ति हे मुमुक्षवेतद्ब्रह्मोपास्य विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु ।
एतदुपासनं तपः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि भाष्ये
दशमोऽनुवाकः ॥ १० ॥
अथैकादशोऽनुवाकः ।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति । निषिद्धाचरणरूपं तु ज्ञान-
प्रतिबन्धकतया निन्दति—
यथा॑ वृ॒क्षस्य॑ संपु॒ष्पि॒तस्य॑ दू॒राद्ग॒न्धो वा॑त्ये॒वं पुण्य॑स्य
- अत्र घ. पुस्तके (२४) अङ्को वर्तते ।
[अनु० १२] सभाष्यो दशमप्रपाठकः । ८२१
कर्म॑णो दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधारां॒ कर्ते॒ऽव॑हि-
तामव॑क्रामे॒ यद्यु॒वे यु॒वे ह॒वां वि॑ह्वयिष्यामि॒ कर्ते॑ पति-
ष्यामीत्ये॒वम॒मृता॑दा॒त्मानं॑ जुगुप्सेत॒, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये-
कादशोऽनुवाकः ॥ ११ ॥
यथा वृक्षस्योद्यानादौ स्थितस्य चम्पकादिलक्षणस्य संपुष्पितस्य सम्यग्विकसि-
तपुष्पोपेतस्य यो गन्धः [सुरभिरस्ति सोऽयं] दूराद्दूरदेशाद्वाति वायुना सहाऽऽग-
च्छति, एवं पुण्यस्य कर्मणो ज्योतिष्टोमादेः सत्कीर्तिः सुगन्धसमाना दूराद्वाति ।
मनुष्यलोकात्स्वर्गे गच्छति । तस्मात्पुण्यमनुष्ठेयम् । अथ पापस्य दृष्टान्त उच्यते—
यथा लोके कश्चित्कदाचित्केनाचिद्धेतुना [कर्ते] गर्ते गर्तस्योपरि तिर्यक्काष्ठवदवहितां
प्रसारितामसिधारामहमवक्रामे पादाभ्यामुपर्य्युपरि गच्छामि(मी)तीच्छति तदा]
८२९ परिशिष्टत्वेन संगृहीतः— [ अनु० १२ ]
त्वेन प्रसिद्धः परमाणुद्व्यणुकादिरणुशब्दवाच्यः । तस्मादप्ययमात्माऽतिशयेन सूक्ष्म-
त्वादणीयान् । आकाशादिगादयः परिमाणाधिक्याल्लोके महच्छब्दवाच्याः । ततोऽप्यय-
मात्माऽतिशयेनाधिकत्वान्महीयान् । परमाणुद्व्यणुकादीनामस्मदादिप्रत्ययगम्यत्वाभावेऽ-
पियोगिजनचक्षुर्गम्यत्वमस्ति तदप्यात्मनो नास्तीत्यभिप्रेत्याणीयस्त्वमुक्तम् । आकाशादि-
गादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्यधिष्ठान त्व]मभिप्रेत्य महीयस्त्वमुक्तम्।
तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः । गुहाशब्देन हृद-
यपुण्डरीकवर्तिनी बुद्धिरूपलक्ष्यते । ‘ गुहू संवरणे ’ इत्यस्माद्धातोत्पन्नो गुहाशब्दः ।
बुद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात् । तस्यां बुद्धावस्य परमात्मनो निहि-
तत्वं नाम विद्ययोपलभ्यत्वम्, नतु बुद्धावाधेयत्वम् । सर्वजगदाधारस्य तदसंभवात् ।
[तं] तथाविधं गुहावस्थितमीशं शमदमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति । साक्षा-
त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता जगतो विधाता परमेश्वर-
स्तस्य प्रसादोऽनुग्रहः ।
तथा च पूर्वाचार्यैरुक्तम्—
“ ईश्वरानुग्रहादेषां पुंसामद्वैतवासना ।
महाभयकृतत्राणा द्वित्राणां यदि जायते ” ॥
कीदृशमीशम् । अक्रतुं संकल्परहितम् । स्नानपानादिभोगजातं समीचीनमिति संक-
ल्पनं जीवस्यैव न त्वीश्वरस्य, संकल्पहेतुभूतान्तःकरणोपाधेरभावात् । अतो निरुपाधिक-
त्वान्महिमानमतिशयेन महान्तमीश्वरम् । ईदृशं परमेश्वरं साक्षात्कृत्य वीतशोको
जन्ममरणादिशोकरहितो भवति ।
द्वितीयामृचमाह—
स॒प्त प्राणाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त, इति ॥
शुद्धान्तःकरणैर्यो ज्ञातव्यः परमात्मोक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्का-
रणत्वमुच्यते । तस्मात्परमात्मनो मायाशक्तिविशिष्टात्सप्त प्राणाः प्रभवन्ति । अन्यत्र
सप्त वै शीर्षण्याः प्राणा इत्युक्तत्वाच्छिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्याकाश्चक्षुरादयः
प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे चक्षुषी द्वे ने( श्रो )त्रे द्वे नासिके मुखमेकमिति सप्त-
त्वम् । तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः सप्ताचिर्षः । तैरर्चिर्भिर्गृह्यमाणत्वेन
सप्तसंख्याका विषयाः समिधः । विषयैरिन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते।
यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वम्, तथा रूपस्याप्येकस्य वामदक्षिणरूप-
निर्वाहकचक्षुर्भेदाद्वित्वं द्रष्टव्यम् । एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संपद्यन्ते ।
अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन ।
[अनु० १२] सभाष्यो दशमप्रपाठकः । ८२३
अग्नौ(ग्नि)जिह्वानां च सप्तत्वमाथर्वणिकैराम्नातम्---
“ काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ” इति ।
ताः परमेश्वरात्प्रभवन्ति । इमे भूरादयः सप्तसंख्याका लोकास्तस्मात्प्रभवन्ति ।
येषु सप्तसु लोकेषु देवमनुष्यादिशरीरवर्तिनः प्राणाश्चरन्ति तादृशा लोका उत्पन्ना
इति पूर्वेणान्वयः । गुहा बुद्धिस्तस्यां शेत उपलभ्यत इति गुहाशयः परमेश्वरस्तस्मा-
न्निहिता उत्पन्नाः सप्तर्षयः सप्त समुद्रा इत्यादिकाः सप्तसंख्याकाः पदार्थविशेषाः ।
अथ तृतीयामाह---
अतः॑ समुद्रा गिरय॑श्च॒ सर्वे॑ऽस्मा॒त्स्यन्द॑न्ते॒ सिन्ध॑वः सर्व॑रूपाः ।
अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा॑च्च॒ येनै॑ष भू॒तस्ति॑ष्ठ॒त्यन्त॑रात्मा, इति ॥
[सर्वे क्षीरोदधिप्रभृतयः समुद्रविशेषा] मेरुप्रभृतयो गिरिविशेषाश्चा[तोऽ]स्मात्पर-
मेश्वरादुत्पन्नाः । सर्वरूपा नानादिगभिमुखाः सिन्धवः स्यन्दन्ते प्रवहन्ति । व्रीहिय-
वाद्या विश्वाः सर्वा ओषधयश्चोत्पन्नाः । कथंभूतात्परमात्मनः । रसात् । विद्वदनुभव-
नीयात् । रसो वै स इति पूर्वमुक्तत्वात् । एषोऽहंप्रत्ययेन गम्यमानः । अन्तरात्मा
स्थूलदेहचिदात्मनोर्मध्यवर्ती यो लिङ्गदेही(हः) । येनौषधिरसेन भूतोऽधिष्ठितः संस्ति-
ष्ठति । अत इति पूर्वेणान्वयः ।
[चतुर्थीमृचमाह---]
ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
श्ये॒नो गृध्रा॑णा॒ꣳ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभ॑न्, इति ॥
अन्तर्बहिर्वर्तिनां प्राणसमुद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमेश्वरस्योत्कृष्ट-
रूपेणावस्थानमुच्यते । देवानामीन्द्रादीनां मध्ये ब्रह्मा चतुर्मुखो भूत्वा परमेश्वरो
नियामकत्वेनावतिष्ठते । तथा कवीनां काव्यनाटकादिकर्तॄणां पुरुषाणां मध्ये पदवी-
त्वेनावतिष्ठते । व्याकरणनिष्पन्नः सुशब्दविशेषः पदं तद्वेत्ति गच्छतीति पदवीः ।
शब्दसामर्थ्याभिज्ञो व्यासवाल्मीक्यादिरूप इत्यर्थः । विप्राणां वैदिकमार्गवर्तिनां ब्राह्म-
णानां मध्य ऋषिरू[क्ष]ह्योत्रप्रवर्तको वसिष्ठादिरूपो बभूव । मृगाणां चतुष्पदानां
मध्ये शक्त्याधिक्ययुक्तो महिषो बभूव । गृध्रोपलक्षितानां सर्वेषां पक्षिणां मध्ये
प्रबलः श्येनो बभूव । वनानां वृक्षसमूहरूपाणां छेदनार्थं स्वधितिः परशुर्बभूव ।
१ ड. ॰दित्व॰ ।
८२४ परिशिष्टत्वेन संगृहीतः— [ अनु० १२ ]
यागहेतुभूतवल्लयात्मकः सोमो भूत्वा रेभन्मन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकरणं गङ्गा-
जलकुशदर्भादिकद्रव्यजातं सर्वमत्येति ।
पञ्चमीमृचमाह—
अ॒जामेकां लोहि॑तशु॒क्लकृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गाम॒जोऽन्यः (१*),इति।
व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथो-
क्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते ।
जायत इत्यजा मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म संभवति । सा
मायैका । इतरस्य सर्व [स्य] जगतस्तत्कार्यत्वात् । यदाऽसौ तेजोबन्नानि त्रीणि रूपा-
ण्युत्पाद्य तद्रूपाऽवतिष्ठते तदानीं लोहितशुक्ल[कृष्ण]वर्णैरुपैता भवति । तथा छन्दोग
आमनन्ति—"यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य'
इति । अन्नशब्देनात्र पृथिव्युपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपल-
क्ष्यन्ते । गुणत्रयात्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रितया-
त्मकत्वेन सरूपां बहुविधां प्रजां जनयन्ती । न जायत इत्यजो जीवस्तस्यापि माया-
वदनादित्वादुत्पत्तिर्नास्ति । तादृशो जीवो द्विविधः । आसक्तो विरक्तश्च । तयोर्मध्य
एक आसक्तो जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तद-
नुसारेणैव वर्तते । विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संसरतीत्यर्थः
अन्यो विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति । विरक्तेः पूर्वमे-
भोगान्भुक्त्वा (गा भुक्ता) नतूपरिष्टाद्भोक्ष्यन्ते तादृशैर्भोगैर्भुक्ता भुक्तभोगा तां माय-
स्तत्त्वविवेकेन बाधतामि (त इ) त्यर्थः ।
षष्ठीमृचमाह—
ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति ॥
[L2
[अनु० १२] सभाष्यो दशमप्रपाठकः । ८२५
दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु कर्माधिकारिजीवरूपेण
सीदतीति नृषत् । वरे श्रेष्ठे क्षेत्रे काशीद्वारवत्यादौ पूजनीयरूपेण सीदतीति वरसत् ।
ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत् । व्योम्न्याकाशे नक्षत्रादिरूपेण
सीदतीति व्योमसत् । अद्ब्यो नदीसमुद्रादिगताभ्यः शङ्खमकरादिरूपेण जायत
इत्यब्जाः । गोभ्यः क्षीरादिरूपेण जायत इति गोजाः । ऋतं सत्यं वचनं तस्मात्की-
र्तिरूपेण जायत इति ऋतजाः । अद्रिभ्यो वृक्षादिरूपेण जायत इत्यद्रिजाः । हंस
इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगद्गतं सत्यं बृहद्ब्रह्म । अज्ञानिदृष्ट्या
जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ।
सप्तमीमृचमाह—
घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ ।
अनु॑ष्व॒धमाव॑ह मा॒दय॑स्व स्वाहा॑कृ॒तं वृ॑षभ वक्षि ह॒व्यम्, इति ।
भोग(ग्य)जातस्य ज्ञानभो(यो)ग्यदेहानुकूल्यं प्रार्थ्य[मिति तदर्थं] ज्ञानसाधनया-
गादिकर्महेतोरग्नेरानुकूल्यं प्रार्थ्यते । पूर्वं(र्वे) यजमाना अन्वावाहवनीयादिरूपे घृतं
मिमिक्षिरे सिक्तवन्तः । मिह सेचन इति धातुः । तद्घृतमस्याग्नेर्योनिरुत्पत्तिका-
रणं घृतेन ज्वालाभिवृद्धिदर्शनात् । ततोऽयमग्निर्घृते श्रितो घृतमाश्रित्यावस्थितः । घृतमु
घृतमेवास्याग्नेर्धाम स्थानं तेजोहेतुर्वा । हेऽग्नेऽनुष्वधं स्वधामन्वस्मदीयं हविः-
स्वरूपमनुशू(सृ)त्याऽऽवह देवानत्राऽऽनय । आनीय च मादयस्व सुदृष्टान्कुरु ।
हे ऋ(वृ)षभ श्रेष्ठ स्वाहाकृतं स्वाहाकारेणास्माभिर्दत्तं हव्यं वक्षि वह देवान्प्रापय ।
अष्टमीमृचमाह—
स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ उदा॑रदु॒पा॒ꣳशुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑ः इति, ।
समुद्रात्प्रभूतात्परमात्मन ऊर्मिसदृशः प्रपञ्चो मधुमान्भोग्यत्वेन माधुर्ययुक्त उदार-
दुदगच्छदुत्पन्न इत्यर्थः । यथा लोके समुद्रात्तरङ्ग उत्पद्यत एवं चिदेकरसात्परमात्मनो
जडं भोग्यजातं समुत्पन्नम् । घृ क्षरणदीप्त्योरिति धातोरुत्पन्नो घृतशब्दः । घृतं दीप्तं
स्वप्रकाशं ब्रह्मेत्यर्थः । तस्य ब्रह्मणो यन्नाम प्रणवरूपं गुह्यं सर्ववेदेष्वस्ति । तथाच
काठकैराम्नातम्—“सर्वे वेदा यत्पदमामनन्ति” इति प्रस्तुत्य “तत्ते पदं संग्रहेण ब्रवी-
म्योमित्येतत् ” इति । तेन प्रणवरूपेणोपांशुना ध्यानकाले शनैरुच्चार्यमाणेनामृतत्वमु-
त्पत्तिविनाशरहितं ब्रह्मतत्त्वं समानट् सम्यगानशे प्राप्नोतीत्यर्थः । तच्च प्रणवाख्यं नाम
देवानां जिह्वा देवैर्ध्यानपरैर्निरन्तरमुच्चार्यमाणत्वेन जिह्वेव सर्वदा मुखमध्ये वर्तते ।
किंचेदं प्रणवरूपममृतस्य विनाशरहितस्य मोक्षस्य नाभी रथचक्रस्य नाभिरिवाऽऽश्रय-
१०४
भूतम् । अनेन हि मुक्तिरूपं फलं लभ्यते । अत एव कठैराम्नातम्—“एतद्देवाक्षरं
[ज्ञात्वा] यो यदिच्छति तस्य तत्” इति । एतस्यामृचि प्रणवस्य मोक्षसाधनत्वमुक्तम् ।
नवमीमृचमाह—
व॒यं नाम॑ प्रब्र॑वामा घृ॒तेना॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑ःशृङ्गोऽवमीद्गौर ए॒तत् , इति ।
वयं ज्ञानार्थिनः पुरुषा अस्मिञ्ज्ञानयज्ञे घृतेनाऽऽदीप्तेन स्वप्रकाशेन ब्रह्मणो
निमित्तभूतेन प्रणवरूपं [नाम] प्रब्रवाम । सर्वदोच्चारयामः (म॒ । ततो नमो[भि]र्न-
मस्कारैर्युक्ता वयं चित्ते ब्रह्मतत्त्वं सर्वदा धारयामः(म) । ज्ञानस्य यज्ञत्वं भगवतो-
क्तम्—“स्वाध्यायज्ञानयज्ञाश्च यतयः शंसि(संशि)तव्रताः” [इति ] शस्यमानम-
स्माभिः प्रणवेन स्तूयमानमुपशृणवत्पार्श्ववर्तिभिस्तत्त्ववेदिभिः श्रूयमाणमेतद्ब्रह्मतत्त्वं
चतुःशृङ्गोऽकारोकारमकारनादरूपशृङ्गचतुष्टयोपेतो गौरः श्वेतः प्रणवाख्य ऋषभोध-
वमीद्धान्तवान् । ब्रह्मतत्त्वं प्रत्यपादयदित्यर्थः । अकारादीनां प्रणवमात्राणां शुक्लत्वमु-
त्तरतापनीये श्रुतम्—“शृङ्गेष्वशृङ्गं संयोज्य” इति । निष्कामैरनुष्ठेयत्वेन निर्मलत्वा-
त्प्रणवस्य गौरत्वम् । वृषभरूपत्वं च संहितोपनिषद्याम्नातम्—“यश्छन्दसामृषभो
विश्वरूपः” इति । *वचनेन प्रतिपादनमुपलक्ष्यते(!) ।
दशमीमृचमाह—
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शीर्षे स॒प्त हस्ता॑सो अ॒स्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्यां॒२ आ॑विवेश, (२) इति ।
शृङ्गा प्रणवस्य यान्यकारादीनि [शृङ्गाणि] तानि चत्वारि । अस्य प्रणवप्रतिपा-
द्यत्वेन प्रणवरूपस्य ब्रह्मणस्त्रयः पादाः । पद्यते गम्यते ब्रह्मतत्त्वमेभिरिति पादाः
अध्यात्मं विश्वतैजसप्राज्ञाः । अधिदैवं विराड्ढिरणयगर्भाव्याकृतानि । द्वे शीर्षे उत्तम-
ङ्गस्थाने चि[दचि]द्रूपे द्वे शक्ती । तथैवास्य ब्रह्मणो भूरादयः सप्त लोका हस्ता[सं-
हस्तस्थानीयाः । त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरणयगर्भाव्या-
कृतैश्च त्रिप्रकारेण संबद्धो वृषभः प्रणवो महस्तेजोरूपं ब्रह्मतत्त्वं रोरवीति, अतिश-
येन प्रतिपादयति । तदेव प्रतिपाद्यत्वं स्पष्टी क्रियते—देवः परमेश्वरो मर्त्यान्मनुष्यदे-
हानाविवेश सर्वतः प्रविष्टः । “स एष इह प्रविष्ट आ नखाग्रेभ्यः” इति श्रुत्यन्तरात्
- एतत्प्रभृत्युपलक्ष्यत इत्यन्तो ग्रन्थः प्रकृतानुपयोगीव भवति ॥
१ ब. ॥ २७ ॥
एकादशीमृचमाह—
त्रि॒धा हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकं५ सूर्य॒ एकं॑ जजान वे॒नादेक॑५ स्व॒धया॒ निष्ट॑तक्षुः, इति ।
त्रिधा हितं शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भा-
व्याकृताख्येन च त्रिप्रकारेणावस्थितं घृतं दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं देवासो देववत्सा-
त्त्विका अन्तर्मुखाः पुरुषा गवि वाचि तत्त्वमस्यादिवेदरूपायामेवान्वविन्दन्ननुक्रमेण
लब्धवन्तः । कीदृशं घृतम् । पणिभिर्गुह्यमानम् । पण व्यवहारे स्तुतौ चेति धातुः ।
पणिभिः स्तोतृभिरुपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानम् । त्रिधा हितमित्येतदे-
वोच्यते । इन्द्रः परमैश्वर्ययुक्तो विराट्पुरुष एकं जागरणरूपं जजानोत्पादितवान् ।
[
८२८ परिशिष्टत्वेन संगृहीतः— [ अनु० १२ ]
त्रयोदशी[मृचं]माह—
यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।
वृक्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पूर्णं पुरु॑षेण॒ सर्वम्, इति ।
यदुक्तं शुभया स्मृत्या संयुनक्त्विति तत्र स्मरणीयं तत्त्वमत्र निर्दिश्यते । यस्मा-
द्ब्रह्मतत्त्वात्परमुत्कृष्ट[मपरं निकृष्टं] वा वस्तु किंचिदपि नास्ति । [*यस्माद्ब्रह्मत-
त्त्वादणीयोऽत्यल्पं वस्तु नास्ति । तथा ज्यायोऽधिकमपि कश्चित्किंचिदपि वस्तु
नास्ति । ] परापरशब्दाभ्यां गुणोत्कर्षनिकर्षौ विवक्षितौ । ज्यायोणीयःशब्दाभ्यां
परिमाणोत्कर्षापकर्षौ विवक्षितौ । सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति ।
यथा वृक्षो
An accurate line-by-line transcription of the provided image into Devanagari text, with Vedic accents and formatting preserved:
पूर्वस्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम् । अत्र हि (अन्यत्र)—"तरति शोक-
मात्मवित्" "ज्ञानादेव [तु] कैवल्यं प्राप्यते येन मुच्यते" इत्यादिश्रुतिस्मृतिषु
ज्ञानस्य(स्यैव) मोक्षहेतुत्वमुच्यते । अतोऽस्यामृचि विरोधपरिहाराय ज्ञानसंन्यासयो-
र्मोक्षे पृथगुपयोग उच्यते । वेदान्ता उपनिषद्वाक्यानि तैरुत्पन्नं सर्वसंसारनिवर्तकत्वेन
विशिष्टं ज्ञानं यदस्ति तेन सुनिश्चितो जीवब्रह्मैक्यलक्षणोऽर्थो यैः पुरुषैस्ते वेदान्त-
विज्ञानसुनिश्चितार्थाः । संन्यासः पूर्वोक्त(क्तः)प्रज(दित्य)ागस्तत्पूर्वको [*योगः
प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधः] "योगश्चित्तवृत्ति-
निरोधः" [*इति पतञ्जलिना सूत्रितत्वात् । तस्माद्योगाच्छुद्धसत्त्वा विषयभोगव्यावृत्त-
चित्ताः] । अत एव यतयो नियमशीलाः । एतेन ज्ञानं तत्त्वप्रकाशनेनाविद्यानिव-
र्तकं त्यागस्तु विषययो(भो)गनिवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो
भवति । ब्रह्मणो लोको दर्शनं साक्षात्कारस्तस्मिन्नुत्पन्ने सति संसारिविलक्षणास्ते
पुरुषाः । वैलक्षण्योतनार्थस्तुशब्दः । तादृशाः पुरुषाः सर्वे [परिमुच्यन्ति] परि-
मुच्यन्ते । ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमाधमभावोऽप्रयोजक इति विवक्षया सर्व
इत्युक्तम् । कदा मुच्यन्त इत्याशङ्क्य परान्तकाल इत्युक्तम् । सत्यज्ञानेन यो देह-
पातावसरः सोऽयं परान्तकालः पुनर्देहग्रहणरहितत्वात् । तस्मिन्परान्तकाले संसारबन्ध-
नाद्विमुच्यन्ते । ननु तत्त्व(त्त्वा)ज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्मशरीरद्वयबन्धनान्मु-
च्यन्त एवेत्याशङ्क्य परामृतादि [त्युक्तम् ।] जगत्कारणत्वेनोत्कृष्टं परं तत्त्व-
ज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृतादज्ञानिनः प्रलय-
कालेऽ[पि] न मुच्यन्ते, ज्ञानिनस्तु देहपातावसर एव तादृशाद्व्याकृतादपि मुच्यन्त
इति [वि]शेषः ।
षोडशीमृचमाह—
दह्रं॒ विपा॑पं प॒रमे॑श्मभू॒तं यत्पु॑ण्डरी॒कं पु॒रमध्य॑स॒ꣳस्थम् ।
तत्रा॑पि दह्रं ग॒गनं॑ विशो॒कस्तस्मि॒न्यद॒न्तस्तदुपा॑सि॒तव्य॑म्, इति ।
तत्त्वं ज्ञातुमसमर्थस्य सूक्ष्मोपाय उच्यते । यदेतत्पुण्डरीकमष्टदलमास्ति । कीदृशम्।
[ दह्रं ] दहरमल्पम् । विपापं शुद्धं शरीरसंबन्धिदोषैरपरामृष्टत्वात् । परस्याऽऽत्मनो
मेश्मभूतं वकारस्थाने मकारश्छान्दसः । वेश्मभूतं गृहभूतं सर्वदा तत्रोपलभ्यत्वात् ।
- त्रुटितोऽयमेतच्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्ठ्यनुवाकानुरोधिभाष्यात्संगृहीतः । प्रकृतगर्भाष्यस्य
तत्रात्र चैक्यात् ।
१ छ. ॰सारण्चित्तै ।
:, ] स च स्वरःWait, let's look at the first word of Line 17: Is itकठोपनिषद्योमित्येतदक्षरमिदं? Wait, look at the letter: It is कठोपनिषद्योमित्येतदक्षरमिदं. Wait, let's look at प्रतिष्ठितः: प्रतिष्ठितः प्रतिपादितः, ]Wait, look atप्रतिपादितः: प्रतिपादितः, ]Then:स च स्वरःLine 18:प्रणवो ध्यानकालेऽव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराड्धिर-Line 19:ण्यगर्भाऽव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपंLine 20:मूलप्रकृतिरूपे मकारे प्रविलापयेत् । तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परश्चतु-Line 21:र्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति सोऽयं महेश्वरो विज्ञेयः । अनेन मन्त्रेणLine 22:पूर्वोक्तं गगनशब्दवाच्यं वस्तु प्रपञ्चितम् ॥`
Line 23
पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुण-
विशेषा अस्मिन्ननुवाके विस्तरेण प्रदर्श्यन्ते । तत्र प्रथमामृचमाह—
सह॑स्रशीर्षं दे॒वं वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् ।
विश्वं॑ नारा॒यणं दे॒वम॒क्षरं॑ पर॒मं पदम् , इति ।
देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः । कीदृशं देवम् । सहस्रशीर्षं सहस्रशीर्ष-
त्वेना( शब्देनात्रा )पारिमितत्वमुपलक्ष्यते । अनन्तशिरस्कमित्यर्थः । सर्वजगदात्मकं
विराड्रूपं महेश्वरस्य देहः । तथा सत्यस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्त-
शिरस्त्वम् । अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीन्द्रियाणि तदीयान्येवेति
विश्वाक्ष[ स्त ]म् । विश्वस्य सर्व[ स्य ] जगतः शं सुखमस्माद्भवतीति विश्वशंभुः
(भूः) तादृशम् । उक्तं सहस्रशीर्षं विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निज-
स्वरूपं द्वितीयार्धेनोच्यते । विश्वं जगदात्मकम्, आरोपितस्य जगतोऽधिष्ठान-
व्यतिरेकेण वास्तवरूपाभावात् ।
नारायणशब्दस्य निर्वचनं पुराणेषु दर्शितम्—
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः” इति ॥
जगत्कारणेषु पञ्चभूतेष्ववस्थितमित्यर्थः । स एवेन्द्रमित्रादिरूपेणावस्थितत्वाद्देव
इत्युच्यते। तथा च शाखान्तरे मन्त्र आम्नातः—“इन्द्रं मित्रं वरुणमग्निमाहुः” इति ।
न क्षर[ती]ति, अश्नुत इति वा तस्याक्षरत्वम् । कारणत्वेनोत्कर्षात्परमत्वम् । पुनः
कथंभूतम् । [१पदं] पद्यते ज्ञानिभिः प्राप्यते लक्ष्यत इति पदम् ।
द्वितीयामृचमाह —
विश्व॑तः पर॒मान्नित्यं॒ विश्वं॑ नारा॒यणꣳ हरि॑म् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्वमुप॑जीवति, इति ।
विश्वतो जगतो जडवर्गात्परमा । विभक्तिव्यत्ययः । परममुत्कृष्टम् । ऋग्भेदेन पुन-
रुक्तिपरिहारो द्रष्टव्यः । स्तुतिरूपत्वादनेन प्रकारेण ध्यातव्यत्वाच्च नास्ति पुनरुक्ति-
दोषः । विनाशरहितत्वाच्च नित्यत्वम् । [*सर्वात्मकत्वाद्विश्वत्वम् । नारायणत्वं
- त्रुटितोऽयमेतच्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्ट्यनुवाकपाठानुरोधिभाष्यात्संगृहीतः । प्रकृतभा-
ष्यस्य तत्रात्र चैक्यात् ।