तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 822, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 822[ अनु० ५-६ ] सभाष्य दशमप्रपाठकः । ८१७
अथ पञ्चमोऽनुवाकः ।
[ अनु० ५-६ ] सभाष्य दशमप्रपाठकः । ८१७
भूरादयस्तिस्रो लोके प्रसिद्धा इदमाहुतिद्रव्यं स्वीकृत्यास्मत्पापं निवारयन्त्विति
शेषः । हेऽग्ने त्वमपि मत्प्रार्थितमोम्, कर्तुमङ्गी कुरु ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्ताया-
याज्ञिक्यामुपनिषदि भाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
महत्त्वकामस्य तत्फलका होममन्त्रा उच्यन्ते—
भूर॒ग्नये॑ च पृथि॒व्यै च॑ म॒हते॑ च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑-
क्षाय॑ च म॒हते॑ च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ म॒हते॑ च॒
स्वाहा॒ भूर्भुव॒: सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ म॒हते॑ च॒
स्वाहा॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒: सुव॑र्मह॒रोम्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
पञ्चमोऽनुवाकः ॥ ५¹ ॥
तिस्रो देवता महर्महत्त्वं सर्वपूज्यत्वं दद्युरिति शेषः । महत् इत्यग्न्यादीनां विशेषणं
वचनलिङ्गविपरिणामेना[न्यत्राप्य]न्वेतव्यम् । एतत्सर्वं मान्त्रिक्यो देवता ओमङ्गी-
कुर्वन्तु । समानमन्यत् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
पूर्वत्र भूरग्नय इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होममन्त्रा उक्ताः । अथ प्रति-
बन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्थं होममन्त्रा उच्यन्ते—
पा॒हि नो॑ अग्न॒ एन॑से॒ स्वाहा॒ । पा॒हि नो॑ विश्व॒वेद॑से॒ स्वाहा॒ ।
य॒ज्ञं पा॑हि विभावसो॒ स्वाहा॒ । सर्वं॑ पाहि शतक्रंतो॒ स्वाहा॒, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
षष्ठोऽनुवाकः ॥ ६² ॥
१ व. १९ ॥ २ ग. २० ॥
१०२