तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 827, कुल 914 में से
संदर्भ में पढ़ें८२९ परिशिष्टत्वेन संगृहीतः— [ अनु० १२ ]
त्वेन प्रसिद्धः परमाणुद्व्यणुकादिरणुशब्दवाच्यः । तस्मादप्ययमात्माऽतिशयेन सूक्ष्म-
त्वादणीयान् । आकाशादिगादयः परिमाणाधिक्याल्लोके महच्छब्दवाच्याः । ततोऽप्यय-
मात्माऽतिशयेनाधिकत्वान्महीयान् । परमाणुद्व्यणुकादीनामस्मदादिप्रत्ययगम्यत्वाभावेऽ-
पियोगिजनचक्षुर्गम्यत्वमस्ति तदप्यात्मनो नास्तीत्यभिप्रेत्याणीयस्त्वमुक्तम् । आकाशादि-
गादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्यधिष्ठान त्व]मभिप्रेत्य महीयस्त्वमुक्तम्।
तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः । गुहाशब्देन हृद-
यपुण्डरीकवर्तिनी बुद्धिरूपलक्ष्यते । ‘ गुहू संवरणे ’ इत्यस्माद्धातोत्पन्नो गुहाशब्दः ।
बुद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात् । तस्यां बुद्धावस्य परमात्मनो निहि-
तत्वं नाम विद्ययोपलभ्यत्वम्, नतु बुद्धावाधेयत्वम् । सर्वजगदाधारस्य तदसंभवात् ।
[तं] तथाविधं गुहावस्थितमीशं शमदमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति । साक्षा-
त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता जगतो विधाता परमेश्वर-
स्तस्य प्रसादोऽनुग्रहः ।
तथा च पूर्वाचार्यैरुक्तम्—
“ ईश्वरानुग्रहादेषां पुंसामद्वैतवासना ।
महाभयकृतत्राणा द्वित्राणां यदि जायते ” ॥
कीदृशमीशम् । अक्रतुं संकल्परहितम् । स्नानपानादिभोगजातं समीचीनमिति संक-
ल्पनं जीवस्यैव न त्वीश्वरस्य, संकल्पहेतुभूतान्तःकरणोपाधेरभावात् । अतो निरुपाधिक-
त्वान्महिमानमतिशयेन महान्तमीश्वरम् । ईदृशं परमेश्वरं साक्षात्कृत्य वीतशोको
जन्ममरणादिशोकरहितो भवति ।
द्वितीयामृचमाह—
स॒प्त प्राणाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त, इति ॥
शुद्धान्तःकरणैर्यो ज्ञातव्यः परमात्मोक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्का-
रणत्वमुच्यते । तस्मात्परमात्मनो मायाशक्तिविशिष्टात्सप्त प्राणाः प्रभवन्ति । अन्यत्र
सप्त वै शीर्षण्याः प्राणा इत्युक्तत्वाच्छिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्याकाश्चक्षुरादयः
प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे चक्षुषी द्वे ने( श्रो )त्रे द्वे नासिके मुखमेकमिति सप्त-
त्वम् । तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः सप्ताचिर्षः । तैरर्चिर्भिर्गृह्यमाणत्वेन
सप्तसंख्याका विषयाः समिधः । विषयैरिन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते।
यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वम्, तथा रूपस्याप्येकस्य वामदक्षिणरूप-
निर्वाहकचक्षुर्भेदाद्वित्वं द्रष्टव्यम् । एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संपद्यन्ते ।
अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन ।