सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 833, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 833

८२८ परिशिष्टत्वेन संगृहीतः— [ अनु० १२ ]
त्रयोदशी[मृचं]माह—
यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।
वृक्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पूर्णं पुरु॑षेण॒ सर्वम्, इति ।
यदुक्तं शुभया स्मृत्या संयुनक्त्विति तत्र स्मरणीयं तत्त्वमत्र निर्दिश्यते । यस्मा-
द्ब्रह्मतत्त्वात्परमुत्कृष्ट[मपरं निकृष्टं] वा वस्तु किंचिदपि नास्ति । [*यस्माद्ब्रह्मत-
त्त्वादणीयोऽत्यल्पं वस्तु नास्ति । तथा ज्यायोऽधिकमपि कश्चित्किंचिदपि वस्तु
नास्ति । ] परापरशब्दाभ्यां गुणोत्कर्षनिकर्षौ विवक्षितौ । ज्यायोणीयःशब्दाभ्यां
परिमाणोत्कर्षापकर्षौ विवक्षितौ । सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति ।
यथा वृक्षो