तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 834, कुल 914 में से
संदर्भ में पढ़ेंAn accurate line-by-line transcription of the provided image into Devanagari text, with Vedic accents and formatting preserved:
पूर्वस्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम् । अत्र हि (अन्यत्र)—"तरति शोक-
मात्मवित्" "ज्ञानादेव [तु] कैवल्यं प्राप्यते येन मुच्यते" इत्यादिश्रुतिस्मृतिषु
ज्ञानस्य(स्यैव) मोक्षहेतुत्वमुच्यते । अतोऽस्यामृचि विरोधपरिहाराय ज्ञानसंन्यासयो-
र्मोक्षे पृथगुपयोग उच्यते । वेदान्ता उपनिषद्वाक्यानि तैरुत्पन्नं सर्वसंसारनिवर्तकत्वेन
विशिष्टं ज्ञानं यदस्ति तेन सुनिश्चितो जीवब्रह्मैक्यलक्षणोऽर्थो यैः पुरुषैस्ते वेदान्त-
विज्ञानसुनिश्चितार्थाः । संन्यासः पूर्वोक्त(क्तः)प्रज(दित्य)ागस्तत्पूर्वको [*योगः
प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधः] "योगश्चित्तवृत्ति-
निरोधः" [*इति पतञ्जलिना सूत्रितत्वात् । तस्माद्योगाच्छुद्धसत्त्वा विषयभोगव्यावृत्त-
चित्ताः] । अत एव यतयो नियमशीलाः । एतेन ज्ञानं तत्त्वप्रकाशनेनाविद्यानिव-
र्तकं त्यागस्तु विषययो(भो)गनिवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो
भवति । ब्रह्मणो लोको दर्शनं साक्षात्कारस्तस्मिन्नुत्पन्ने सति संसारिविलक्षणास्ते
पुरुषाः । वैलक्षण्योतनार्थस्तुशब्दः । तादृशाः पुरुषाः सर्वे [परिमुच्यन्ति] परि-
मुच्यन्ते । ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमाधमभावोऽप्रयोजक इति विवक्षया सर्व
इत्युक्तम् । कदा मुच्यन्त इत्याशङ्क्य परान्तकाल इत्युक्तम् । सत्यज्ञानेन यो देह-
पातावसरः सोऽयं परान्तकालः पुनर्देहग्रहणरहितत्वात् । तस्मिन्परान्तकाले संसारबन्ध-
नाद्विमुच्यन्ते । ननु तत्त्व(त्त्वा)ज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्मशरीरद्वयबन्धनान्मु-
च्यन्त एवेत्याशङ्क्य परामृतादि [त्युक्तम् ।] जगत्कारणत्वेनोत्कृष्टं परं तत्त्व-
ज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृतादज्ञानिनः प्रलय-
कालेऽ[पि] न मुच्यन्ते, ज्ञानिनस्तु देहपातावसर एव तादृशाद्व्याकृतादपि मुच्यन्त
इति [वि]शेषः ।
षोडशीमृचमाह—
दह्रं॒ विपा॑पं प॒रमे॑श्मभू॒तं यत्पु॑ण्डरी॒कं पु॒रमध्य॑स॒ꣳस्थम् ।
तत्रा॑पि दह्रं ग॒गनं॑ विशो॒कस्तस्मि॒न्यद॒न्तस्तदुपा॑सि॒तव्य॑म्, इति ।
तत्त्वं ज्ञातुमसमर्थस्य सूक्ष्मोपाय उच्यते । यदेतत्पुण्डरीकमष्टदलमास्ति । कीदृशम्।
[ दह्रं ] दहरमल्पम् । विपापं शुद्धं शरीरसंबन्धिदोषैरपरामृष्टत्वात् । परस्याऽऽत्मनो
मेश्मभूतं वकारस्थाने मकारश्छान्दसः । वेश्मभूतं गृहभूतं सर्वदा तत्रोपलभ्यत्वात् ।
- त्रुटितोऽयमेतच्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्ठ्यनुवाकानुरोधिभाष्यात्संगृहीतः । प्रकृतगर्भाष्यस्य
तत्रात्र चैक्यात् ।
१ छ. ॰सारण्चित्तै ।